०४३ स्वर्णमृगग्रहणर्थं रामगमनम्

सा तं सम्प्रेक्ष्य सुश्रोणी कुसुमान्यपचिन्वती।
हैमराजतवर्णाभ्यां पार्श्वाभ्यामुपशोभितम् ॥ 3.43.1 ॥
प्रहृष्टा चानवद्याङ्गी मृष्टहाटकवर्णिनी।
भर्तारमभिचक्रन्द लक्ष्मणं चापि सायुधम् ॥ 3.43.2 ॥
तयाऽऽहूतौ नरव्याघ्रौ वैदेह्या रामलक्ष्मणौ।
वीक्षमाणौ तु तं देशं तदा ददृशतुर्मृगम् ॥ 3.43.3 ॥
शङ्कमानस्तु तं दृष्ट्वा लक्ष्मणो राममब्रवीत्।
तमेवैनमहं मन्ये मारीचं राक्षसं मृगम् ॥ 3.43.4 ॥
चरन्तो मृगयां हृष्टाः पापेनोपाधिना वने।
अनेन निहता राजन् राजानः कामरूपिणा ॥ 3.43.5 ॥
अस्य मायाविदो माया मृगरूपमिदं कृतम्।
भानुमत् पुरुषव्याघ्र गन्धर्वपुरसन्निभम् ॥ 3.43.6 ॥
मृगो ह्येवंविधो रत्नविचित्रो नास्ति राघव।
जगत्यां जगतीनाथ मायैषा हि न संशयः ॥ 3.43.7 ॥
एवं ब्रुवाणं काकुत्स्थं प्रतिवार्य शुचिस्मिता।
उवाच सीता संहृष्टा चर्मणा हृतचेतना ॥ 3.43.8 ॥
आर्यपुत्राभिरामोऽसौ मृगो हरति मे मनः।
आनयैनं महाबाहो क्रीडार्थं नो भविष्यति ॥ 3.43.9 ॥
इहाश्रमपदेऽस्माकं बहवः पुण्यदर्शनाः।
मृगाश्चरन्ति सहिताः सृमराश्चमरास्तथा ॥ 3.43.10 ॥
ऋक्षाः पृषतसङ्घाश्च वानराः किन्नरास्तथा।
विचरन्ति महाबाहो रूपश्रेष्ठा मनोहराः ॥ 3.43.11 ॥
न चास्य सदृशो राजन् दृष्टूपर्वो मृगः पुरा।
तेजसा क्षमया दीप्त्या यथायं मृगसत्तमः ॥ 3.43.12 ॥
नानावर्णविचित्राङ्गो रत्नबिन्दुसमाचितः।
द्योतयन् वनमव्यग्रं शोभते शशिसन्निभः ॥ 3.43.13 ॥
अहो रूपमहो लक्ष्मीः स्वरसम्पच्च शोभना।
मृगोऽद्भुतो विचित्राङ्गो हृदयं हरतीव मे ॥ 3.43.14 ॥
यदि ग्रहणमभ्येति जीवन्नेव मृगस्तव।
आश्चर्यभूतं भवति विस्मयं जनयिष्यति ॥ 3.43.15 ॥
समाप्तवनवासानां राज्यस्थानां च नः पुनः।
अन्तःपुरविभूषार्थो मृग एष भविष्यति ॥ 3.43.16 ॥
भरतस्यार्यपुत्रस्य श्वश्रूणां मम च प्रभो।
मृगरूपमिदं व्यक्तं विस्मयं जनयिष्यति ॥ 3.43.17 ॥
जीवन्न यदि तेऽभ्येति ग्रहणं मृगसत्तमः।
अजिनं नरशार्दूल रुचिरं मे भविष्यति ॥ 3.43.18 ॥
निहतस्यास्य सत्त्वस्य जाम्बूनदमयत्वचि।
शष्पबृस्यां विनीतायामिच्छाम्यहमुपासितुम् ॥ 3.43.19 ॥
कामवृत्तमिदं रौद्रं स्त्रीणामसदृशं मतम्।
वपुषा त्वस्य सत्त्वस्य विस्मयो जनितो मम ॥ 3.43.20 ॥
तारुणादित्यवर्णेन नक्षत्रपथवर्चसा।
बभूव राघवस्यापि मनो विस्मयमागतम् ॥ 3.43.21 ॥
एवं सीतावचः श्रुत्वा तं दृष्ट्वा मृगमद्भुतम्।
लोभितस्तेन रूपेण सीतया च प्रचोदितः ॥ 3.43.22 ॥
उवाच राघवो हृष्टो भ्रातरं लक्ष्मणं वचः ॥ 3.43.23 ॥
पश्य लक्ष्मण वैदेह्याः स्पृहां मृगगतामिमाम्।
रूपश्रेष्ठतया ह्येष मृगोऽद्य न भषिष्यति ॥ 3.43.24 ॥
न वने नन्दनोद्देशे न चैत्ररथसंश्रये।
कुतः पृथिव्यां सौमित्रे योऽस्य कश्चित्समो मृगः ॥ 3.43.25 ॥
प्रतिलोमानुलोमाश्च रुचिरा रोमराजयः।
शोभन्ते मृगमाश्रित्य चित्राः कनकबिन्दुभिः ॥ 3.43.26 ॥
पश्यास्य जृम्भमाणस्य दीप्तामग्निशिखोपमाम्।
जिह्वां मुखान्निःसरन्तीं मेघादिव शतह्रदाम् ॥ 3.43.27 ॥
मसारगल्लर्कमुखः शङ्खमुक्तानिभोदरः।
कस्य नामाभिरूपोऽसौ न मनो लोभयेन्मृगः ॥ 3.43.28 ॥
नानारत्नमयं दिव्यं न मनो विस्मयं व्रजेत्।
[किं पुनर्मैथिली सीता बाला नारी न विस्मयेत्।] ॥ 3.43.29 ॥
मांसहेतोरपि मृगान् विहारार्थं च धन्विनः।
घ्नन्ति लक्ष्मण राजानो मृगयायां महावने ॥ 3.43.30 ॥
धनानि व्यवसायेन विचीयन्ते महावने।
धातवो विविधाश्चापि मणिरत्नसुवर्णिनः ॥ 3.43.31 ॥
तत्सारमखिलं नॄणां धनं निचयवर्धनम्।
मनसा चिन्तितं सर्वं यथा शुक्रस्य लक्ष्मण ॥ 3.43.32 ॥
अर्थी येनार्थकृत्येन संव्रजत्यविचारयन्।
तमर्थमर्थशास्त्रज्ञाः प्राहुरर्थ्याश्च लक्ष्मण ॥ 3.43.33 ॥
एतस्य मृगरत्नस्य परार्ध्ये काञ्चनत्वचि।
उपवेक्ष्यति वैदेही मया सह सुमध्यमा ॥ 3.43.34 ॥
न कादली न प्रियकी न प्रवेणी न चाविकी।
भवेदेतस्य सदृशी स्पर्शनेनेति मे मतिः ॥ 3.43.35 ॥
एष चैव मृगः श्रीमान् यश्च दिव्यो नभश्चरः।
उभावेतै मृगौ दिव्यौ तारामृगमहीमृगौ ॥ 3.43.36 ॥
यदि वाऽयं तथा यन्मां भवेद्वदसि लक्ष्मण।
मायैषा राक्षसस्येति कर्तव्योऽस्य वधो मया ॥ 3.43.37 ॥
एतेन हि नृशंसेन मारीचेनाकृतात्मना।
वने विचरता पूर्वं हिंसिता मुनिपुङ्गवाः ॥ 3.43.38 ॥
उत्थाय बहवो येन मृगयायां जनाधिपाः।
निहताः परमेष्वासास्तस्माद्वध्यस्त्वयं मृगः ॥ 3.43.39 ॥
पुरस्तादिह वातापिः परिभूय तपस्विनः।
उदरस्थो द्विजान् हन्ति स्वगर्भोऽश्वतरीमिव ॥ 3.43.40 ॥
स कदाचिच्चिराल्लोभादाससाद महामुनिम्।
अगस्त्यं तेजसा युक्तं भक्षस्तस्य बभूव ह ॥ 3.43.41 ॥
समुत्थाने च तद्रूपं कर्तुकामं समीक्ष्य तम्।
उत्स्मयित्वा तु भगवान् वातापिमिदमब्रवीत् ॥ 3.43.42 ॥
त्वयाऽविगण्य वातापे परिभूताः स्वतेजसा।
जीवलोके द्विजश्रेष्ठास्तस्मादसि जरां गतः ॥ 3.43.43 ॥
मद्विधं योऽतिमन्येत धर्मनित्यं जितेन्द्रियम्।
भवेद्धतोऽयं वातापिरगस्त्येनेव मां गतः ॥ 3.43.44 ॥
इह त्वं भव सन्नद्धो यन्त्रितो रक्ष मैथिलीम्।
अस्यामायत्तमस्माकं यत्कृत्यं रघुनन्दन ॥ 3.43.45 ॥
अहमेनं वधिष्यामि ग्रहीष्याम्यपि वा मृगम्।
यावद्गच्छामि सौमित्रे मृगमानयितुं द्रुतम् ॥ 3.43.46 ॥
पश्य लक्ष्मण वैदेहीं मृगत्वचिगतस्पृहाम्।
त्वचा प्रधानया ह्येष मृगोऽद्य न भविष्यति ॥ 3.43.47 ॥
अप्रमत्तेन ते भाव्यमाश्रमस्थेन सीतया ॥ 3.43.48 ॥
यावत्पृषतमेकेन सायकेन निहन्म्यहम्।
हत्वैतच्चर्म चादाय शीघ्रमेष्यामि लक्ष्मण ॥ 3.43.49 ॥
प्रदक्षिणेनातिबलेन पक्षिणा जटायुषा बुद्धिमता च लक्ष्मण।
भवाप्रमत्तः परिगृह्य मैथीलीं प्रतिक्षणं सर्वत एव शङ्कितः ॥ 3.43.50 ॥