०५६ सीतया रामपराक्रमवर्णनम्

सा तथोक्ता तु वैदेही निर्भया शोककर्शितता।
तृणमन्तरतः कृत्वा रावणं प्रत्यभाषत ॥ 3.56.1 ॥
राजा दशरथो नाम धर्मसेतुरिवाचलः।
सत्यसन्धः परिज्ञातो यस्य पुत्रः स राघवः ॥ 3.56.2 ॥
रामो नाम स धर्मात्मा त्रिषु लोकेषु विश्रुतः।
दीर्घबाहुर्विशालाक्षो दैवतं हि पतिर्मम ॥ 3.56.3 ॥
इक्ष्वाकूणां कुले जातः सिंहस्कन्धो महाद्युतिः।
लक्ष्मणेन सह भ्रात्रा यस्ते प्राणान् हरिष्यति ॥ 3.56.4 ॥
प्रत्यक्षं यद्यहं तस्य त्वया स्यां धर्षिता बलात्।
शयिता त्वं हतः सङ्ख्ये जनस्थाने यथा खरः ॥ 3.56.5 ॥
य एते राक्षसाः प्रोक्ता घोररूपा महाबलाः।
राघवे निर्विषाः सर्वे सुपर्णे पन्नगा यथा ॥ 3.56.6 ॥
तस्य ज्याविप्रमुक्तास्ते शराः काञ्चनभूषणाः।
शरीरं विधमिष्यन्ति गङ्गा कूलमिवोर्मयः ॥ 3.56.7 ॥
असुरैर्वा सुरैर्वा त्वं यद्यवध्योऽसि रावण।
उत्पाद्य सुमहद्वैरं जीवंस्तस्य न मोक्ष्यसे ॥ 3.56.8 ॥
स ते जीवितशेषस्य राघवोन्तकरो बली।
पशोर्यूपगतस्येव जीवितं तव दुर्लभम् ॥ 3.56.9 ॥
यदि पश्येत् स रामस्त्वां रोषदीप्तेन चक्षुषा।
रक्षस्त्वमद्य निर्दग्धो गच्छेः सद्यः पराभवम् ॥ 3.56.10 ॥
यश्चन्द्रं नभसो भूमौ पातयेन्नाशयेत वा।
सागरं शोषयेद्वापि स सीतां मोचयेदिह ॥ 3.56.11 ॥
गतायुस्त्वं गतश्रीको गतसत्त्वो गतेन्द्रियः।
लङ्का वैधव्यसंयुक्ता त्वत्कृतेन भविष्यति ॥ 3.56.12 ॥
न ते पापमिदं कर्म सुखोदर्कं भविष्यति।
याऽहं नीता विनाभावं पतिपार्श्वात्त्वया वने ॥ 3.56.13 ॥
स हि दैवतसंयुक्तो मम भर्ता महाद्युतिः।
निर्भयो वीर्यमाश्रित्य शून्यो वसति दण्डके ॥ 3.56.14 ॥
स ते दर्पं बलं वीर्यमुत्सेकं च तथाविधम्।
अपनेष्यति गात्रेभ्यः शरवर्षेण संयुगे ॥ 3.56.15 ॥
यदा विनाशो भूतानां दृश्यते कालचोदितः।
तदा कार्ये प्रमाद्यन्ति नराः कालवशं गताः ॥ 3.56.16 ॥
मां प्रधृष्य स ते कालः प्राप्तोऽयं राक्षसाधम।
आत्मनो राक्षसानां च वधायान्तःपुरस्य च ॥ 3.56.17 ॥
न शक्या यज्ञमध्यस्था वेदिः स्रुग्भाण्डमण्डिता।
द्विजातिमन्त्रपूता च चण्डालेनावमर्दितुम् ॥ 3.56.18 ॥
तथाहं धर्मनित्यस्य धर्मपत्नी पतिव्रता।
त्वया स्प्रष्टुं न शक्याऽस्मि राक्षसाधम पापिना ॥ 3.56.19 ॥
क्रीडन्ती राजहंसेन पद्मषण्डेषु नित्यदा।
हंसी सा तृमषण्डस्थं कथं पश्येत मदगुकम् ॥ 3.56.20 ॥
नेदं शरीरं रक्ष्यं मे जीवितं वापि राक्षस।
न तु शक्ष्याम्युपक्रोशं पृथिव्यां दातुमात्मनः ॥ 3.56.21 ॥
एवमुक्त्वा तु वैदेही क्रोधात् सुपरुषं वचः।
रावणं मैथिली तत्र पुनर्नोवाच किञ्चन ॥ 3.56.22 ॥
सीताया वचनं श्रुत्वा परुषं रोमहर्षणम्।
प्रत्युवाच ततः सीतां भयसन्दर्शनं वचः ॥ 3.56.23 ॥
शृणु मैथिलि मद्वाक्यं मासान् द्वादश भामिनि।
कालेनानेन नाभ्येषि यदि मां चारुहासिनि ॥ 3.56.24 ॥
ततस्त्वां प्रातराशार्थं सूदाश्छेत्स्यन्ति लेशशः ॥ 3.56.25 ॥
इत्युक्त्वा परुषं वाक्यं रावणः शत्रुरावणः।
राक्षसीश्च ततः क्रुद्ध इदं वचनमब्रवीत् ॥ 3.56.26 ॥
शीघ्रमेव हि राक्षस्यो विकृता घोरदर्शनाः।
दर्पमस्या विनेष्यध्वं मांसशोणितभोजनाः ॥ 3.56.27 ॥
वचनादेव तास्तस्य सुघोरा राक्षसीगणाः।
कृतप्राञ्जलयो भूत्वा मैथिलीं पर्यवारयन् ॥ 3.56.28 ॥
स ताः प्रोवाच राजा तु रावणो घोरदर्शनः।
प्रचाल्य चरुणोत्कर्षैर्दारयन्निव मेदिनीम् ॥ 3.56.29 ॥
अशोकवनिकामध्ये मैथिली नीयतामियम्।
तत्रेयं रक्ष्यतां गूढं युष्माभिः परिवारिता ॥ 3.56.30 ॥
तत्रैवान्तर्जनैर्घोरैः पुनः सान्त्वैश्च मैथिलीम्।
आनयध्वं वशं सर्वा वन्यां गजवधूमिव ॥ 3.56.31 ॥
इति प्रतिसमादिष्टा राक्षस्यो रावणेन ताः।
अशोकवनिकां जग्मुर्मैथिलीं प्रतिगृह्य तु ॥ 3.56.32 ॥
सर्वकामफलैर्वृक्षैर्नानापुष्पफलैर्वृताम्।
सर्वकालमदैश्चापि द्विजैः समुपसेविताम् ॥ 3.56.33 ॥
सा तु शोकपरीताङ्गी मैथिली जनकात्मजा।
राक्षसीवशमापन्ना व्याघ्रीणां हरिणी यथा ॥ 3.56.34 ॥
शोकेन महता ग्रस्ता मैथिली जनकात्मजा।
न शर्म लभते भीरुः पाशबद्धा मृगी यथा ॥ 3.56.35 ॥
न विन्दते तत्र तु शर्म मैथिली विरूपनेत्राभिरतीव तर्जिता।
पतिं स्मरन्ती दयितं च दैवतं विचेतनाऽभूद्भयशोकपीडिता ॥ 3.56.36 ॥