०५० जटायुकृतरावणनिरोधः

तं शब्दमवसुप्तस्तु जटायुरथ शुश्रुवे।
निरीक्ष्य रावणं क्षिप्रं वैदेहीं च ददर्श सः ॥ 3.50.1 ॥
ततः पर्वतकूटाभस्तीक्ष्णतुण्डः खगोत्तमः।
वनस्पतिगतः श्रीमान् व्याजहार शुभां गिरम् ॥ 3.50.2 ॥
दशग्रीव स्थितो धर्मे पुराणे सत्यसंश्रयः।
जटायुर्नाम नाम्नाऽहं गृध्रराजो महाबलः ॥ 3.50.3 ॥
राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः।
लोकानां च हिते युक्तो रामो दशरथात्मजः ॥ 3.50.4 ॥
तस्यैषा लोकनाथस्य धर्मपत्नी यशस्विनी।
सीता नाम वरारोहा यां त्वं हर्तुमिहेच्छसि ॥ 3.50.5 ॥
कथं राजा स्थितो धर्मे परदारान् परामृशेत्।
रक्षणीया विशेषेण राजदारा महाबल ॥ 3.50.6 ॥
न तत् समाचरेद्धीरो यत्परोऽस्य विगर्हयेत्।
यथात्मनस्तथान्येषां दारा रक्ष्या विपश्चिता ॥ 3.50.7 ॥
अर्थं वा यदि वा कामं शिष्टाः शास्त्रेष्वनागतम्।
व्यवस्यन्ति न राजानो धर्मं पौलस्त्यनन्दन ॥ 3.50.8 ॥
राजा धर्मश्च कामश्च द्रव्याणां चोत्तमो निधिः।
धर्मः शुभं वा पापं वा राजमूलं प्रवर्तते ॥ 3.50.9 ॥
पापस्वभावश्चपलः कथं त्वं रक्षसां वर।
ऐश्वर्यमभिसम्प्राप्तो विमानमिव दुष्कृतिः ॥ 3.50.10 ॥
कामं स्वभावो यो यस्य न शक्यः परिमार्जितुम्।
नहि दुष्टात्मनामार्यमावसत्यालये चिरम् ॥ 3.50.11 ॥
विषये वा पुरे वा ते यदा रामो महाबलः।
नापराद्ध्यति धर्मात्मा कथं तस्यापराद्ध्यसि ॥ 3.50.12 ॥
यदि शूर्पणखाहेतोर्जस्थानगतः खरः।
अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा ॥ 3.50.13 ॥
अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः।
यस्य त्वं लोकनाथस्य भार्यां हृत्वा गमिष्यसि ॥ 3.50.14 ॥
क्षिप्रं विसृज वैदहीं मा त्वा घोरेण चक्षुषा।
दहेद्दहनभूतेन वृत्रमिन्द्राशनिर्यथा ॥ 3.50.15 ॥
सर्पमाशीविषं बध्वा वस्त्रान्ते नावबुद्ध्यसे।
ग्रीवायां प्रतिमुक्तं च कालपाशं न पश्यसि ॥ 3.50.16 ॥
स भारः सौम्य भर्तव्यो यो नरं नावसादयेत्।
तदन्नमपि भोक्तव्यं जीर्यते यदनामयम् ॥ 3.50.17 ॥
यत्कृत्वा न भवेद्धर्मो न कीर्तिर्न यशो भुवि।
शरीरस्य भवेत् खेदः कस्तत्कर्म समाचरेत् ॥ 3.50.18 ॥
षष्टिर्वर्षसहस्त्राणि मम जातस्य रावण।
पितृपैतामहं राज्यं यथावदनुतिष्ठतः ॥ 3.50.19 ॥
वृद्धोहं त्वं युवा धन्वी सशरः कवची रथी।
तथाप्यादाय वैदेहीं कुशली न गमिष्यसि ॥ 3.50.20 ॥
न शक्तस्त्वं बलाद्धर्तुं वैदेहीं मम पश्यतः।
हेतुभिर्न्यायसंयुक्तैर्ध्रुवां वेदश्रुतीमिव ॥ 3.50.21 ॥
यद्ध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावण।
शयिष्यसे हतो भूमौ यथा पूर्वं करस्तथा ॥ 3.50.22 ॥
असकृत्संयुगे येन निहता दैत्यदानवाः।
न चिराच्चीरवासास्त्वां रामो युधि वधिष्यति ॥ 3.50.23 ॥
किनु शक्यं मया कर्तुं गतौ दूरं नृपात्मजौ।
क्षिप्रं त्वं नश्यसे नीच तयोर्भीतो न संशयः ॥ 3.50.24 ॥
न हि मे जीवमानस्य नयिष्यसि शुभामिमाम्।
सीतां कमलपत्राक्षीं रामस्य महिषीं प्रियाम् ॥ 3.50.25 ॥
अवश्यं तु मया कार्यं प्रियं तस्य महात्मनः।
जीवितेनापि रामस्य तथा दशरथस्य च ॥ 3.50.26 ॥
तिष्ठ तिष्ठ दशग्रीव मुहूर्तं पश्य रावण।
युद्धातिथ्यं प्रदास्यामि यथाप्राणं निशाचर ॥ 3.50.27 ॥
वृन्तादिव फलं त्वां तु पातयेयं रथोत्तमात् ॥ 3.50.28 ॥