०४९ सीतापहरणम्

सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवान्।
हस्ते हस्तं समाहत्य चकार सुमहद्वपुः ॥ 3.49.1 ॥
स मैथिलीं पुनर्वाक्यं बभाषे च ततो भृशम्।
नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ ॥ 3.49.2 ॥
उद्वहेयं भुजाभ्यां तु मेदिनीमम्बरे स्थितः।
आपिबेयं समुद्रं च हन्यां मृत्युं रणे स्थितः ॥ 3.49.3 ॥
अर्कं रुन्ध्यां शरैस्तीक्ष्णैर्विभिन्द्यां हि महीतलम्।
कामरूपिणमुन्मत्ते पश्य मां कामदं पतिम् ॥ 3.49.4 ॥
एवमुक्तवतस्तस्य सूर्यकल्पे शिखिप्रभे।
क्रुद्धस्य हरिपर्यन्ते रक्ते नेत्रे बभूवतुः ॥ 3.49.5 ॥
सद्यः सौम्यं परित्यज्य भिक्षुरूपं स रावणः।
स्वं रूपं कालरूपाभं भेजे वैश्रवणानुजः ॥ 3.49.6 ॥
क्रोधेन महताविष्टो नीलजीमूतसन्निभः।
दशास्यः कार्मुकी बाणी बभूव क्षणदाचरः ॥ 3.49.7 ॥
स परिव्राजकच्छद्म महाकायो विहाय तत्।
प्रतिपद्य स्वकं रूपं रावणो राक्षसाधिपः ॥ 3.49.8 ॥
संरक्तनयनः क्रोधाज्जीमूतनिचयप्रभः।
रक्ताम्बरधरस्तस्थौ स्त्रीरत्नं प्रेक्ष्य मैथिलीम् ॥ 3.49.9 ॥
स तामसितकेशान्तां भास्करस्य प्रभामिव।
वसनाभरणोपेतां मैथिलीं रावणोऽब्रवीत् ॥ 3.49.10 ॥
त्रिषु लोकेषु विख्यातं यदि भर्तारमिच्छसि।
मामाश्रय वरारोहे तवाहं सदृशः पतिः ॥ 3.49.11 ॥
मां भजस्व चिराय त्वमहं श्लाघ्यः प्रियस्तव।
नैव चाहं क्वचिद्भद्रे करिष्ये तव विप्रियम् ॥ 3.49.12 ॥
त्यज्यतां मानुषो भावो मयि भावः प्रणीयताम्।
राज्याच्च्युतमसिद्धार्थं रामं परिमितायुषम् ॥ 3.49.13 ॥
कैर्गुणैरनुरक्ताऽसि मूढे मण्डितमानिनि।
यः स्त्रिया वचनाद्राज्यं विहाय ससुहृज्जनम् ॥ 3.49.14 ॥
अस्मिन् व्यालानुचरिते वने वसति दुर्मतिः ॥ 3.49.15 ॥
अभिगम्य सुदुष्टात्मा राक्षसः काममोहितः।
जग्राह रावणः सीतां बुधः खे रोहिणीमिव ॥ 3.49.16 ॥
वामेन सीतां पद्माक्षीं मूर्द्धजेषु करेण सः।
ऊर्वोस्तु दक्षिणेनैव परिजग्राह पाणिना ॥ 3.49.17 ॥
तं दृष्ट्वा मृत्युसङ्काशं तीक्ष्णदंष्ट्रं महाभुजम्।
प्राद्रवन् गिरिसङ्काशं भयार्ता वनदेवताः ॥ 3.49.18 ॥
स च मायामयो दिव्यः खरयुक्तः खरस्वनः।
प्रत्यदृश्यत हेमाङ्गो रावणस्य महारथः ॥ 3.49.19 ॥
ततस्तां परुषैर्वाक्यैर्भर्त्सयन् स महास्वनः।
अङ्केनादाय वैदेहीं रथमारोपयत्तदा ॥ 3.49.20 ॥
सा गृहीता विचुक्रोश रावणेन यशस्विनी।
रामेति सीता दुःखार्ता रामं दूरगतं वने ॥ 3.49.21 ॥
तामकामां स कामार्तः पन्नगेन्द्रवधूमिव।
विवेष्टमानामादाय उत्पपाताथ रावणः ॥ 3.49.22 ॥
ततः सा राक्षसेन्द्रेण ह्रियमाणा विहायसा।
भृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथातुरा ॥ 3.49.23 ॥
हा लक्ष्ण महाबाहो गुरुचित्तप्रसादक।
ह्रियमाणां न जानीषे रक्षसा माममर्षिणा ॥ 3.49.24 ॥
जीवितं सुखमर्थांश्च धर्महेतोः परित्यजन्।
ह्रियमाणामधर्मेण मां राघव न पश्यसि ॥ 3.49.25 ॥
ननु नामाविनीतानां विनेतासि परन्तप।
कथमेवंविधं पापं न त्वं शास्सि हि रावणम् ॥ 3.49.26 ॥
नतु सद्योऽविनीतस्य दृश्यते कर्मणः फलम्।
कालोप्यङ्गी भवत्यत्र सस्यानामिव पक्तये ॥ 3.49.27 ॥
स कर्म कृतवानेतत् कालोपहतचेतनः।
जीवितान्तकरं घोरं रामाद्व्यसनमाप्नुहि ॥ 3.49.28 ॥
हन्तेदानीं सकामाऽस्तु कैकेयी सह बान्धवैः।
ह्रिये यद्धर्मकामस्य धर्मपत्नी यशस्विनः ॥ 3.49.29 ॥
आमन्त्रये जनस्थाने कर्णिकारान् सुपुष्पितान्।
क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः ॥ 3.49.30 ॥
माल्यवन्तं शिखरिणं वन्दे प्रस्रवणं गिरम्।
क्षिप्रं रामाय शंस त्वं सीतां हरति रावणः ॥ 3.49.31 ॥
हंसकारण्डवाकीर्णां वन्दे गोदावरीं नदीम्।
क्षिप्रं रामाय शंस त्वं सीतां हरति रावणः ॥ 3.49.32 ॥
दैवतानि च यान्यस्मिन् वने विविधपादपे।
नमस्करोम्यहं तेभ्यो भर्तुः शंसत मां हृताम् ॥ 3.49.33 ॥
यानि कानि चिदप्यत्र सत्त्वानि निवसन्त्युत।
सर्वाणि शरणं यामि मृगपक्षिगणानपि ॥ 3.49.34 ॥
ह्रियमाणां प्रियां भर्तुः प्राणेभ्योऽपि गरीयसीम्।
विवशाऽपहृता सीता रावणेनेति शंसत ॥ 3.49.35 ॥
विदित्वा मां महाबाहुरमुत्रापि महाबलः।
आनेष्यति पराक्रम्य वैवस्वतहृतामपि ॥ 3.49.36 ॥
सा तदा करुणा वाचो विलपन्ती सुदुःखिता।
वनस्पतिगतं गृध्रं ददर्शायतलोचना ॥ 3.49.37 ॥
सा तमुद्वीक्ष्य सुश्रोणी रावणस्य वशं गता।
समाक्रन्दद्भयपरा दुःकोपहतया गिरा ॥ 3.49.38 ॥
जटोयो पश्य मामार्य ह्रियमाणामनाथवत्।
अनेन राक्षसेन्द्रेण करुणं पापकर्मणा ॥ 3.49.39 ॥
नैष वारयितुं शक्यस्तव क्रूरो निशाचरः।
सत्त्ववान् जितकाशी च सायुधश्चैव दुर्मतिः ॥ 3.49.40 ॥
रामाय तु यथातत्त्वं जटायो हरणं मम।
लक्ष्मणाय च तत्सर्वमाख्यातव्यमशेषतः ॥ 3.49.41 ॥