०३९ सहाय्यकरणनिराकरणम्

एवमस्मि तदा मुक्तः कथञ्चित्तेन संयुगे।
इदानीमपि यद्वृतं तच्छृणुष्व निरुत्तरम् ॥ 3.39.1 ॥
राक्षसाभ्यामहं द्वाभ्यामनिर्विण्णस्तथा कृतः।
सहितो मृगरूपाभ्यां प्रविष्टो दण्डकावनम् ॥ 3.39.2 ॥
दीप्तजिह्वो महाकायस्तीक्ष्णदंष्ट्रो महाबलः।
व्यचरं दण्डकारण्यं मांसभक्षो महामृगः ॥ 3.39.3 ॥
अग्निहोत्रेषु तीर्थेषु चैत्यवृक्षेषु रावण।
अत्यन्तघोरो व्यचरं तापसान् सम्प्रधर्षयन् ॥ 3.39.4 ॥
निहत्य दण्डकारण्ये तापसान् धर्मचारिणः।
रुधिराणि पिबंस्तेषां तथा मांसानि भक्षयन् ॥ 3.39.5 ॥
ऋषिमांसाशनः क्रूरस्त्रासयन् वनगोचरान्।
तथा रुधिरमत्तोहं विचरन् धर्मदूषकः ॥ 3.39.6 ॥
आसादयं तदा रामं तापसं धर्मचारिणम्।
वैदेहीं च महाभागां लक्ष्मणं च महारथम् ॥ 3.39.7 ॥
तापसं नियताहारं सर्वभूतहिते रतम्।
सोऽहं वनगतं रामं परिभूय महाबलम् ॥ 3.39.8 ॥
तापसोऽयमिति ज्ञात्वा पूर्ववैरमनुस्मरन्।
अभ्यधावं हि सङ्क्रुद्धस्तीक्ष्णशृङ्गो मृगाकृतिः ॥ 3.39.9 ॥
तेन मुक्तास्त्रयो बाणाः शिताः शत्रुनिबर्हणाः।
विकृष्य बलवच्चापं सुपर्णानिलनिस्वनाः ॥ 3.39.10 ॥
ते बाणा वज्रसङ्काशाः सुमुक्ता रक्तभोजनाः।
आजुग्मुः सहिताः सर्वे त्रयः सन्नतपर्वणः ॥ 3.39.11 ॥
पराक्रमज्ञो रामस्य शरो दृष्टभयः पुरा।
समुद्भ्रान्तस्ततो मुक्तस्तावुभौ राक्षसौ हतौ ॥ 3.39.12 ॥
शरेण मुक्तो रामस्य कथञ्चित्प्राप्य जीवितम्।
इह प्रव्राजितो युक्तस्तापसोऽहं समाहितः ॥ 3.39.13 ॥
वृक्षे वृक्षे च पश्यामि चीरकृष्णाजिनाम्बरम्।
गृहीतधनुषं रामं पाशहस्तमिवान्तकम् ॥ 3.39.14 ॥
अपि रामसहस्राणि भूतः पश्यामि रावण।
रामभूतमिदं सर्वमरण्यं प्रतिभाति मे ॥ 3.39.15 ॥
राममेव हि पश्यामि रहिते राक्षसाधिप।
दृष्ट्वा स्वप्नगतं राममुद्भ्रमामि विचेतनः ॥ 3.39.16 ॥
रकारादीनि नामानि रामत्रस्तस्य रावण।
रत्नानि च रथाश्चैव त्रासं सञ्जनयन्ति मे ॥ 3.39.17 ॥
अहं तस्य प्रभावज्ञो न युद्धं तेन ते क्षमम्।
बलिं वा नमुचिं वापि हन्याद्धि रघुनन्दनः ॥ 3.39.18 ॥
रणे रामेण युद्ध्यस्व क्षमां वा कुरु राक्षस।
न ते रामकथा कार्या यदि मां द्रष्टुमिच्छसि ॥ 3.39.19 ॥
बहवः साधवो लोके युक्ता धर्ममनुष्ठिताः।
परेषामपराधेन विनष्टाः सपरिच्छदाः ॥ 3.39.20 ॥
सोऽहं तवापराधेन विनश्येयं निशाचर।
कुरु यत्ते क्षमं तत्त्वमहं त्वा नानुयामि ह ॥ 3.39.21 ॥
रामश्च हि महातेजा महासत्त्वो महाबलः।
अपि राक्षसलोकस्य न भवेदन्तकोऽपि सः ॥ 3.39.22 ॥
यदि शूर्पणखाहेतोर्जनस्थानगतः खरः।
अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा ॥ 3.39.23 ॥
अत्र ब्रूबि यथातत्त्वं को रामस्य व्यतिक्रमः ॥ 3.39.24 ॥
इदं वचो बन्धुहितार्थिना मया यथोच्यमानं यदि नाभिपत्स्यसे।
सबान्धवस्त्यक्ष्यसि जीवितं रणे हतोऽद्य रामेण शरैरजिह्मगैः ॥ 3.39.25 ॥