कदाचिदप्यहं वीर्यात् पर्यटन् पृथिवीमिमाम्।
बलं नागसहस्रस्य धारयन् पर्वतोपमः ॥ 3.38.1 ॥
भयं लोकस्य जनयन् किरीटी परिघायुधः।
व्यचरं दण्डकारण्ये ऋषिमांसानि भक्षयन् ॥ 3.38.2 ॥
विश्वामित्रोऽथ धर्मात्मा मद्वित्रस्तो महामुनिः।
स्वयं गत्वा दशरथं नरेन्द्रमिदमब्रवीत् ॥ 3.38.3 ॥
अद्य रक्षतु मां रामः पर्वकाले समाहितः।
मारीचान्मे भयं घोरं समुत्पन्नं नरेश्वर ॥ 3.38.4 ॥
इत्येवमुक्तो धर्मात्मा राजा दशरथस्तदा।
प्रत्युवाच महाभागं विश्वामित्रं महामुनिम् ॥ 3.38.5 ॥
बालो द्वादशवर्षोऽयमकृतास्त्रश्च राघवः।
कामं तु मम यत्सैन्यं मया सह गमिष्यति ॥ 3.38.6 ॥
बलेन चतुरङ्गेण स्वयमेत्य निशाचरान्।
वधिष्यामि मुनिश्रेष्ठ शत्रूंस्ते मनसेप्सितान् ॥ 3.38.7 ॥
इत्येवमुक्तः स मुनी राजानमिदमब्रवीत्।
रामान्नान्यद्बलं लोके पर्याप्तं तस्य रक्षसः ॥ 3.38.8 ॥
देवातानामपि भवान् समरेष्वभिपालकः।
आसीत्तव कृतं कर्म त्रिलोके विदितं नृप ॥ 3.38.9 ॥
काममस्तु महत्सैन्यं तिष्ठत्विह परन्तप।
बालोऽप्येष महातेजाः समर्थस्तस्य निग्रहे ॥ 3.38.10 ॥
गमिष्ये राममादाय स्वस्ति तेऽस्तु परन्तप ॥ 3.38.11 ॥
एवमुक्त्वा तु स मुनिस्तमादाय नृपात्मजम्।
जगाम परमप्रीतो विश्वामित्रः स्वमाश्रमम् ॥ 3.38.12 ॥
तं तदा दण्डकारण्ये यज्ञमुद्दिश्य दीक्षितम्।
बभूवोपस्थितो रामश्चित्रं विस्फारयन् धनुः ॥ 3.38.13 ॥
अजातव्यञ्जनः श्रीमान् पद्मपत्रनिभेक्षणः।
एकवस्त्रधरो धन्वी शिखी कनकमालया ॥ 3.38.14 ॥
शोभयन् दण्डकारण्यं दीप्तेन स्वेन तेजसा।
अदृश्यत ततो रामो बालचन्द्र इवोदितः ॥ 3.38.15 ॥
ततोहं मेघसङ्काशस्तप्तकाञ्चनकुण्डलः।
बली दत्तवरो दर्पादाजगाम तदाश्रमम् ॥ 3.38.16 ॥
तेन दृष्टः प्रविष्टोऽहं सहसैवोद्यतायुधः।
मां तु दृष्ट्वा धनुः सज्यमसम्भ्रान्तश्चकार सः ॥ 3.38.17 ॥
अवजानन्नहं मोहाद्बालोयमिति राघवम्।
विश्वामित्रस्य तां वेदिमभ्यधावं कृतत्वरः ॥ 3.38.18 ॥
तेनमुक्तस्ततो बाणः शितः शत्रुनिबर्हणः।
तेनाहं त्वाहतः क्षिप्तः समुद्रे शतयोजने ॥ 3.38.19 ॥
नेच्छता तात मां हन्तुं तदा वीरेण रक्षितः।
रामस्य शरवेगेन निरस्तोऽहमचेतनः ॥ 3.38.20 ॥
पातितोऽहं तदा तेन गम्भीरे सागराम्भसि।
प्राप्य सञ्ज्ञां चिरात्तात लङ्कां प्रति गतः पुरीम् ॥ 3.38.21 ॥
एवमस्मि तदा मुक्तः सहायास्तु निपातिताः।
अकृतास्त्रेण बालेन रामेणाक्लिष्टर्मणा ॥ 3.38.22 ॥
तन्मया वार्यमाणस्त्वं यदि रामेण विग्रहम्।
करिष्यस्यापदं घोरां क्षिप्रं प्राप्स्यसि रावण ॥ 3.38.23 ॥
क्रीडारतिविधिज्ञानां समाजोत्सवशालिनाम्।
रक्षसां चैव सन्तापमनर्थं चाहरिष्यसि ॥ 3.38.24 ॥
हर्म्यप्रासादसम्बाधां नानारत्नविभूषिताम्।
द्रक्ष्यसि त्वं पुरीं लङ्कां विनष्टां मैथिलीकृते ॥ 3.38.25 ॥
अकुर्वन्तोऽपि पापानि शुचयः पापसंश्रयात्।
परपापैर्विनश्यन्ति मत्स्या नागह्रदे यथा ॥ 3.38.26 ॥
दिव्यचन्द्रनदिग्धाङ्गान् दिव्याभरणभूषितान्।
द्रक्ष्यस्यभिहतान् भूमौ तव दोषात्तु राक्षसान् ॥ 3.38.27 ॥
हृतदारान् सदारांश्च दश विद्रवतो दिशः।
हतशेषानशरणान् द्रक्ष्यसि त्वं निशाचरान् ॥ 3.38.28 ॥
शरजालपरिक्षिप्तामग्निज्वालासमावृताम्।
प्रदग्धभवनां लङ्कां द्रक्ष्यसि त्वं न संशयः ॥ 3.38.29 ॥
परदाराभिमर्शात्तु नान्यत् पापतरं महत्।
प्रमदानां सहस्राणि तव राजन् परिग्रहः ॥ 3.38.30 ॥
भव स्वदारनिरतः स्वकुलं रक्ष राक्षस।
मानमृद्धिं च राज्यं च जीवितं चेष्टमात्मनः ॥ 3.38.31 ॥
कलत्राणि च सौम्यानि मित्रवर्गं तथैव च।
यदीच्छसि चिरं भोक्तुं मा कृथा राम विप्रियम् ॥ 3.38.32 ॥
निवार्यमाणः सुहृदा मया भृशं प्रसह्य सीतां यदि धर्षयिष्यसि।
गमिष्यसि क्षीणबलः सबान्धवो यमक्षयं रामशरात्तजीवितः ॥ 3.38.33 ॥