तच्छ्रुत्वा राक्षसेन्द्रस्य वाक्यं वाक्यविशारदः।
प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम् ॥ 3.37.1 ॥
सुलभाः पुरुषा राजन् सततं प्रियवादिनः।
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ 3.37.2 ॥
न नूनं बुद्ध्यसे रामं महावीर्यं गुणोन्नतम्।
अयुक्तचारश्चपलो महेन्द्रवरुणोपमम् ॥ 3.37.3 ॥
अपि स्वस्ति भवेत्तात सर्वेषां भुवि रक्षसाम्।
अपि रामो न सङ्क्रुद्धः कुर्याल्लोकमराक्षसम् ॥ 3.37.4 ॥
अपि ते जीवितान्ताय नोत्पन्ना जनकात्मजा।
अपि सीतानिमित्तं च न भवेद्व्यसनं मम ॥ 3.37.5 ॥
अपि त्वामीश्वरं प्राप्य कामवृत्तं निरङ्कुशम्।
न विनश्येत् पुरी लङ्का त्वया सह सराक्षसा ॥ 3.37.6 ॥
त्वद्विधः कामवृत्तो हि दुःशीलः पापमन्त्रितः।
आत्मानं स्वजनं राष्ट्रं स राजा हन्ति दुर्मतिः ॥ 3.37.7 ॥
न च पित्रा परित्यक्तो नामर्यादः कथञ्चन।
न लुब्धो न च दुःशीलो न च क्षत्त्रिपांसनः ॥ 3.37.8 ॥
न च धर्मगुणैर्हीनः कौसल्यानन्दिवर्धनः।
न तीक्ष्णो न च भूतानां सर्वेषामहिते रतः ॥ 3.37.9 ॥
वञ्चितं पितरं दृष्ट्वा कैकेय्या सत्यवादिनम्।
करिष्यामीति धर्मात्मा तात प्रव्रजितो वनम् ॥ 3.37.10 ॥
कैकेय्याः प्रियकामार्थं पितुर्दशरथस्य च।
हित्वा राज्यं च भोगांश्च प्रविष्टो दण्डकावनम् ॥ 3.37.11 ॥
न रामः कर्कशस्तात नाविद्वान्नाजितेन्द्रियः।
अनृतं दुःश्रुतं चैव नैव त्वं वक्तुमर्हसि ॥ 3.37.12 ॥
रामो विग्रहवान् धर्मः साधुः सत्यपराक्रमः।
राजा सर्वस्य लोकस्य देवानां मघवानिव ॥ 3.37.13 ॥
कथं त्वं तस्य वैदेहीं रक्षितां स्वेन तेजसा।
इच्छसि प्रसभं हर्तुं प्रभामिव विवस्वतः ॥ 3.37.14 ॥
शरार्चिषमनाधृष्यं चापखड्गेन्धनं रणे।
रामाग्निं सहसा दीप्तं न प्रवेष्टुं त्वमर्हसि ॥ 3.37.15 ॥
धनुर्व्यादितदीप्तास्यं शरार्चिषममर्षणम्।
चापपाशधरं वीरं शत्रुसैन्यप्रहारिणम् ॥ 3.37.16 ॥
राज्यं सुखं च सन्त्यज्य जीवितं चेष्टमात्मनः।
नात्यासादयितुं तात रामान्तकमिहार्हसि ॥ 3.37.17 ॥
अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा।
न त्वं समर्थस्तां हर्तुं रामचापाश्रयां वने ॥ 3.37.18 ॥
तस्य सा नरसिंहस्य सिंहोरस्कस्य भामिनी।
प्राणेभ्योऽपि प्रियतरा भार्या नित्यमनुव्रता ॥ 3.37.19 ॥
न सा धर्षयितुं शक्या मैथिल्योजस्विनः प्रिया।
दीप्तस्येव हुताशस्य शिखा सीता सुमध्यमा ॥ 3.37.20 ॥
किमुद्यममिमं व्यर्थं कृत्वा ते राक्षसाधिप।
दृष्टश्चेत्त्वं रणे तेन तदन्तं तव जीवितम् ॥ 3.37.21 ॥
जीवितं च सुखं चैव राज्यं चैव सुदुर्लभम्।
यदीच्छसि चिरं भोक्तुं मा कृथा रामविप्रियम् ॥ 3.37.22 ॥
स सर्वैः सचिवैः सार्द्धं विभीषणपुरोगमैः।
मन्त्रयित्वा तु धर्मिष्ठैः कृत्वा निश्चयमात्मनः ॥ 3.37.23 ॥
आत्मनश्च बलं ज्ञात्वा राघवस्य च तत्त्वतः।
हिताहितं विनिश्चित्य क्षमं त्वं कर्तुमर्हसि ॥ 3.37.24 ॥
अहं तु मन्ये तव न क्षमं रणे समागमं कोसलराजसूनुना।
इदं हि भूयः शृणु वाक्यमुत्तमं क्षमं च युक्तं च निशाचरेश्वर ॥ 3.37.25 ॥