एवमुक्त्वा तु वचनं मारीचो रावणं ततः।
गच्छावेत्यब्रवीद्दीनो भयाद्रात्रिञ्चरप्रभोः ॥ 3.42.1 ॥
दृष्टश्चाहं पुनस्तेन शरचापासिधारिणा।
मद्वधोद्यतशस्त्रेण विनष्टं जीवितं च मे ॥ 3.42.2 ॥
नहि रामं पराक्रम्य जीवन् प्रतिनिवर्तते।
वर्तते प्रतिरूपोऽसौ यमदण्डहतस्य ते ॥ 3.42.3 ॥
किन्नु शक्यं मया कर्तुमेवं त्वयि दुरात्मनि।
एष गच्छाम्यहं तात स्वस्ति तेऽस्तु निशाचर ॥ 3.42.4 ॥
प्रहृष्टस्त्वभवत्तेन वचनेन स रावणः।
परिष्वज्य सुसंश्लेष्यमिदं वचनमब्रवीत् ॥ 3.42.5 ॥
एतच्छौण्डीर्ययुक्तं ते मच्छन्दादिव भाषितम्।
इदानीमसि मारीचः पूर्वमन्यो निशाचरः ॥ 3.42.6 ॥
आरुह्यतामयं शीघ्रं रथो रत्नविभूषितः।
मया सह तथा युक्तः पिशाचवदनैः खरैः ॥ 3.42.7 ॥
प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि।
तां शून्ये प्रसभं सीतामानयिष्यामि मैथिलीम् ॥ 3.42.8 ॥
ततो रावणमारीचौ विमानमिव तं रथम्।
आरुह्य ययतुः शीघ्रं तस्मादाश्रममण्डलात् ॥ 3.42.9 ॥
तथैव तत्र पश्यन्तौ पत्तनानि वनानि च।
गिरींश्च सरितः सर्वा राष्ट्राणि नगराणि च ॥ 3.42.10 ॥
समेत्य दण्डकारण्य राघवस्याश्रमं ततः।
ददर्श सहमारीचो रावणो राक्षसाधिपः ॥ 3.42.11 ॥
अवतीर्य रथात्तस्मात्ततः काञ्चनभूषणात्।
हस्ते गृहीत्वा मारीचं रावणो वाक्यमब्रवीत् ॥ 3.42.12 ॥
एतद्रामाश्रमपदं दृश्यते कदली वृतम्।
क्रियतां तत्सखे शीघ्रं यदर्थं वयमागताः ॥ 3.42.13 ॥
स रावणवचः श्रुत्वा मारीचो राक्षसस्तदा।
मृगो भूत्वाऽऽश्रमद्वारि रामस्य विचचार ह ॥ 3.42.14 ॥
स तु रूपं समास्थाय महदद्भुतदर्शनम्।
मणिप्रवरशृङ्गाग्रः सितासितमुखाकृतिः ॥ 3.42.15 ॥
रक्तपद्मोत्पलमुख इन्द्रनीलोत्पलश्रवाः।
किञ्चिदभ्युन्नतग्रीव इन्द्रनीलदलाधरः ॥ 3.42.16 ॥
कुन्देन्दुवज्रसङ्काशमुदरं चास्य भास्वरम्।
मधूकनिभपार्श्वश्च पद्मकिञ्जल्कसन्निभः ॥ 3.42.17 ॥
वैडूर्यसङ्काशखुरस्तनुजङ्घः सुसंहतः।
इन्द्रायुधसवर्णेन पुच्छेनोर्ध्वं विराजता ॥ 3.42.18 ॥
क्षणेन राक्षसो जातो मृगः परमशोभनः।
वनं प्रज्वलयन् रम्यं रामाश्रमपदं च तत् ॥ 3.42.19 ॥
मनोहरं दर्शनीयं रूपं कृत्वा स राक्षसः।
प्रलोभनार्थं वैदेह्या नानाधातुविचित्रितम् ॥ 3.42.20 ॥
विचरन् गच्छते तस्माच्छाद्वलानि समन्ततः ॥ 3.42.21 ॥
रूप्यैर्बिन्दुशतैश्चित्रो भूत्वा स प्रियदर्शनः।
विटपीनां किसलयान् भङ्क्त्वाऽदन् विचचार ह ॥ 3.42.22 ॥
कदलीगृहकं गत्वा कर्णिकारानितस्ततः।
समाश्रयन्मन्दगतिः सीतासन्दर्शनं तथा ॥ 3.42.23 ॥
राजीवचित्रपृष्ठः स विरराज महागृगः।
रामाश्रमपदाभ्याशे विचचार यथासुखम् ॥ 3.42.24 ॥
पुनर्गत्वा निवृत्तश्च विचचार मृगोत्तमः।
गत्वा मुहूर्तं त्वरया पुनः प्रतिनिवर्तते ॥ 3.42.25 ॥
विक्रीडंश्च क्वचिद्भूमौ पुनरेव निषीदति।
आश्रमद्वारमागम्य मृगयूथानि गच्छति ॥ 3.42.26 ॥
सीतादर्शनमाकाङ्क्षन् राक्षसो मृगतां गतः।
परिभ्रमति चित्राणि मण्डलानि विनिष्पतन् ॥ 3.42.27 ॥
समुद्वीक्ष्य च तं सर्वे मृगा ह्यन्ये वनेचराः।
उपागम्य समाघ्राय विद्रवन्ति दिशो दश ॥ 3.42.28 ॥
राक्षमः सोऽपि तान्वन्यान् मृगान् मृगवधे रतः।
प्रच्छादनार्थं भावस्य न भक्षयति संस्पृशन् ॥ 3.42.29 ॥
तस्मिन्नेव ततः काले वैदेही शुभलोचना।
कुसुमापचयव्यग्रा पादपानभ्यवर्तत ॥ 3.42.30 ॥
कर्णिकारानशोकांश्च चूतांश्च मदिरेक्षणा।
कुसुमान्यपचिन्वन्ती चचार रुचिरानना ॥ 3.42.31 ॥
अनर्हाऽरण्यवासस्य सा तं रत्नमयं मृगम्।
मुक्तामणिविचित्राङ्गं ददर्श परमाङ्गना ॥ 3.42.32 ॥
सा तं रुचिरदन्तोष्ठी रूप्यधातुतनूरुहम्।
विस्मयोत्फुल्लनयना सस्नेहं समुदैक्षत ॥ 3.42.33 ॥
स च तां रामदयितां पश्यन् मायामयो मृगः।
विचचार पुनश्चित्रं दीपयन्निव तद्वनम् ॥ 3.42.34 ॥
अदृष्टपूर्वं तं दृष्ट्वा नानारत्नमयं मृगम्।
विस्मयं परमं सीता जगाम जनकात्मजा ॥ 3.42.35 ॥