खमुत्पतन्तं तं दृष्ट्वा मैथिली जनकात्मजा।
दुःखिता परमोद्विग्ना भये महति वर्तिनी ॥ 3.53.1 ॥
रोषरोदनताम्राक्षी भीमाक्षं राक्षसाधिपम्।
रुदन्ती करुणं सीता ह्रियमाणेदमब्रवीत् ॥ 3.53.2 ॥
न व्यपत्रपसे नीच कर्मणाऽनेन रावण।
ज्ञात्वा विरहितां यन्मां चोरयित्वा पलायसे ॥ 3.53.3 ॥
त्वयैव नूनं दुष्टात्मन् भीरुणा हर्तुमिच्छता।
ममापवाहितो भर्ता मृगरूपेण मायया ॥ 3.53.4 ॥
यो हि मामुद्यतस्त्रातुं सोऽप्ययं विनिपातितः।
गृध्रराजः पुराणोऽसौ श्वशुरस्य सखा मम ॥ 3.53.5 ॥
परमं खलु ते वीर्यं दृश्यते राक्षसाधम।
विश्राव्य नामधेयं हि युद्धे नास्मि जिता त्वया ॥ 3.53.6 ॥
ईदृशं गर्हितं कर्म कथं कृत्वा न लज्जसे।
स्त्रियाश्च हरणं नीच रहिते तु परस्य च ॥ 3.53.7 ॥
कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम्।
सुनृशंसमधर्मिष्ठं तव शौण्डीर्यमानिनः ॥ 3.53.8 ॥
धिक् ते शौर्यं च सत्त्वं च यत्त्वं कथितवांस्तदा।
कुलाक्रोशकरं लोके धिक् ते चारित्रमीदृशम् ॥ 3.53.9 ॥
किं कर्तुं शक्यमेवं हि यज्जवेनैव धावसि।
मुहूर्तमपि तिष्ठस्व न जीवन् प्रतियास्यसि ॥ 3.53.10 ॥
न हि चक्षिष्पथं प्राप्य तयोः पार्थिवपुत्रयोः।
ससैन्योऽपि समर्थस्त्वं मुहूर्तमपि जीवितुम् ॥ 3.53.11 ॥
वने प्रज्वलितस्येव स्पर्शमग्नेर्विहङ्गमः।
साधु कृत्वाऽऽत्मनः पथ्यं साधु मां मुञ्च रावण ॥ 3.53.12 ॥
मत्प्रधर्षणरुष्टो हि भ्रात्रा सह पतिर्मम।
विधास्यति विनाशाय त्वं मां यदि न मुञ्चसि ॥ 3.53.13 ॥
येन त्वं व्यवसायेन बलान्मां हर्तुमिच्छसि।
व्यवसायः स ते नीच भविष्यति निरर्थकः ॥ 3.53.14 ॥
न ह्यहं तमपश्यन्ती भर्तारं विबुधोपमम्।
उत्सहे शत्रुवशगा प्राणान् धारयितुं चिरम् ॥ 3.53.15 ॥
न नूनं चात्मनः श्रेयः पथ्यं वा समवेक्षसे।
मत्युकाले यथा मर्त्यो विपरीतानि सेवते ॥ 3.53.16 ॥
मुमूर्षूणां हि सर्वेषां यत्पथ्यं तन्न रोचते।
पश्याम्यद्य हि कण्ठे त्वां कालपाशावपाशितम् ॥ 3.53.17 ॥
यथा चास्मिन् भयस्थाने न बिभेति दशानन।
व्यक्तं हिरण्मयान् हि त्वं सम्पश्यसि महीरुहान् ॥ 3.53.18 ॥
नदीं वैतरणीं घोरां रिधिरौघनिवासिनीम्।
असिपत्त्रवनं चैव भीमं पश्यसि रावण ॥ 3.53.19 ॥
तप्तकाञ्चनपुष्पां च वैडूर्यप्रवरच्छदाम्।
द्रक्ष्यसे शाल्मलीं तीक्ष्णामायसैः कण्टकैश्चिताम् ॥ 3.53.20 ॥
न हि त्वमीदृशं कृत्वा तस्यालीकं महात्मनः।
धरितुं शक्यसि चिरं विषं पीत्वेव निर्घृणः ॥ 3.53.21 ॥
बद्धस्त्वं कालपाशेन दुर्निवारेण रावण।
क्व गतो लप्स्यसे शर्म भर्तुर्मम महात्मनः ॥ 3.53.22 ॥
निमेषान्तरमात्रेण विना भ्रात्रा महावने।
राक्षसा निहता येन सहस्राणि चतुर्दश ॥ 3.53.23 ॥
स कथं राघवो वीरः सर्वास्त्रकुशलो बली।
न त्वां हन्याच्छरैस्तीक्ष्णैरिष्टभार्यापहारिणम् ॥ 3.53.24 ॥
एतच्चान्यच्च परुषं वैदेही रावणाङ्कगा।
भयशोकसमाविष्टा करुणं विललाप ह ॥ 3.53.25 ॥
तथा भृशार्तां बहु चैव भाषिणीं विलापपूर्वं करुणं च भामिनीम्।
जहार पापः करुणं विवेष्टतीं नृपात्मजामागतगात्रवेपथुम् ॥ 3.53.26 ॥