०४५ सीतादुर्वचनात्-लक्ष्मणनिर्गमनम्

आर्तस्वरं तु तं भर्तुर्विज्ञाय सदृशं वने।
उवाच लक्ष्मणं सीता गच्छ जानीहि राघवम् ॥ 3.45.1 ॥
नहि मे हृदयं स्थाने जीवितं वावतिष्ठति।
क्रोशतः परमार्तस्य श्रुतः शब्दो मया भृशम् ॥ 3.45.2 ॥
तं क्षिप्रमभिधाव त्वं भ्रातरं शरणैषिणम्।
रक्षसां वशमापन्नं सिंहानामिव गोवृषम् ॥ 3.45.3 ॥
न जगाम तथोक्तस्तु भ्रातुराज्ञाय शासनम्।
तमुवाच ततस्तत्र कुपिता जनकात्मजा ॥ 3.45.4 ॥
सौमित्रे मित्ररूपेण भ्रातुस्त्वमसि शत्रुवत्।
यस्त्वमस्यामवस्थायां भ्रातरं नाभिपत्स्यसे ॥ 3.45.5 ॥
इच्छसि त्वं विनश्यन्तं रामं लक्ष्मण मत्कृते।
लोभान्मम कृते नूनं नानुगच्छसि राघवम् ॥ 3.45.6 ॥
व्यसनं ते प्रियं मन्ये स्नेहो भ्रातरि नास्ति ते।
तेन तिष्ठसि विस्रब्धस्तमपश्यन् महाद्युतिम् ॥ 3.45.7 ॥
किं हि संशयमापन्ने तस्मिन्नह मया भवेत्।
कर्तव्यमिह तिष्ठन्त्या यत्प्रधानस्त्वमागतः ॥ 3.45.8 ॥
इति ब्रुवाणां वैदेहीं बाष्पशोकपरिप्लुताम्।
अब्रवील्लक्ष्मणस्त्रस्तां सीतां मृगवधूमिव ॥ 3.45.9 ॥
पन्नगासुरगन्धर्वदेवमानुषराक्षसैः।
अशक्यस्तव वैदेहि भर्ता जेतुं न संशयः ॥ 3.45.10 ॥
देवि देवमनुष्येषु गन्धर्वेषु पतत्त्रिषु।
राक्षसेषु पिशाचेषु किन्नरेषु मृगेषु च ॥ 3.45.11 ॥
दानवेषु च घोरेषु न स विद्येत शोभने।
यो रामं प्रतियुद्ध्येत समरे वासवोपमम् ॥ 3.45.12 ॥
अवध्यः समरे रामो नैवं त्वं वक्तुमर्हसि।
न त्वामस्मिन्वने हातुमुत्सहे राघवं विना ॥ 3.45.13 ॥
अनिवार्यं बलं तस्य बलैर्बलवतामपि।
त्रिभिर्लोकैः समुद्युक्तैः सेश्वरैरपि सामरैः ॥ 3.45.14 ॥
हृदयं निर्वृतं तेऽस्तु सन्तापस्त्यज्यतामयम्।
आगमिष्यति ते भार्ता शीघ्रं हत्वा मृगोत्तमम् ॥ 3.45.15 ॥
न च तस्य स्वरो व्यक्तं मायया केनचित्कृतः।
गन्धर्वनगरप्रख्या माया सा तस्य रक्षसः ॥ 3.45.16 ॥
न्यासभूतासि वैदेहि न्यस्ता मयि महात्मना।
रामेण त्वं वरारोहे न त्वां त्यक्तुमिहोत्सहे ॥ 3.45.17 ॥
कृतवैराश्च वैदेहि वयमेतैर्निशाचरैः।
खरस्य निधनादेव जनस्थानवधं प्रति ॥ 3.45.18 ॥
राक्षसा विविधा वाचो विसृजन्ति महावने।
हिंसाविहारा वैदेहि न चिन्तयितुमर्हसि ॥ 3.45.19 ॥
लक्ष्मणेनैवमुक्ता सा क्रुद्धा संरक्तलोचना।
अब्रवीत्परुषं वाक्यं लक्ष्मणं सत्यवादिनम् ॥ 3.45.20 ॥
अनार्याकरुणारम्भ नृशंस कुलपांसन।
अहं तव प्रियं मन्ये रामस्य व्यसनं महत् ॥ 3.45.21 ॥
रामस्य व्यसनं दृष्ट्वा तेनैतानि प्रभाषसे ॥ 3.45.22 ॥
नैतच्चित्रं सपत्नेषु पापं लक्ष्ण यद्भवेत्।
त्वद्विधेषु नृशंसेषु नित्यं प्रच्छन्नचारिषु ॥ 3.45.23 ॥
सुदुष्टस्त्वं वने राममेकमेकोऽनुगच्छसि।
मम हेतोः प्रतिच्छन्नः प्रयुक्तो भरतेन वा ॥ 3.45.24 ॥
कथमिन्दीवरश्यामं पद्मपत्रनिभेक्षणम्।
उपसंश्रित्य भर्तारं कामयेयं पृथग्जनम् ॥ 3.45.25 ॥
समक्षं तव सौमित्रे प्राणांस्त्यक्ष्ये न संशयः।
रामं विना क्षणमपि नहि जीवामि भूतले ॥ 3.45.26 ॥
इत्युक्तः परुषं वाक्यं सीतया रोमहर्षणम्।
अब्रवील्लक्ष्मणः सीतां प्राञ्जलिर्विजितेन्द्रियः ॥ 3.45.27 ॥
उत्तरं नोत्सहे वक्तुं दैवतं भवती मम।
वाक्यमप्रतिरूपं तु न चित्रं स्त्रीषु मैथिलि ॥ 3.45.28 ॥
स्वभावस्त्वेष नारीणामेवं लोकेषु दृश्यते।
विमुक्तधर्माश्चपलास्तीक्ष्णा भेदकराः स्त्रियः ॥ 3.45.29 ॥
न सहे हीदृशं वाक्यं वैदेहि जनकात्मजे।
श्रोत्रयोरुभयोर्मेऽद्य तप्तनाराचसन्निभम् ॥ 3.45.30 ॥
उपशृण्वन्तु मे सर्वे साक्षिभूता वनेचराः।
न्यायवादी यथाऽन्यायमुक्तोऽहं परुषं त्वया ॥ 3.45.31 ॥
धिक् त्वामद्य प्रणश्य त्वं यन्मामैवं विशङ्कसे।
स्त्रीत्वं दुष्टं स्वभावेन गुरुवाक्ये व्यवस्थितम् ॥ 3.45.32 ॥
गमिष्ये यत्र काकुत्स्थः स्वस्ति तेऽस्तु वरानने।
रक्षन्तु त्वां विशालाक्षि समग्रा वनदेवताः ॥ 3.45.33 ॥
निमित्तानि हि घोराणि यानि प्रादुर्भवन्ति मे।
अपि त्वां सह रामेण पश्येयं पुनरागतः ॥ 3.45.34 ॥
लक्ष्मणेनैवमुक्ता सा रुदन्ती जनकात्मजा।
प्रयुवाच ततो वाक्यं तीव्रं बाष्पपरिप्लुता ॥ 3.45.35 ॥
गोदावरीं प्रवेक्ष्यामि विना रामेण लक्ष्मण।
आबन्धिष्येऽथवा त्यक्ष्ये विषमे देहमात्मनः ॥ 3.45.36 ॥
पिबाम्यहं विषं तीक्ष्णं प्रवेक्ष्यामि हुताशनम्।
न त्वहं राघवादन्यं पदापि पुरुषं स्पृशे ॥ 3.45.37 ॥
इति लक्ष्मणमाक्रुश्य सीता दुःखसमन्विता।
पाणिभ्यां रुदती दुःखादुदरं प्रजघान ह ॥ 3.45.38 ॥
तामार्त्तरूपां विमना रुदन्तीं सौमित्रिरालोक्य विशालनेत्राम्।
आश्वासयामास न चैव भर्तुस्तं भ्रातरं किञ्चिदुवाच सीता ॥ 3.45.39 ॥
ततस्तु सीतामभिवाद्य लक्ष्मणः कृताञ्जलिः किञ्चिदभिप्रणम्य च।
अन्वीक्षमाणो बहुशश्च मैथिलीं जगाम रामस्य समीपमात्मवान् ॥ 3.45.40 ॥