०५८ रामशोकः

स दृष्ट्वा लक्ष्मणं दीनं शून्ये दशरथात्मजः।
पर्यपृच्छत धर्मात्मा वैदेहीमागतं विना ॥ 3.58.1 ॥
प्रस्थितं दण्डकारण्यं या मामनुजगाम ह।
क्व सा लक्ष्मण वैदेही यां हित्वा त्वमिहागतः ॥ 3.58.2 ॥
राज्यभ्रष्टस्य दीनस्य दण्डकान् परिधावतः।
क्व सा दुःखसहाया मे वैदेही तनुमध्यमा ॥ 3.58.3 ॥
यां विना नोत्सहे वीर मुहूर्तमपि जीवितुम्।
क्व सा प्राणसहाया मे सीता सुरसुतोपमा ॥ 3.58.4 ॥
पतित्वममराणां वा पृथिव्याश्चापि लक्ष्मण।
तां विना तपनीयाभां नेच्छेयं जनकात्मजाम् ॥ 3.58.5 ॥
कच्चिज्जीवति वैदेही प्राणैः प्रियतरा मम।
कच्चित्प्रवाजनं सौम्य न मे मिथ्या भविष्यति ॥ 3.58.6 ॥
सीतानिमित्तं सौमित्रे मृते मयि गते त्ययि।
कच्चित् सकामा सुखिता कैकेयी सा भविष्यति ॥ 3.58.7 ॥
सपुत्रराज्यां सिद्धार्थां मृतपुत्रा तपस्विनी।
उपस्थास्यति कौसल्या कच्चित् सौम्य न केकयीम् ॥ 3.58.8 ॥
यदि जीवति वैदेही गमिष्याम्याश्रमं पुनः।
सुवृत्ता यदि वृत्ता सा प्राणांस्त्यक्ष्यामि लक्ष्मण ॥ 3.58.9 ॥
यदि मामाश्रमगतं वैदेही नाभिभाषते।
पुनः प्रहसिता सीता विनशिष्यामि लक्ष्मण ॥ 3.58.10 ॥
ब्रूहि लक्ष्मण वैदेही यदि जीवति वा न वा।
त्वयि प्रमत्ते रक्षोभिर्भक्षिता वा तपस्विनी ॥ 3.58.11 ॥
सुकुमारी च बाला च नित्यं चादुःखदर्शिनी।
मद्वियोगेन वैदेही व्यक्तं शोचति दुर्मनाः ॥ 3.58.12 ॥
सर्वथा रक्षसा तेन जिह्मेन सुदुरात्मना।
वदता लक्ष्मणेत्युच्चैस्तवापि जनितं भयम् ॥ 3.58.13 ॥
श्रुतस्तु शङ्के वैदेह्या स स्वरः सदृशो मम।
त्रस्तया प्रेषितस्त्वं च द्रष्टुं मां शीघ्रमागतः ॥ 3.58.14 ॥
सर्वथा तु कृतं कष्टं सीतामुत्सृजता वने।
प्रतिकर्तुं नृशंसानां रक्षसां दत्तमन्तरम् ॥ 3.58.15 ॥
दुःखिताः खरघातेन राक्षसाः पिशिताशनाः।
तैः सीता निहता घोरैर्भविष्यति न संशयः ॥ 3.58.16 ॥
अहोऽस्निन् व्यसने मग्नः सर्वथा शत्रुसूदन।
किन्न्विदानीं करिष्यामि शङ्के प्राप्तव्यमीदृशम् ॥ 3.58.17 ॥
इति सीतां वरारोहां चन्तयन्नेव राघवः।
आजगाम जनस्थानं त्वरया सहलक्ष्मणः ॥ 3.58.18 ॥
विगर्हमाणोऽनुजमार्तरूपं क्षुधा श्रमाच्चैव पिपासया च।
विनिःश्वसन् शुष्कमुखो विवर्णः प्रतिश्रयं प्राप्य समीक्ष्य शून्यम् ॥ 3.58.19 ॥
स्वमाश्रमं सम्प्रविगाह्य वीरो विहारदेशाननुसृत्य कांश्चित्।
एतत्तदित्येव निवासभूमौ प्रहृष्टरोमा व्यथितो बभूव ॥ 3.58.20 ॥