एवं ब्रुवन्त्यां सीतायां संरब्धः परुषं वचः।
ललाटे भ्रुकुटीं कृत्वा रावणः प्रत्युवाच ह ॥ 3.48.1 ॥
भ्राता वैश्रवणस्याहं सापत्न्यो वरवर्णिनि।
रावणो नाम भद्रं ते दशग्रीवः प्रतापवान् ॥ 3.48.2 ॥
यस्य देवाः सगन्धर्वाः पिशाचपतगोरगाः।
विद्रवन्ति भयाद्भीता मृत्योरिव सदा प्रजाः ॥ 3.48.3 ॥
येन वैश्रवणो राजा द्वैमात्रः कारणान्तरे।
द्वन्द्वमासादितः क्रोधाद्रणे विक्रम्य निर्जितः ॥ 3.48.4 ॥
यद्भयार्तः परित्यज्य स्वमधिष्ठानमृद्धिमत्।
कैलासं पर्वतश्रेष्ठमध्यास्ते नरवाहनः ॥ 3.48.5 ॥
यस्य तत् पुष्पकं नाम विमानं कामगं शुभम्।
वीर्यादेवार्जितं भद्रे येन यामि विहायसम् ॥ 3.48.6 ॥
मम सञ्जातरोषस्य मुखं दृष्ट्वैव मैथिलि।
विद्रवन्ति परित्रस्ताः सुराः शक्रपुरोगमाः ॥ 3.48.7 ॥
यत्र तिष्ठाम्यहं तत्र मारुतो वाति शङ्कितः।
तीव्रांशुः शिशिरांशुश्च भयात् सम्पद्यते रविः ॥ 3.48.8 ॥
निष्कम्पपत्त्रास्तरवो नद्यश्च स्तिमितोदकाः।
भवन्ति यत्र यत्राहं तिष्ठामि विचरामि च ॥ 3.48.9 ॥
मम पारे समुद्रस्य लङ्का नाम पुरी शुभा।
सम्पूर्णा राक्षसैर्घोरैर्यथेन्द्रस्यामरावती ॥ 3.48.10 ॥
प्राकारेण परिक्षिप्ता पाण्डरेण विराजता।
हेमकक्ष्या पुरी रम्या वैडूर्यमयतोरणा ॥ 3.48.11 ॥
[शतयोजनविस्तीर्णा त्रिंशद्योजनमायता।] सर्वकालफलैर्वृक्षैः सङ्कुलोद्यानशोभिता ॥ 3.48.12 ॥
तत्र त्वं वसती सीते राजपुत्रि मया सह।
न स्मरिष्यसि नारीणां मानुषीणां मनस्विनी ॥ 3.48.13 ॥
भुञ्जाना मानुषान् भोगान् दिव्यांश्च वरवर्णिनि।
न स्मरिष्यसि रामस्य मानुषस्य गतायुषः ॥ 3.48.14 ॥
स्थापयित्वा प्रियं पुत्रं राज्ञा दरशथेन यः।
मन्दवीर्यः सुतो ज्येष्ठस्ततः प्रस्थापितो ह्ययम् ॥ 3.48.15 ॥
तेन किं भ्रष्टराज्येन रामेण गतचेतसा।
करिष्यसि विशालाक्षि तापसेन तपस्विना ॥ 3.48.16 ॥
सर्वराक्षसभर्तारं कामात् स्वयमिहागतम्।
न मन्मथशराविष्टं प्रत्याख्यातुं त्वमर्हसि ॥ 3.48.17 ॥
प्रत्याख्याय हि मां भीरु परितापं गमिष्यसि।
चरणेनाभिहत्येव पुरूरवसमुर्वशी ॥ 3.48.18 ॥
अङ्गुल्या न समो रामो मम युद्धे स मानुषः।
तव भाग्येन सम्प्राप्तं भजस्व वरवर्णिनि ॥ 3.48.19 ॥
एवमुक्ता तु वैदेही क्रुद्धा संरक्तलोचना।
अब्रवीत्परुषं वाक्यं रहिते राक्षसाधिपम् ॥ 3.48.20 ॥
कथं वैश्रवणं देवं सर्वभूतनमस्कृतम्।
भ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि ॥ 3.48.21 ॥
अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः।
येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः ॥ 3.48.22 ॥
अपहृत्य शचीं भार्यां शक्यमिन्द्रस्य जीवितुम्।
न च रामस्य भार्यां मामपनीयास्ति जीवितम् ॥ 3.48.23 ॥
जीवेच्चिरं वज्रधरस्य हस्ताच्छचीं प्रधृष्याप्रतिरूपरूपाम्।
न मादृशीं राक्षस दूषयित्वा पीतामृतस्यापि तवास्ति मोक्षः ॥ 3.48.24 ॥