राक्षसं मृगरूपेण चरन्तं कामरूपिणम्।
निहत्य रामो मारीचं तूर्णं पथि निवर्तते ॥ 3.57.1 ॥
तस्य सन्त्वरमाणस्य द्रष्टुकामस्य मौथिलीम्।
क्रूरस्वनोऽथ गोमायुर्विननादास्य पृष्ठतः ॥ 3.57.2 ॥
स तस्य स्वरमाज्ञाय दारुणं रोमहर्षणम्।
चिन्तयामास गोमायोः स्वरेण परिशङ्कितः ॥ 3.57.3 ॥
अशुभं बत मन्येऽहं गोमायुर्वाश्यते यथा।
स्वस्ति स्यादपि वैदेह्या राक्षसैर्भक्षणं विना ॥ 3.57.4 ॥
मारीचेन तु विज्ञाय स्वरमालम्ब्य मामकम्।
विक्रुष्टं मृगरुपेण लक्ष्मणः शृणुयाद्यदि ॥ 3.57.5 ॥
स सौमित्रिः स्वरं श्रुत्वा तां च हित्वा च मैथिलम्।
तयैव प्रहितः क्षिप्रं मत्सकाशमिहैष्यति ॥ 3.57.6 ॥
राक्षसैः सहितैर्नूनं सीताया ईप्सितो वधः।
काञ्चनश्च मृगो भूत्वा व्यपनीयाश्रमात्तु माम् ॥ 3.57.7 ॥
दूरं नीत्वा तु मारीचो राक्षसोऽभूच्छराहतः।
हा लक्ष्मण हतोऽस्मीति यद्वाक्यं व्याजहार च ॥ 3.57.8 ॥
अपि स्वस्ति भवेत्ताभ्यां रहिताभ्यां महावने।
जनस्थाननिमित्तं हि कृतवैरोऽस्मि राक्षसैः ॥ 3.57.9 ॥
निमित्तानि च घोराणि दृश्यन्तेऽद्य बहूनि च।
इत्येवं चिन्तयन् रामः श्रुत्वा गोमायुनिःस्वनम् ॥ 3.57.10 ॥
आत्मनश्चापनयनान्मृगरूपेण रक्षसा।
आजगम जनस्थानं राघवः परिशङ्कितः ॥ 3.57.11 ॥
तं दीनमनसो दीनमासेदुर्मृगपक्षिणः।
सव्यं कृत्वा महात्मानं घोरांश्च ससृजुः स्वरान् ॥ 3.57.12 ॥
तानि दृष्ट्वा निमित्तानि महाघोराणि राघवः।
न्यवर्तताथ त्वरितो जवेनाश्रममात्मनः ॥ 3.57.13 ॥
आजगाम जनस्थानं चिन्तयन्नेव राघवः।
ततो लक्ष्मणमायान्तं ददर्श विगतप्रभम् ॥ 3.57.14 ॥
ततोऽविदूरे रामेण समीयाय स लक्ष्मणः।
विषण्णः सुविषण्णेन दुःखितो दुःखभागिना ॥ 3.57.15 ॥
सञ्जगर्हेऽथ तं भ्राता ज्येष्ठो लक्ष्मणमागतम्।
विहाय सीतां विजने वने राक्षससेविते ॥ 3.57.16 ॥
गृहीत्वा च करं सव्यं लक्ष्मणं रघुनन्दनः।
उवाच मधुरोदर्कमिदं परुषमार्तिमत् ॥ 3.57.17 ॥
अहो लक्ष्मण गह्यं ते कृतं यस्त्वं विहाय ताम्।
सीतामिहागतः सौम्य कञ्चित् स्वस्ति भवेदिह ॥ 3.57.18 ॥
न मेऽस्ति संशयो वीर सर्वथा जनकात्मजा।
विनष्टा भक्षिता वापि राक्षसैर्वनचारिभिः ॥ 3.57.19 ॥
अशुभान्येव भूयिष्ठं यथा प्रादुर्भवन्ति मे ॥ 3.57.20 ॥
अपि लक्ष्मण सीतायाः सामग्य्रं प्राप्नुयावहे।
जीवन्त्याः पुरुषव्याघ्र सुताया जनकस्य वै ॥ 3.57.21 ॥
यथा वै मृगसङ्घाश्च गोमायुश्चैव भैरवम्।
वाश्यन्ते शकुनाश्चापि प्रदीप्तामभितो दिशम् ॥ 3.57.22 ॥
अपि स्वस्ति भवेत्तस्या राजपुत्र्या महाबल ॥ 3.57.23 ॥
इदं हि रक्षो मृगसन्निकाशं प्रलोभ्य मां दूरमनुप्रयान्तम्।
हतं कथञ्चिन्महता श्रमेण स राक्षसोऽभून्म्रियमाण एव ॥ 3.57.24 ॥
मनश्च मे दीनमिहाप्रहृष्टं चक्षुश्च सव्यं कुरुते विकारम्।
असंशयं लक्ष्मण नास्ति सीता हृता मृता वा पथि वर्तते वा ॥ 3.57.25 ॥