०४६ तपस्वीरूपेण रावणागमनम्

तया परुषमुक्तस्तु कुपितो राघवानुजः।
स विकाङ्क्षन् भृशं रामं प्रतस्थे नचिरादिव ॥ 3.46.1 ॥
तदासाद्य दशग्रीवः क्षिप्रमन्तरमास्थितः।
अभिचक्राम वैदेहीं परिव्राजकरूपधृत् ॥ 3.46.2 ॥
वामे चांसेऽवसज्याथ शुभे यष्टिकमण्डलू।
परिव्राजकरूपेण वैदीहीं समुपागमत् ॥ 3.46.3 ॥
तामाससादातिबलो भ्रातृभ्यां रहितां वने।
रहितां चन्द्रसूर्याभ्यां सन्ध्यामिव महत्तमः ॥ 3.46.4 ॥
तामपश्यत्ततो बालां रामपत्नीं यशस्विनीम्।
रोहिणीं शशिना हीनां ग्रहवद् भृशदारुणः ॥ 3.46.5 ॥
तमुग्रं पापकर्माणं जनस्थानरुहा द्रुमाः।
समीक्ष्य न प्रकम्पन्ते न प्रवाति च मारुतः ॥ 3.46.6 ॥
शीघ्रस्रोताश्च तं दृष्ट्वा वीक्षन्तं रक्तलोचनम्।
स्तिमितं गन्तुमारेभे भयाद्गोदावरी नदी ॥ 3.46.7 ॥
रामस्य त्वन्तरप्रेप्सुर्दशग्रीवस्तदन्तरे।
उपतस्थे च वैदेहीं भिक्षुरूपेण रावणः ॥ 3.46.8 ॥
अभव्यो भव्यरूपेण भर्तारमनुशोचतीम्।
अभ्यवर्तत वैदेहीं चित्रामिव शनैश्चरः ॥ 3.46.9 ॥
स पापो भव्यरूपेण तृणैः कूप इवावृतः।
अतिष्ठत्प्रेक्ष्य वैदेहीं रामपत्नीं यशस्विनीम् ॥ 3.46.10 ॥
शुभां रुचिरदन्तोष्ठीं पूर्णचन्द्रनिभाननाम्।
आसीनां पर्णशालायां बाष्पशोकाभिपीडिताम् ॥ 3.46.11 ॥
स तां पद्मपलाशाक्षीं पीतकौशेयवासिनीम्।
अभ्यगच्छत वैदेहीं दुष्टचेता निशाचरः ॥ 3.46.12 ॥
स मन्मथशराविष्टो ब्रह्मघोषमुदीरयन्।
अब्रवीत्प्रश्रितं वाक्यं रहिते राक्षसाधिपः ॥ 3.46.13 ॥
तामुत्तमां स्त्रियं लोके पद्महीनामिव श्रियम्।
विभ्राजमानां वपुषा रावणः प्रशशंस ह ॥ 3.46.14 ॥
का त्वं काञ्चनवर्णाभे पीतकौशेयवासिनि।
कमलानां शुभां मालां पद्मिनीव हि बिभ्रती ॥ 3.46.15 ॥
ह्रीः कीर्तिः श्रीः शुभा लक्ष्मीरप्सरा वा शुभानने।
भूतिर्वा त्वं वरारोहे रतिर्वा स्वैरचारिणी ॥ 3.46.16 ॥
समाः शिखरिणः स्निग्धाः पाण्डरा दशनास्तव।
विशाले विमले नेत्रे रक्तान्ते कृष्णतारके ॥ 3.46.17 ॥
विशालं जघनं पीनमूरू करिकरोपमौ ॥ 3.46.18 ॥
पीनोन्नतमुखौ कान्तौ स्निग्धौ तालफलोपमौ।
मणिप्रवेकाभरणै रुचिरौ ते पयोधरौ ॥ 3.46.19 ॥
चारुस्मिते चारुदति चारुनेत्रे विलासिनि।
मनोहरसि मे कान्ते नदी कूलमिवाम्भसा ॥ 3.46.20 ॥
करान्तमितमध्यासि सुकेशी संहतस्तनी ॥ 3.46.21 ॥
नैव देवी न गन्धर्वी न यक्षी न च किन्नरी।
नैवंरूपा मया नारी दृष्टपूर्वा महीतले ॥ 3.46.22 ॥
रूपमग्य्रं च लोकेषु सोकुमार्यं वयश्च ते।
इह वासश्च कान्तारे चित्तमुन्मादयन्ति मे ॥ 3.46.23 ॥
सा प्रतिक्राम भद्रं ते न त्वं वस्तुमिहार्हसि।
राक्षसानामयं वासो घोराणां कामरूपिणाम् ॥ 3.46.24 ॥
प्रासादाग्राणि रम्याणि नगरोपवनानि च।
सम्पन्नानि सुगन्धीनि युक्तान्याचरितुं त्वया ॥ 3.46.25 ॥
वरं माल्यं वरं भोज्यं वरं वस्त्रं च शोभने।
भर्तारं च वरं मन्ये त्वद्युक्तमसितेक्षणे ॥ 3.46.26 ॥
का त्वं भवसि रुद्राणां मरूतां वा वरानने।
वसूनां वा वरारोहे देवता प्रतिभासि मे ॥ 3.46.27 ॥
नेह गच्छन्ति गन्धर्वा न देवा न च किन्निराः।
राक्षसानामयं वासः कथं नु त्वमिहागता ॥ 3.46.28 ॥
इह शाखामृगाः सिंहा द्वीपिव्याघ्रमृगास्तथा।
ऋक्षास्तरक्षवः कङ्काः कथं तेभ्यो न बिभ्यसि ॥ 3.46.29 ॥
मदान्वितानां घोराणां कुञ्जराणां तरस्विनाम्।
कथमेका महारण्ये न बिभेषि वरानने ॥ 3.46.30 ॥
काऽसि कस्य कुतश्चित्वं किन्निमित्तं च दण्डकान्।
एका चरसि कल्याणि घोरान् राक्षससेवितान् ॥ 3.46.31 ॥
द्विजातिवेषेण हितं दृष्ट्वा रावणमागतम्।
सर्वैरतिथिसत्कारैः पूजयामास मैथिली ॥ 3.46.32 ॥
उपनीयासनं पूर्वं पाद्येनाभिनिमन्त्र्य च।
अब्रवीत्सिद्धमित्येव तदा तं सौम्यदर्शनम् ॥ 3.46.33 ॥
द्विजातिवेषेण समीक्ष्य मैथिली समागतं पात्रकुसुम्भधारिणम्।
अशक्यमुद्द्वेष्टुमपायदर्शनं न्यमन्त्रयद् ब्राह्मणवत्तदाङ्गाना ॥ 3.46.34 ॥
इयं बृसी ब्राह्मण काममास्यतामिदं च पाद्यं प्रतिगृह्यतामिति।
इदं च सिद्धं वनजातमुत्तमं त्वदर्थमव्यग्रमिहोपभुज्यताम् ॥ 3.46.35 ॥
निमन्त्र्यमाणः प्रतिपूर्णभाषिणीं नरेन्द्रपत्नीं प्रसमीक्ष्य मैथिलीम्।
प्रसह्य तस्या हरणे धृतं मनः समार्पयत्स्वात्मवधाय रावणः ॥ 3.46.36 ॥
ततः सुवेषं मृगयागतं पतिं प्रतीक्षमाणा सहलक्ष्मणं तदा।
विवीक्षमाणा हरितं ददर्श तन्महद्वनं नैव तु रामलक्ष्मणौ ॥ 3.46.37 ॥