ह्रियमाणा तु वैदेही कञ्चिन्नाथमपश्यती।
ददर्श गिरिशृङ्गस्थान् पञ्च वानरपुङ्गवान् ॥ 3.54.1 ॥
उत्तरीयं वरारोहा शुभान्याभरणानि च।
मुमोच यदि रामाय शंसेयुरिति मैथिली ॥ 3.54.2 ॥
वस्त्रमुत्सृज्य तन्मध्ये निक्षिप्तं सहभूषणम्।
सम्भ्रमात्तु दशग्रीवस्तत्कर्म न स बुद्धवान् ॥ 3.54.3 ॥
पिङ्गाक्षास्तां विशालाक्षीं नेत्रैरनिमिषैरिव।
विक्रोशन्तीं तथा सीतां ददृशुर्वानरर्षभाः ॥ 3.54.4 ॥
स च पम्पामतिक्रम्य लङ्कामभिमुखः पुरीम्।
जगाम रुदतीं गृह्य वैदेहीं राक्षसेश्वरः ॥ 3.54.5 ॥
तां जहार सुसंहृष्टो रावणो मृत्युमात्मनः।
उत्सङ्गेनैव भुजगीं तीक्ष्णदंष्ट्रां महाविषाम् ॥ 3.54.6 ॥
वनानि सरितः शैलान् सरांसि च विहायसा।
स क्षिप्रं समतीयाय शरश्चापादिव च्युतः ॥ 3.54.7 ॥
तिमिनक्रनिकेतं तु वरुणालयमक्षयम्।
सरतां शरणं गत्वा समतीयाय सागरम् ॥ 3.54.8 ॥
सम्भ्रमात्परिवृत्तोर्मी रुद्धमीनमहोरगः।
वैदेह्यां ह्रियमाणायां बभूव वरुणालयः ॥ 3.54.9 ॥
अन्तरिक्षगता वाचः ससृजुश्चारणास्तदा।
एतदन्तो दशग्रीव इति सिद्धास्तदाऽब्रुवन् ॥ 3.54.10 ॥
स तु सीतां विवेष्टन्तीमङ्केनादाय रावणः।
प्रविवेश पुरीं लङ्कां रूपिणीं मृत्युमात्मनः ॥ 3.54.11 ॥
सोऽभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम्।
संरूढकक्ष्याबहुलं स्वमन्तःपुरमाविशत् ॥ 3.54.12 ॥
तत्र तामसितापाङ्गां शोकमोहपरायणाम्।
निदधे रावणः सीतां मयो मायामिव स्त्रियम् ॥ 3.54.13 ॥
अब्रवीच्च दशग्रीवः पिशाचीर्घोरदर्शनाः।
यथा नेमां पुमान् स्त्री वा सीतां पश्यत्यसम्मतः ॥ 3.54.14 ॥
मुक्तामणिसुवर्णानि वस्त्राण्याभरणानि च।
यद्यदिच्छेत्तदेवास्या देयं मच्छन्दतो यथा ॥ 3.54.15 ॥
या च वक्ष्यति वैदेहीं वचनं किञ्चिदप्रियम्।
अज्ञानाद्यदि वा ज्ञानान्न तस्या जीवितं प्रियम् ॥ 3.54.16 ॥
तथोक्त्वा राक्षसीस्तास्तु राक्षसेन्द्रः प्रतापवान्।
निष्क्रम्यान्तःपुरात्तस्मात्किं कृत्यमिति चिन्तयन् ॥ 3.54.17 ॥
ददर्शाष्टौ महावीर्यान् राक्षसान् पिशिताशनान् ॥ 3.54.18 ॥
स तान् दृष्ट्वा महावीर्यो वरदानेन मोहितः।
उवाचैतानिदं वाक्यं प्रशस्य बलवीर्यतः ॥ 3.54.19 ॥
नानाप्रहरणाः क्षिप्रमितो गच्छत सत्वराः।
जनस्थानं हतस्थानं भूतपूर्वं खरालयम् ॥ 3.54.20 ॥
तत्रोष्यतां जनस्थाने शून्ये निहतराक्षसे।
पौरुषं बलमाश्रित्य त्रासमुत्सृज्य दूरतः ॥ 3.54.21 ॥
बलं हि सुमहद्यन्मे जनस्थाने निवेशितम्।
सदूषणखरं युद्धे हतं रामेण सायकैः ॥ 3.54.22 ॥
तत्र क्रोधो ममामर्षाद्धैर्यस्योपरि वर्तते।
वैरं च सुमहज्जातं रामं प्रति सुदारुणम् ॥ 3.54.23 ॥
निर्यातयितुमिच्छामि तच्च वैरमहं रिपोः।
नहि लप्स्याम्यहं निद्रामहत्वा संयुगे रिपुम् ॥ 3.54.24 ॥
तं त्विदानीमहं हत्वा खरदूषणघातिनम्।
रामं शर्मोपलप्स्यामि धनं लब्ध्वेव निर्धनः ॥ 3.54.25 ॥
जनस्थाने वसद्भिस्तु भवद्भी राममाश्रिता।
प्रवृत्तिरुपनेतव्या किं करोतीति तत्त्वतः ॥ 3.54.26 ॥
अप्रमादाच्च गन्तव्यं सर्वैरपि निशाचरैः।
कर्तव्यश्च सदा यत्नो राघवस्य वधं प्रति ॥ 3.54.27 ॥
युष्माकं च बलज्ञोऽहं बहुशो रणमूर्धनि।
अतश्चास्मिन् जनस्थाने मया यूयं नियोजिताः ॥ 3.54.28 ॥
ततः प्रियं वाक्यमुपेत्य राक्षसा महार्थमष्टावभिवाद्य रावणम्।
विहाय लङ्कां सहिताः प्रतस्थिरे यतो जनस्थानमलक्ष्यदर्शनाः ॥ 3.54.29 ॥
ततस्तु सीतामुपलभ्य रावणः सुसम्प्रहृष्टः परिगृह्य मैथिलीम्।
प्रसज्य रामेण च वैरमुत्तमं बभूव मोहान्मुदितः स राक्षसः ॥ 3.54.30 ॥