०४४ मारीचवधः

तथा तु तं समादिश्य भ्रातरं रघुनन्दनः।
बबन्धासिं महातेजा जाम्बूनदमयत्सरुम् ॥ 3.44.1 ॥
ततस्त्र्यवनतं चापमादायात्मविभूषणम्।
आबध्य च कलापौ द्वौ जगामोदग्रविक्रमः ॥ 3.44.2 ॥
बभूवान्तर्हितस्त्रासात्पुनः सन्दर्शनेऽभवत्।
बद्धासिर्धनुरादाय प्रदुद्राव यतो मृगः ॥ 3.44.3 ॥
तं स्म पश्यति रूपेण द्योतमानमिवाग्रतः।
अवेक्ष्यावेक्ष्य धावन्तं धनुष्पाणिं महावने ॥ 3.44.4 ॥
अतिवृत्तमिषोः पाताल्लोभयानं कदाचन।
शङ्कितं तु समुद्भ्रान्तमुत्पतन्तमिवाम्बरे ॥ 3.44.5 ॥
दृश्यमानमदृश्यं च वनोद्देशेषु केषुचित्।
छिन्नाभ्रौरिव संवीतं शारदं चन्द्रमण्डलम् ॥ 3.44.6 ॥
मुहर्तादेव ददृशे मुहुर्दूरात्प्रकाशते।
दर्शनादर्शनादेवं सोऽपाकर्षत राघवम् ॥ 3.44.7 ॥
सुदूरमाश्रमस्यास्य मारीचो मृगतां गतः ॥ 3.44.8 ॥
आसीत्क्रुद्धस्तु काकुत्स्थो विवशस्तेन मोहितः।
अथावतस्थे सम्भ्रान्तश्छायामाश्रित्य शाद्वले ॥ 3.44.9 ॥
स तमुन्मादयामास मृगरूपो निशाचरः।
मृगैः परिवृतो वन्यैरदूरात् प्रत्यदृश्यत ॥ 3.44.10 ॥
ग्रहीतुकामं दृष्ट्वैनं पुनरेवाभ्यधावत।
तत्क्षणादेव सन्त्रासात्पुनरन्तर्हितोऽभावत् ॥ 3.44.11 ॥
दृष्ट्वा रामो महातेजास्तं हन्तुं कृतनिश्चयः।
भूयस्तु शऱमुद्धृत्य कुपितस्तत्र राघवः ॥ 3.44.12 ॥
सूर्यरश्मिप्रतीकाशं ज्वलन्तमरिमर्दनः।
सन्धाय सुदृढे चापे विकृष्य बलवद्बली ॥ 3.44.13 ॥
तमेव मृगमुद्दिश्य श्वसन्तमिव पन्नगम्।
मुमोच ज्वलितं दीप्तमस्त्रं बह्मविनिर्मितम् ॥ 3.44.14 ॥
शरीरं मृगरूपस्य विनिर्भिद्य शरोत्तमः।
मारीचस्यैव हृदयं बिभेदाशनिसन्निभः ॥ 3.44.15 ॥
तालमात्रमथोत्प्लुत्य न्यपतत्स शरातुरः।
विनदन् भैरवं नादं धरण्यामल्पजीवितः ॥ 3.44.16 ॥
स्मृत्वा तद्वचनं रक्षो दध्यौ केन तु लक्ष्मणम्।
इह प्रस्थापयेत्सीता शून्ये तां रावणो हरेत् ॥ 3.44.17 ॥
स प्राप्तकालमाज्ञाय चकार च ततः स्वरम्।
सदृशं राघवस्यैव हा सीते लक्ष्मणेति च ॥ 3.44.18 ॥
तेन मर्मणि निर्विद्धः शरेणानुपमेन च।
मृगरूपं तु तत्त्यक्त्वा राक्षसं रूपमात्मनः ॥ 3.44.19 ॥
चक्रे स सुमहाकायो मारीचो जीवितं त्यजन् ॥ 3.44.20 ॥
ततो विचित्रकेयूरः सर्वाभरणभूषितः।
हेममाली महादंष्ट्रो राक्षसोऽभूच्छराहतः ॥ 3.44.21 ॥
रामो रुधिरसिक्ताङ्गं वेष्टमानं महीतले।
जगाम मनसा सीतां लक्ष्मणस्य वचः स्मरन् ॥ 3.44.22 ॥
मारीचस्यैव मायैषा पूर्वोक्तं लक्ष्णेन तु।
तत्तथा ह्यभवच्चाद्य मारीचोऽयं मया हतः ॥ 3.44.23 ॥
हा सीते लक्ष्मणेत्येवमाक्रुश्य च महास्वनम्।
ममार राक्षसः सोऽयं श्रुत्वा सीता कथं भवेत् ॥ 3.44.24 ॥
लक्ष्मणश्च महाबाहुः कामवस्थां गमिष्यति।
इति सञ्चिन्त्य धर्मात्मा रामो हृष्टतनूरुहः ॥ 3.44.25 ॥
तत्र रामं भयं तीव्रमाविवेश विषादजम् ॥ 3.44.26 ॥
निहत्य पृषतं चान्यं मांसमादाय राघवः।
त्वरमाणो जनस्थानं ससाराभिमुखस्तदा ॥ 3.44.27 ॥