आज्ञप्तोऽराजवद्वाक्यं प्रतिकूलं निशाचरः।
अब्रवीत् परुषं वाक्यं मरीचो राक्षसाधिपम् ॥ 3.41.1 ॥
केनायमुपदिष्टस्ते विनाशः पापकर्मणा।
सपुत्रस्य सराष्ट्रस्य सामात्यस्य निशाचर ॥ 3.41.2 ॥
कस्त्वया सुखिना राजन्नाभिनन्दति पापकृत्।
केनेदमुपदिष्टं ते मुत्युद्वारमुपायतः ॥ 3.41.3 ॥
शत्रवस्तव सुव्यक्तं हीनवीर्या निशाचराः।
इच्छन्ति त्वां विनश्यन्तमुपरुद्धं बलीयसा ॥ 3.41.4 ॥
केनेदमुपदिष्टं ते क्षुद्रेणाहितवादिना।
यस्त्वामिच्छति नश्यन्तं स्वकृतेन निशाचर ॥ 3.41.5 ॥
वध्याः खलु न हन्यन्ते सचिवास्तव रावण।
ये त्वामुत्पथमारुढं न निगृङ्णन्ति सर्वशः ॥ 3.41.6 ॥
अमात्यैः कामवृत्तो हि राजा कापथमाश्रितः।
निग्राह्यः सर्वथा सद्भिर्न निग्राह्यो निगृह्यसे ॥ 3.41.7 ॥
धर्ममर्थं च कामं च यशश्च जयतां वर।
स्वामिप्रसादात् सचिवाः प्राप्नुवन्ति निशाचर ॥ 3.41.8 ॥
विपर्यये तु तत्सर्वं व्यर्थं भवति रावण।
व्यसनं स्वामिवैगुण्यात् प्राप्नुवन्तीतरे जनाः ॥ 3.41.9 ॥
राजमूलो हि धर्मश्च जयश्च जयतां वर।
तस्मात्सर्वास्ववस्थासु रक्षितव्या नराधिपाः ॥ 3.41.10 ॥
राज्यं पालयितुं शक्यं न तीक्ष्णेन निशाचर।
न चापि प्रतिकूलेन नाविनीतेन राक्षस ॥ 3.41.11 ॥
ये तीक्ष्णमन्त्राः सचिवा भज्यन्ते सह तेन वै।
विषमे तुरगाः शीघ्रा मन्दसारथयो यथा ॥ 3.41.12 ॥
बहवः साधवो लोके युक्ता धर्ममनुष्ठिताः।
परेषामपराधेन विनष्टाः सपरिच्छदाः ॥ 3.41.13 ॥
स्वामिना प्रतिकूलेन प्रजास्तीक्ष्णेन रावण।
रक्ष्यमाणा न वर्धन्ते मेषा गोमायुना यथा ॥ 3.41.14 ॥
अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः।
येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः ॥ 3.41.15 ॥
तदिदं काकतालीयं घोरमासादितं मया।
अत्रैव शोचनीयस्त्वं ससैन्यो विनशिष्यसि ॥ 3.41.16 ॥
मां निहत्य तु रामश्च नचिरात्त्वां वधिष्यति।
अनेन कृतकृत्योऽस्मि म्रिये यदरिणा हतः ॥ 3.41.17 ॥
दर्शनादेव रामस्य हतं मामुपधारय।
आत्मानं च हतं विद्धि हृत्वा सीतां सबान्धवम् ॥ 3.41.18 ॥
आनयिष्यसि चेत् सीतामाश्रमात् सहितो मया।
नैव त्वमसि नाहं च नैव लङ्का न राक्षसाः ॥ 3.41.19 ॥
निवार्यमाणस्तु मया हितैषिणा न मृष्यसे वाक्यमिदं निशाचर।
परेतकल्पा हि गतायुषो नरा हितं न गृह्णन्ति सुहृद्भिरीरितम् ॥ 3.41.20 ॥