०५२ सीताविलापः

तमल्पजीवितं गृध्रं स्फुरन्तं राक्षसाधिपः।
ददर्श भूमौ पतितं समीपे राघवाश्रमात् ॥ 3.52.1 ॥
सा तु ताराधिपमुखी रावणेन समीक्ष्य तम्।
गृध्रराजं विनिहतं विललाप सुदुःखिता ॥ 3.52.2 ॥
आलिङ्ग्य गृध्रं निहतं रावणेन बलीयसा।
विललाप सुदुःखार्ता सीता शशिनिभानना ॥ 3.52.3 ॥
निमित्तं लक्षणज्ञानं शकुनिस्वरदर्शनम्।
अवश्यं सुखदुःखेषु नराणां प्रतिदृश्यते ॥ 3.52.4 ॥
नूनं राम न जानासि महद्व्यसनमात्मनः।
धावन्ति नूनं काकुत्स्थं मदर्थं मृगपक्षिणः ॥ 3.52.5 ॥
अयं हि पापचारेण मां त्रातुमभिसङ्गतः।
शेते विनिहतो भूमौ ममाभाग्याद्विहङ्गमः ॥ 3.52.6 ॥
त्राहि मामद्य काकुत्स्थ लक्ष्मणेति वराङ्गना।
सुसन्त्रस्ता समाक्रन्दच्छृण्वतां तु यथान्तिके ॥ 3.52.7 ॥
तां क्लिष्टमाल्याभरणां विलपन्तीमनाथवत्।
अभ्यधावत वैदेहीं रावणो राक्षसाधिपः ॥ 3.52.8 ॥
तां लतामिव वेष्टन्तीमालिङ्गन्तीं महाद्रुमान्।
मुञ्च मुञ्चेति बहुशः प्रवदन् राक्षसाधिपः ॥ 3.52.9 ॥
क्रोशन्तीं राम रामेति रामेण रहितां वने।
जीवितान्ताय केशेषु जग्राहान्तकसन्निभः ॥ 3.52.10 ॥
प्रधर्षितायां सीतायां बभूव सचराचरम्।
जगत्सर्वममर्यादं तमसाऽन्धेन संवृतम् ॥ 3.52.11 ॥
न वाति मारुतस्तत्र निष्प्रभोभूद्दिवाकरः ॥ 3.52.12 ॥
दष्ट्वा सीतां परामृष्टां दीनां दिव्येन चक्षुषा।
कृतं कार्यमिति श्रीमान् व्याजहार पितामहः ॥ 3.52.13 ॥
दृषट्वा सीतां परामृष्टां दण्डकारण्यवासिनः।
रावणस्य विनाशं च प्राप्तं बुध्वा यदृच्छया ॥ 3.52.14 ॥
स तु तां रामरामेति रुदन्तीं लक्ष्मणेति च।
जगामादाय चाकाशं रावणो राक्षसेश्वरः ॥ 3.52.15 ॥
तप्ताभरणवर्णाङ्गी पीतकौशेयवासिनी।
रराज राजपुत्री तु विद्युत्सौदामिनी यथा ॥ 3.52.16 ॥
उद्धूतेन च वस्त्रेण तस्याः पीतेन रावणः।
अधिकं प्रतिबभ्राज गिरिर्दीप्त इवाग्नीना ॥ 3.52.17 ॥
तस्याः परमकल्याण्यास्ताम्राणि सुरभीणि च।
पद्मपत्त्राणि वैदेह्या अभ्यकीर्यन्त रावणम् ॥ 3.52.18 ॥
तस्याः कौशेयमुद्धूतमाकाशे कनकप्रभम्।
बभौ चादित्यरागेण ताम्रमभ्रमिवातपे ॥ 3.52.19 ॥
तस्यास्तत्सुनसं वक्रमाकाशे रावणाङ्कगम्।
न रराज विना रामं विनालमिव पङ्कजम् ॥ 3.52.20 ॥
बभूव जलदं नीलं भित्त्वा चन्द्र इवोदितः।
सिललाटं सुकेशान्तं पद्मगर्भाभमव्रणम् ॥ 3.52.21 ॥
शुक्लैः सुविमलैर्दन्तैः प्रभावद्भिरलङ्कृतम्।
तस्यास्तद्विमलं वक्रमाकाशे रावणाङ्कगम् ॥ 3.52.22 ॥
रुदितं व्यपमृष्टास्त्रं चन्द्रवत्प्रियदर्शनम्।
सुनासं चारुताम्रोष्ठमाकाशे हाटकप्रभम् ॥ 3.52.23 ॥
राक्षसेन समाधूतं तस्यास्तद्वदनं शुभम्।
शुशुभे न विना रामं दिवा चन्द्र इवोदितः ॥ 3.52.24 ॥
सा हेमवर्णा नीलाङ्गं मैथिली राक्षसाधिपम्।
शुशुभे काञ्चनी काञ्ची नीलं मणिमिवाश्रिता ॥ 3.52.25 ॥
सा पद्मगौरी हेमाभा रावणं जनकात्मजा।
विद्युद्घनमिवाविश्य शुशुभे तप्तभूषणा ॥ 3.52.26 ॥
तरुप्रवालरक्ता सा नीलाङ्गं राक्षसेश्वरम्।
प्राशोभयत वैदेही गजं कक्ष्येव काञ्चनी ॥ 3.52.27 ॥
तस्या भूषणघोषेण वैदेह्या राक्षसाधिपः।
बभौ सचपलो नीलः सघोष इव तोयदः ॥ 3.52.28 ॥
उत्तमाङ्गाच्च्युता तस्याः पुष्पवृष्टिः समन्ततः।
सीताया ह्रियमाणायाः पपात धरणीतले ॥ 3.52.29 ॥
सा तु रावणवेगेन पुष्पवृष्टिः समन्ततः।
समाधूता दशग्रीवं पुनरेवाभ्यवर्तत ॥ 3.52.30 ॥
अभ्यवर्तत पुष्पाणां धारा वैश्रवणानुजम्।
नक्षत्रमाला विमला मेरुं नगमिवोमन्नम् ॥ 3.52.31 ॥
चरणान्नूपुरं भ्रष्टं वैदेह्या रत्नभूषितम्।
विद्युन्मण्डलसङ्काशं पपात मधुरस्वनम् ॥ 3.52.32 ॥
तां महोल्कामिवाकाशे दीप्यमानां स्वतेजसा।
जहाराकाशमाविश्य सीतां वैश्रवणानुजः ॥ 3.52.33 ॥
तस्यास्तान्यग्निवर्णानि भूषणानि महीतले।
सघोषाण्यवकीर्यन्त क्षीणास्तारा इवाम्बरात् ॥ 3.52.34 ॥
तस्याः स्तनान्तराद् भ्रष्टो हारस्ताराधिपद्युतिः।
वैहेह्या निपतन् भाति गङ्गेव गगनाच्च्युता ॥ 3.52.35 ॥
उत्पन्नवाताभिहता नानाद्विजगणायुताः।
मा भैरिति विधूताग्रा व्याजह्रुरिव पादपाः ॥ 3.52.36 ॥
नलिन्यो ध्वस्तकमलास्त्रस्तमीनजलेचराः।
सखीमिव गतोच्छ्वासामन्वशोचन्त मैथिलीम् ॥ 3.52.37 ॥
समन्तादभिसम्पत्य सिंहव्याघ्रमृगद्विजाः।
अन्वधावंस्तदा रोषोत्सीतां छायनुगामिनः ॥ 3.52.38 ॥
जलप्रपातास्रमुखाः शृङ्गैरुच्छ्रितबाहवः।
सीतायां ह्रियमाणायां विक्रोशन्तीव पर्वताः ॥ 3.52.39 ॥
ह्रियमाणां तु वैदेहीं दृष्ट्वा दीनो दिवाकरः।
प्रतिध्वस्तप्रभः श्रीमानासीत् पाण्डरमण्डलः ॥ 3.52.40 ॥
यत्र रामस्य वैदेहीं भार्यां हरति रावणः।
इति सर्वाणि भूतानि गणशः पर्यदेवयन् ॥ 3.52.41 ॥
वित्रस्तका दीनमुखा रुरुदुर्मृगपोतकाः।
उद्वीक्ष्योद्वीक्ष्य नयनैरास्रपाताविलेक्षणाः ॥ 3.52.42 ॥
सुप्रवेपितगात्राश्च बभूवुर्वनदेवताः।
विक्रोशन्तीं दृढं सीतां दृष्ट्वा दुःखं तथा गताम् ॥ 3.52.43 ॥
तां तु लक्ष्मण रामेति क्रोशन्तीं मधुरस्वरम्।
अवेक्षमाणां बहुशो वैदेहीं धरणीतलम् ॥ 3.52.44 ॥
स तामाकुलकेशान्तां विप्रमृष्टविशेषकाम्।
जहारात्मविनाशाय दशग्रीवो मनस्विनीम् ॥ 3.52.45 ॥
ततस्तु सा चारुदती शुचिस्मिता विनाकृता बन्धुजनेन मैथिली।
अपश्यती राघवलक्ष्मणावुभौ विवर्णवक्त्रा भयभारपीडिता ॥ 3.52.46 ॥