०५५ सीतां प्रति रावणदर्पोक्तिः

सन्दिश्य राक्षसान् घोरान् रावणोऽष्टौ महाबलान्।
आत्मानं बुद्धिवैक्लव्यात्कृतकृत्यममन्यत ॥ 3.55.1 ॥
स चिन्तयानो वैदेहीं कामबाणसमर्पितः।
प्रविवेश गृहं रम्यं सीतां द्रष्टुमभित्वरन् ॥ 3.55.2 ॥
स प्रविश्य तु तद्वेश्म रावणो राक्षसाधिपः।
अपश्यद्राक्षसीमध्ये सीतां शोकपरायणाम् ॥ 3.55.3 ॥
अश्रुपूर्णमुखीं दीनां शोकभाराभिपीडिताम्।
वायुवेगैरिवाक्रान्तां मज्जन्तीं नावमर्णवे ॥ 3.55.4 ॥
मृगयूथपरिभ्रष्टां मृगीं श्वभिरिवावृताम्।
अधोमुखमुखीं सीतामभ्येत्य च निशाचरः ॥ 3.55.5 ॥
तां तु शोकपरां दीनामवशां राक्षसाधिपः।
स बलाद्दर्शयामास गृहं देवगृहोपपम् ॥ 3.55.6 ॥
हर्म्यप्रासादसम्बाधं स्त्रीसहस्रनिषेवितम्।
नानापक्षिगणैर्जुष्टं नानारत्नसमन्वितम् ॥ 3.55.7 ॥
काञ्चनैस्तापनीयैश्च स्फाटिकै राजतैरपि।
वज्रवैडूर्यचित्रैश्च स्तम्भैर्द्दष्टिमनोहरैः ॥ 3.55.8 ॥
दिव्यदुन्दुभिनिर्ह्रादं तप्तकाञ्चनतोरणम्।
सोपानं काञ्चनं चित्रमारुरोह तया सह ॥ 3.55.9 ॥
दान्तिका राजताश्चैव गवाक्षाः प्रियदर्शनाः।
हेमजालावृताश्चासन् तत्र प्रासादपङ्क्तयः ॥ 3.55.10 ॥
सुधामणिविचित्राणि भूमिभागानि सर्वशः।
दशग्रीवः स्वभवने प्रादर्शयत मैथिलीम् ॥ 3.55.11 ॥
दीर्घिकाः पुष्करिण्यश्च नानावृक्षसमन्विताः।
रावणो दर्शयामास सीतां शोकपरायणाम् ॥ 3.55.12 ॥
दर्शयित्वा तु वैदेह्याः कृत्स्नं तद्भवनोत्तमम्।
उवाच वाक्यं पापात्मा सीतां लोभितुमिच्छया ॥ 3.55.13 ॥
दश राक्षसकोट्यश्च द्वाविंशतिरथापराः।
तेषां प्रभुरहं सीते सर्वेषां भीमकर्मणाम् ॥ 3.55.14 ॥
वर्जयित्वा जरावृद्धान् बालांश्च रजनीचरान्।
सहस्रमेकमेकस्य मम कार्यपुरस्सरम् ॥ 3.55.15 ॥
यदिदं राजतन्त्रं मे त्वयि सर्वं प्रतिष्ठितम्।
जीवितं च विशालाक्षि त्वं मे प्राणैर्गरीयसी ॥ 3.55.16 ॥
बहूनां स्त्रीसहस्राणां मम योऽसौ परिग्रहः।
तासां त्वमीश्वरा सीते मम भार्या भव प्रिये ॥ 3.55.17 ॥
साधु किं तेऽन्यथा बुद्ध्या रोचयस्व वचो मम।
भजस्व माऽभितप्तस्य प्रसादं कर्तुमर्हसि ॥ 3.55.18 ॥
परिक्षिप्ता सहस्रेण लङ्केयं शतयोजना।
नेयं धर्षयितुं शक्या सेन्द्रैरपि सुरासुरैः ॥ 3.55.19 ॥
न देवेषु न यक्षेषु न गन्धर्वेषु पक्षिषु।
अहं पश्यामि लोकेषु यो मे वीर्यसमो भवेत् ॥ 3.55.20 ॥
राज्यभ्रष्टेन दीनेन तापसेन गतायुषा।
किं करिष्यसि रामेण मानुषेणाल्पतेजसा ॥ 3.55.21 ॥
भजस्व सीते मामेव भर्ताहं सदृशस्तव।
यौवनं ह्यध्रुवं भीरू रमस्वेह मया सह ॥ 3.55.22 ॥
दर्शने मा कृथा बुद्धिं राघवस्य वरानने।
काऽस्य शक्तिरिहागन्तुमपि सीते मनोरथैः ॥ 3.55.23 ॥
न शक्यो वायुराकाशे पाशैर्बद्धुं महाजवः।
दीप्यमानस्य वाप्यग्नेर्ग्रहीतुं विमलां शिखाम् ॥ 3.55.24 ॥
त्रयाणामपि लोकानां न तं पश्यामि शोभने।
विक्रमेण नयेद्यस्त्वां मद्बाहुपरिपालिताम् ॥ 3.55.25 ॥
त्वत्प्रेष्या मद्विधाश्चैव देवाश्चापि चराचराः।
अभिषेकोदकल्किन्ना तुष्टा च रमयस्व माम् ॥ 3.55.26 ॥
दुष्कृतं यत्पुरा कर्म वनवासेन तद्गतम्।
यश्च ते सुकृतो धर्मस्तस्येह फलमाप्नुहि ॥ 3.55.27 ॥
इह माल्यानि सर्वाणि दिव्यगन्धानि मैथिलि।
भूषणानि च मुख्यानि सेवस्व च मया सह ॥ 3.55.28 ॥
पुष्पकं नाम सुश्रोणि भ्रातुर्वैश्रवणस्य मे।
विमानं सूर्यसङ्काशं तरसा निर्जितं मया ॥ 3.55.29 ॥
विशालं रमणीयं च तद्विमानमनुत्तमम्।
तत्र सीते मया सार्धं विहरस्व यथासुखम् ॥ 3.55.30 ॥
वदनं पद्मसङ्काशं विमलं चारुदर्शनम्।
शोकार्तं तु वरारोहे न भ्राजति वरानने ॥ 3.55.31 ॥
एवं वदति तस्मिन् सा वस्त्रान्तेन वराङ्गना।
पिधायेन्दुनिभं सीता मुखमश्रूण्यवर्तयत् ॥ 3.55.32 ॥
ध्यायन्तीं तामिवास्वस्थां दीनां चिन्ताहतप्रभाम्।
उवाच वचनं पापो रावणो राक्षसेश्वरः ॥ 3.55.33 ॥
अलं व्रीडेन वैदेहि धर्मलोपकृतेन च।
आर्षोऽयं दैवनिष्यन्दो यसत्वामभिगमिष्यति ॥ 3.55.34 ॥
एतौ पादौ महास्निग्धौ शिरौभिः परिपीडितौ।
प्रसादं कुरु मे क्षिप्रं वश्यो दासोऽहमस्मि ते ॥ 3.55.35 ॥
इमाः शून्या मया वाचः शुष्ममाणेन भाषिताः।
न चापि रावणः काञ्चिन्मूर्ध्ना स्त्रीं प्रणमेत ह ॥ 3.55.36 ॥
एवमुक्त्वा दशग्रीवो मैथीलीं जनकात्मजाम्।
कृतान्तवशमापन्नो ममेयमिति मन्यते ॥ 3.55.37 ॥