मारीचेन तु तद्वाक्यं क्षमं युक्तं निशाचरः।
उक्तो न प्रतिजग्राह मर्तुकाम इवौषधम् ॥ 3.40.1 ॥
तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः।
अब्रवीत्परुषं वाक्यमयुक्तं कालचोदितः ॥ 3.40.2 ॥
यत्किलैतदयुक्तार्थं मारीच मयि कथ्यते।
वाक्यं निष्फलमत्यर्थमुप्तं बीजमिवोषरे ॥ 3.40.3 ॥
त्वद्वाक्यैर्न तु मां शक्यं भेत्तुं रामस्य संयुगे।
पापशीलस्य मूर्खस्य मानुषस्य विशेषतः ॥ 3.40.4 ॥
यस्त्यक्त्वा सुहृदो राज्यं मातरं पितरं तथा।
स्त्रीवाक्यं प्राकृतं श्रुत्वा वनमेकपदे गतः ॥ 3.40.5 ॥
अवश्यं तु मया तस्य संयुगे खरघातिनः।
प्राणैः प्रियतरा सीता हर्तव्या तव सन्निधौ ॥ 3.40.6 ॥
एवं मे निश्चिता बुद्धिर्हृदि मारीच वर्तते।
न व्यावर्तयितुं शक्या सेन्द्रैरपि सुरासुरैः ॥ 3.40.7 ॥
दोषं गुणं वा सम्पृष्टस्त्वमेवं वक्तुमर्हसि।
अपायं वाप्युपायं वा कार्यस्यास्य विनिश्चये ॥ 3.40.8 ॥
सम्पृष्टेन तु वक्तव्यं सचिवेन विपश्चिता।
उद्यताञ्जलिना राज्ञे य इच्छेद्भूतिमात्मनः ॥ 3.40.9 ॥
वाक्यमप्रतिकूलं तु मृदुपूर्वं हितं शुभम्।
उपचारेण युक्तं च वक्तव्यो वसुधाधिपः ॥ 3.40.10 ॥
सावमर्दं तु यद्वाक्यं मारीच हितमुच्यते।
नाभिनन्दति तद्राजा मानार्हो मानवर्जितम् ॥ 3.40.11 ॥
पञ्च रूपाणि राजानो धारयन्त्यमितौजसः।
अग्नेरिन्द्रस्य सोमस्य वरुणस्य यमस्य च ॥ 3.40.12 ॥
धारयन्ति महात्मानो राजानः क्षणदाचर।
तस्मात्सर्वास्ववस्थासु मान्याः पूज्याश्च पार्थिवाः ॥ 3.40.13 ॥
त्वं तु धर्ममविज्ञाय केवलं मोहमास्थितः।
अभ्यागतं मां दौरात्म्यात् परुषं वक्तुमिच्छसि ॥ 3.40.14 ॥
गुणदोषौ न पृच्छामि क्षमं चात्मनि राक्षस।
मयोक्तं तव चैतावत्सम्प्रत्यमितविक्रम ॥ 3.40.15 ॥
अस्मिंस्तु त्वं महाकृत्ये साहाय्यं कर्तुमर्हसि।
शृणु तत्कर्म साहाय्ये यत्कार्यं वचनान्मम ॥ 3.40.16 ॥
सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः।
आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर ॥ 3.40.17 ॥
प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि ॥ 3.40.18 ॥
त्वां तु माया मृगं दृष्ट्वा काञ्चनं जातविस्मया।
आनयैनमिति क्षिप्रं रामं वक्ष्यति मैथिली ॥ 3.40.19 ॥
अपक्रान्ते तु काकुत्स्थे दूरं यात्वा व्युदाहर।
हा सीते लक्ष्मणेत्येवं रामवाक्यानुरूपकम् ॥ 3.40.20 ॥
तच्छ्रुत्वा रामपदवीं सीतया च प्रचोदितः।
अनुगच्छति सम्भ्रान्तः सौमित्रिरपि सौहृदात् ॥ 3.40.21 ॥
अपक्रान्ते च काकुत्स्थे लक्ष्मणे च यथासुखम्।
आनयिष्यामि वैदेहीं सहस्राक्षः शचीमिव ॥ 3.40.22 ॥
एवं कृत्वा त्विदं कार्यं यथेष्टं गच्छ राक्षस।
राज्यस्यार्धं प्रयच्छामि मारीच तव सुव्रत ॥ 3.40.23 ॥
गच्छ सौम्य शिवं मार्गं कार्यस्यास्य विवृद्धये।
अहं त्वाऽनुगमिष्यामि सरथो दण्डकावनम् ॥ 3.40.24 ॥
प्राप्य सीतामयुद्धेन वञ्चयित्वा तु राघवम्।
लङ्कां प्रति गमिष्यामि कृतकार्यः सह त्वया ॥ 3.40.25 ॥
एतत्कार्यमवश्यं मे बलादपि करिष्यसि।
राज्ञो हि प्रतिकूलस्थो न जातु सुखमेधते ॥ 3.40.26 ॥
आसाद्य तं जीवितसंशयस्ते मृत्युर्ध्रुवो ह्यद्य मया विरुद्ध्य।
एतद्यथावत्प्रतिगृह्य बुद्ध्या यदत्र पथ्यं कुरु तत्तथा त्वम् ॥ 3.40.27 ॥