इत्युक्तस्य यथान्यायं रावणस्य जटायुषा।
क्रुद्धस्याग्निनिभाः सर्वा रेजुर्विंशतिदृष्टयः ॥ 3.51.1 ॥
संरक्तनयनः कोपात्तप्तकाञ्चनकुण्डलः।
राक्षसेन्द्रोऽभिदुद्राव पतगेन्द्रममर्षणः ॥ 3.51.2 ॥
स सम्प्रहारस्तुमुलस्तयोस्तस्मिन् महावने।
बभूव वातोद्धतयोर्मेघयोर्गगने यथा ॥ 3.51.3 ॥
तद्बभूवाद्भुतं युद्धं गृध्रराक्षसयोस्तदा।
सपक्षयोर्माल्यवतोर्महापर्वतयोरिव ॥ 3.51.4 ॥
ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः।
अभ्यवर्षन्महाघोरैर्गृध्रराजं महाबलः ॥ 3.51.5 ॥
स तानि शरजालानि गृघ्रः पत्त्ररथेश्वरः।
जटायुः प्रतिजग्राह रावणास्त्राणि संयुगे ॥ 3.51.6 ॥
तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः।
चकार बहुधा गात्रे व्रणान् पतगसत्तमः ॥ 3.51.7 ॥
अथ क्रोधाद्दशग्रीवो जग्राह दश मार्गणान्।
मृत्युदण्डनिभान् घोरान् शत्रुमर्दनकाङ्क्षया ॥ 3.51.8 ॥
स तैर्बाणैर्महावीर्यः पूर्णमुक्तैरजिह्मगैः।
बिभेद निशितैस्तीक्ष्णैर्गृधं घोरैः शिलीमुखैः ॥ 3.51.9 ॥
स राक्षसरथे पश्यन् जानकीं बाष्पलोचनाम्।
अचिन्तयित्वा तान् बाणान् राक्षसं समभिद्रवत् ॥ 3.51.10 ॥
ततोऽस्य सशरं चापं मुक्तामणिविभूषितम्।
चरणाभ्यां महातेजा बभञ्ज पतगेश्वरः ॥ 3.51.11 ॥
ततोऽन्यद्धनुरादाय रावणः क्रोधमूर्च्छितः।
ववर्ष शरवर्षाणि शतशोऽथ सहस्रशः ॥ 3.51.12 ॥
शरैरावारितस्तस्य संयुगे पतगेश्वरः।
कुलायमुपसम्प्राप्तः पक्षीव प्रबभौ तदा ॥ 3.51.13 ॥
स तानि शरवर्षाणि पक्षाभ्यां च विधूय च।
चरणाभ्यां महातेजा बभञ्जास्य महद्धनुः ॥ 3.51.14 ॥
तच्चाग्निसदृशं दीप्तं रावणस्य शरावरम्।
पक्षाभ्यां स महावीर्यो व्याधुनोत्पतगेश्वरः ॥ 3.51.15 ॥
काञ्चनोरश्छदान् दिव्यान् पिशाचवदनान् खरान्।
तांश्चास्य जवसम्पन्नान् जघान समरे बली ॥ 3.51.16 ॥
वरं त्रिवेणुसम्पन्नं कामगं पावकार्चिषम्।
मणिहेमविचित्राङ्गं बभञ्ज च महारथम् ॥ 3.51.17 ॥
पूर्णचन्द्रप्रतीकाशं छत्त्रं च व्यजनैः सह।
पातयामास वेगेन ग्राहिभी राक्षसैः सह ॥ 3.51.18 ॥
सारथेश्चास्य वेगेन तुण्डेनैव महच्छिरः।
पुनर्व्यपाहरच्छ्रीमान् पक्षिराजो महाबलः ॥ 3.51.19 ॥
स भग्नधन्वा विरथो हताश्वो हतसारथिः।
अङ्केनादाय वैदेहीं पपात भुवि रावणः ॥ 3.51.20 ॥
दृष्ट्वा निपतितं भूमौ रावणं भग्नवाहनम्।
साधु साध्विति भूतानि गध्रराजमपूजयन् ॥ 3.51.21 ॥
परिश्रान्तं तु तं दृष्ट्वा जरया पक्षियूथपम्।
उत्पपात पुनर्हृष्टो मैथिलीं गृह्य रावणः ॥ 3.51.22 ॥
गृध्रराजः समुत्पत्य समभिद्रुत्य रावणम्।
समावार्य महातेजा जटायुरिदमब्रवीत् ॥ 3.51.23 ॥
वज्रसंस्पर्शबाणस्य भार्यां रामस्य रावण।
अल्पबुद्धे हरस्येनां वधाय खलु रक्षसाम् ॥ 3.51.24 ॥
समित्रबन्धुः सामात्यः सबलः सपरिच्छदः।
विषपानं पिबस्येतत्पिपासित इवोदकम् ॥ 3.51.25 ॥
अनुबन्धमजानन्तः कर्मणामविचक्षणाः।
शीघ्रमेव विनश्यन्ति यथा त्वं विनशिष्यसि ॥ 3.51.26 ॥
बद्धस्त्वं कालपाशेन क्व गतस्तस्य मोक्ष्यसे।
वधाय बडिशं गृह्य सामिषं जलजो यथा ॥ 3.51.27 ॥
नहि जातु दुराधर्षो काकुत्स्थौ तव रावण।
धर्षणं चाश्रमस्यास्य क्षमिष्येते तु राघवौ ॥ 3.51.28 ॥
यथा त्वया कृतं कर्म भीरुणा लोकगर्हितम्।
तस्कराचरितो मार्गो नैष वीरनिषेवितः ॥ 3.51.29 ॥
युद्ध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावण।
शयिष्यसे हतो भूमौ यथा भ्राता खरस्तथा ॥ 3.51.30 ॥
परेतकाले पुरुषो यत्कर्म प्रतिपद्यते।
विनाशायात्मनोऽधर्म्यं प्रतिपन्नोऽसि कर्म तत् ॥ 3.51.31 ॥
पापानुबन्धो वै यस्य कर्मणः कर्म को नु तत्।
कुर्वीत लोकाधिपतिः स्वयम्भूर्भगवानपि ॥ 3.51.32 ॥
एवमुक्त्वा शुभं वाक्यं जटायुस्तस्य रक्षसः।
निपपात भृशं पृष्ठे दशग्रीवस्य वीर्यवान् ॥ 3.51.33 ॥
तं गृहीत्वा नखैस्तीक्ष्णैर्विरराद समन्ततः।
अधिरूढो गजारोहो यथा स्याद्दुष्टवारणम् ॥ 3.51.34 ॥
विरराद नखैरस्य तुण्डं पृष्ठे समर्पयन्।
केशांश्चोत्पाटयामास नखपक्षमुखायुधः ॥ 3.51.35 ॥
स तथा गृध्रराजेन क्लिश्यमानो मुहुर्मुहुः।
अमर्षस्फुरितोष्ठः सन् प्राकम्पत स रावणः ॥ 3.51.36 ॥
स परिष्वज्य वैदेहीं वामेनाङ्केन रावणः।
तलेनाभिजघानाशु जटायुं क्रोधमूर्च्छितः ॥ 3.51.37 ॥
जटायुस्तमभिक्रम्य तुण्डेनास्य खगाधिपः।
वामबाहून् दश तदा व्यपाहरदरिन्दमः ॥ 3.51.38 ॥
सञ्छिन्नबाहोः सद्यैव बाहवः सहसाऽभवन्।
विषज्वालावलीयुक्ता वल्मीकादिव पन्नगाः ॥ 3.51.39 ॥
ततः क्रोधाद्दशग्रीवः सीतामुत्सृज्य रावणः।
मुष्टिभ्यां चरणाभ्यां च गृध्रराजमपोथयत् ॥ 3.51.40 ॥
ततो मुहूर्तं सङ्ग्रामो बभूवातुलवीर्ययोः।
राक्षसानां च मुख्यस्य पक्षिणां प्रवरस्य च ॥ 3.51.41 ॥
तस्य व्यायच्छमानस्य रामस्यार्थे स रावणः।
पक्षौ पार्श्वौ च पादौ च खङ्गमुद्धृत्य सोऽच्छिनत् ॥ 3.51.42 ॥
स च्छिन्नपक्षः सहसा रक्षसा रौद्रकर्मणा।
निपपात हतो गृध्रो धरण्यामल्पजीवितः ॥ 3.51.43 ॥
तं दृष्ट्वा पतितं भूमौ क्षतजार्द्रं जटायुषम्।
अभ्यधावत वैदही स्वबन्धुमिव दुःखिता ॥ 3.51.44 ॥
तं नीलजीमूतनिकाशकल्पं सुपाण्डुरोरस्कमुदारवीर्यम्।
ददर्श लङ्काधिपतिः पृथिव्यां जटायुषं शान्तमिवाग्निदावम् ॥ 3.51.45 ॥
ततस्तु तं पत्त्ररथं महीतले निपातितं रावणवेगमर्दितम्।
पुनः परिष्वज्य शशिप्रभानना रुरोद सीता जनकात्मजा तदा ॥ 3.51.46 ॥