रावणेन तु वैदेही तथा पृष्टा जिहीर्षता।
परिव्राजकलिङ्गेन शशंसात्मानमङ्गना ॥ 3.47.1 ॥
ब्राह्मणश्चातिथिश्चायमनुक्तो हि शपेत माम्।
इति ध्यात्वा मुहूर्तं तु सीता वचनमब्रवीत् ॥ 3.47.2 ॥
दुहिता जनकस्याहं मैथिलस्य महात्मनः।
सीता नाम्नाऽस्मि भद्रं ते रामभार्या द्विजोत्तम ॥ 3.47.3 ॥
उषित्वा द्वादश समा इक्ष्वाकूणां निवेशने।
भूञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी ॥ 3.47.4 ॥
ततस्त्रयोदशे वर्षे राजाऽमन्त्रयत प्रभुः।
अभिषेचयितुं रामं समेतो राजमन्त्रिभिः ॥ 3.47.5 ॥
तस्मिन् सम्भ्रियमाणे तु राघवस्याभिषेचने।
कैकेयी नाम भर्तारमार्या सा याचते वरम् ॥ 3.47.6 ॥
मम प्रव्राजनं भर्तुर्भरतस्याभिषेचनम्।
द्वावयाचत भर्तारं सत्यसन्धं नृपोत्तमम् ॥ 3.47.7 ॥
नाद्य भोक्ष्ये न च स्वप्स्ये न पास्ये च कथञ्चन।
एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ॥ 3.47.8 ॥
इति ब्रुवाणां कैकेयीं श्वशुरो मे स मानदः।
अयाचतार्थैरन्वर्थैर्न च याच्ञां चकार सा ॥ 3.47.9 ॥
मम भर्ता महातेजा वयसा पञ्चविंशकः।
अष्टादश हि वर्षाणि मम जन्मनि गण्यते ॥ 3.47.10 ॥
रामेति प्रथितो लोके गुणवान् सत्यवान् शुचिः।
विशालाक्षो महाबाहुः सर्वभूतहिते रतः ॥ 3.47.11 ॥
कामार्तस्तु महातेजाः पिता दशरथः स्वयम्।
कैकेय्याः प्रियकामार्थं तं रामं नाभ्यषेचयत् ॥ 3.47.12 ॥
अभिषेकाय तु पितुः समीपं राममागतम्।
कैकेयी मम भर्तारमित्युवाच धृतं वचः ॥ 3.47.13 ॥
तव पित्रा समाज्ञप्तं ममेदं शृणु राघव।
भरताय प्रदातव्यमिदं राज्यमकण्टकम् ॥ 3.47.14 ॥
त्वया हि खलु वस्तव्यं नव वर्षाणि पञ्च च।
वने प्रव्रज काकुत्स्थ पितरं मोचयानृतात् ॥ 3.47.15 ॥
तथेत्युक्त्वा च तां रामः कैकेयीमकुतोभयः।
चकार तद्वचस्तस्या मम भर्ता दृढव्रतः ॥ 3.47.16 ॥
दद्यान्न प्रतिगृह्णीयात् सत्यं ब्रूयान्न चानृतम्।
एतद्ब्राह्मण रामस्य ध्रुवं व्रतमनुत्तमम् ॥ 3.47.17 ॥
तस्य भ्राता तु द्वैमात्रो लक्ष्मणो नाम वीर्यवान्।
रामस्य पुरुषव्याघ्रः सहायः समरेऽरिहा ॥ 3.47.18 ॥
स भ्राता लक्ष्मणो नाम धर्मचारी दृढव्रतः।
अन्वगच्छद्धनुष्पाणिः प्रव्रजन्तं मया सह ॥ 3.47.19 ॥
जटी तापसरूपेण मया सह सहानुजः।
प्रविष्टो दण्डकारण्यं धर्मनित्यो जितेन्द्रियः ॥ 3.47.20 ॥
ते वयं प्रच्युता राज्यात्कैकेय्यास्तु कृते त्रयः।
विचराम द्विजश्रेष्ठ वनं गम्भीरमोजसा ॥ 3.47.21 ॥
समाश्वस मुहुर्तं तु शक्यं वस्तुमिह त्वया।
आगमिष्यति मे भर्ता वन्यमादाय पुष्कलम् ॥ 3.47.22 ॥
स त्वं नाम च गोत्रं च कुलं चाचक्ष्व तत्त्वतः।
एकश्च दण्डकारण्ये किमर्थं चरसि द्विज ॥ 3.47.23 ॥
एवं ब्रुवन्त्यां सीतायां रामपत्न्यां महाबलः।
प्रत्युवाचोत्तरं तीव्रं रावणो राक्षसाधिपः ॥ 3.47.24 ॥
येन वित्रासिता लोकाः सदेवासुरपन्नागाः।
अहं तु रावणो नाम सीते रक्षोगणेश्वरः ॥ 3.47.25 ॥
त्वां तु काञ्चनवर्णाभां दृष्ट्वा कौशेयवासिनीम्।
रतिं स्वकेषु दारेषु नाधिगच्छाम्यनिन्दिते ॥ 3.47.26 ॥
बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः।
सर्वासामेव भद्रं ते ममाग्रमहिषी भव ॥ 3.47.27 ॥
लङ्का नाम समुद्रस्य मध्ये मम महापुरी।
सागरेण परिक्षप्ता निविष्टा नगमूर्द्धनि ॥ 3.47.28 ॥
तत्र सीते मया सार्धं वनेषु विहरिष्यसि।
न चास्यारण्यवास्य स्पृहयिष्यसि भामिनि ॥ 3.47.29 ॥
पञ्च दास्यः सहस्त्राणि सर्वाभरणभूषिताः।
सीते परिचरिष्यन्ति भार्या भवसि मे यदि ॥ 3.47.30 ॥
रावणेनैवमुक्ता तु कुपिता जनकात्मजा।
प्रत्युवाचानवद्याङ्गी तमनादृत्य राक्षसम् ॥ 3.47.31 ॥
महागिरिमिवाकम्प्यं महेन्द्रसदृशं पतिम्।
महोदधिमिवाक्षोभ्यमहं राममनुव्रता ॥ 3.47.32 ॥
सर्वलक्षणसम्पन्नं न्यग्रोधपरिमण्डलम्।
सत्यसन्धं महाभागमहं राममनुव्रता ॥ 3.47.33 ॥
महाबाहुं महोरस्कं सिंहविक्रान्तगामिनम्।
नृसिंहं सिंहसङ्काशमहं राममनुव्रता ॥ 3.47.34 ॥
पूर्णचन्द्राननं रामं राजवत्सं जितेन्द्रियम्।
पृथुकीर्तिं महात्मानमहं राममनुव्रता ॥ 3.47.35 ॥
त्वं पुनर्जम्बुकः सिंहीं मामिच्छसि सुदुर्लभाम्।
नाहं शक्या त्वया स्प्रष्टुमादित्यस्य प्रभा यथा ॥ 3.47.36 ॥
पादपान् काञ्चनान् नूनं बहून् पश्यसि मन्दभाक्।
राघवस्य प्रियां भार्यां यस्त्वमिच्छसि रावण ॥ 3.47.37 ॥
क्षुधितस्य च सिंहस्य मृगशत्रोस्तरस्विनः।
आशीविषस्य वदनाद्दंष्ट्रामादातुमिच्छसि ॥ 3.47.38 ॥
मन्दरं पर्वतश्रेष्ठं पाणिनाहर्तुमिच्छसि।
कालकूटं विषं पीत्वा स्वस्तिमान् गन्तुमिच्छसि ॥ 3.47.39 ॥
अक्षि सूच्या प्रमृजसि जिह्वया लेक्षि च क्षुरम्।
राघवस्य प्रियां भार्यां योऽधिगन्तुं त्वमिच्छसि ॥ 3.47.40 ॥
अवसज्य शिलां कण्ठे समुद्रं तर्तुमिच्छसि।
सूर्याचन्द्रमसौ चोभौ पाणिभ्यां हर्तुमिच्छसि ॥ 3.47.41 ॥
यो रामस्य प्रियां भार्यां प्रधर्षयितुमिच्छसि ॥ 3.47.42 ॥
अग्निं प्रज्वलितं दृष्ट्वा वस्त्रेणाहर्तुमिच्छसि।
कल्याणवृत्तां रामस्य यो भार्यां हर्तुमिच्छसि ॥ 3.47.43 ॥
अयोमुखानां शूलानामग्रे चरितुमिच्छसि।
रामस्य सदृशीं भार्यां योऽधिगन्तुं त्वमिच्छसि ॥ 3.47.44 ॥
यदन्तरं सिंहसृगालयोर्वने यदन्तरं स्यन्दिनिकासमुद्रयोः।
सुराग्य्रसौवीरकयोर्यदन्तरं तदन्तरं वै तव राघवस्य च ॥ 3.47.45 ॥
यदन्तरं काञ्चनसीसलोहयोर्यदन्तरं चन्दनवारिपङ्कयोः।
यदन्तरं हस्तिबिडालयोर्वने तदन्तरं दाशरथेस्तवैव च ॥ 3.47.46 ॥
यदन्तरं वायसवैनतेययोर्यदन्तरं मद्गुमयूरयोरपि।
यदन्तरं सारसगृध्रयोर्वने तदन्तरं दाशरथेस्तवैव च ॥ 3.47.47 ॥
तस्मिन् सहस्राक्षसमप्रभावे रामे स्थिते कार्मुकबाणपाणौ।
हृताऽपि तेऽहं न जरां गमिष्ये वज्रं यथा मक्षिकयावगीर्णम् ॥ 3.47.48 ॥
इतीव तद्वाक्यमदुष्टभावा सुधृष्टमुक्त्वा रजनीचरं तम्।
गात्रप्रकम्पव्यथिता बभूव वातोद्धता सा कदलीव तन्वी ॥ 3.47.49 ॥
तां वेपमानामुपलक्ष्य सीतां स रावणो मृत्युसमप्रभावः।
कुलं बलं नाम च कर्म च स्वं समाचचक्षे भयकारणार्थम् ॥ 3.47.50 ॥