मारीच श्रूयतां तात वचनं मम भाषतः।
आर्तोऽस्मि मम चार्तस्य भावन् हि परमा गतिः ॥ 3.36.1 ॥
जानीषे त्वं जनस्थाने यथा भ्राता खरो मम।
दूषणश्च महाबाहुः स्वसा शूर्पणखा च मे ॥ 3.36.2 ॥
त्रिशिराश्च महातेजा राक्षसः पिशिताशनः।
अन्ये च बहवः शूरा लब्धलक्षा निशाचराः ॥ 3.36.3 ॥
वसन्ति मन्नियोगेन नित्यवासं च राक्षसाः।
बाधमाना माहरण्ये मुनीन् वै धर्मचारिणः ॥ 3.36.4 ॥
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्।
शूराणां लब्धलक्षाणां खरचित्तानुवर्तिनाम् ॥ 3.36.5 ॥
सङ्गताः परमायत्ता रामेण सह संयुगे।
नानाप्रहरणोपेताः खरप्रमुखराक्षसाः ॥ 3.36.6 ॥
तेन सञ्जातरोषेण रामेण रणमूर्द्धनि।
अनुक्त्वा परुषं किञ्चिच्छरैर्व्यापारितं धनुः ॥ 3.36.7 ॥
चतुर्दश सहस्राणि रक्षसामुग्रतेजसाम्।
निहतानि शरैस्तीक्ष्णैर्मानुषेण पदातिना ॥ 3.36.8 ॥
खरश्च निहतः सङ्ख्ये दूषणश्च निपातितः।
हतश्च त्रिशिराश्चापि निर्भया दण्डकाः कृताः ॥ 3.36.9 ॥
पित्रा निरस्तः क्रुद्धेन सभार्यः क्षीणजीवितः।
स हन्ता तस्य सैन्यस्य रामः क्षत्त्रियपांसनः ॥ 3.36.10 ॥
दुःशीलः कर्कशस्तीक्ष्णो मूर्खो लुब्धोऽजितेन्द्रियः।
त्यक्तधर्मो ह्यधर्मात्मा भूतानामहिते रतः ॥ 3.36.11 ॥
येन वैरं विनारण्ये सत्त्वमाश्रित्य केवलम्।
कर्णनासापहरणाद्भगिनी मे विरुरिता ॥ 3.36.12 ॥
तस्य भार्यां जनस्थानात् सीतां सुरसुतोपमाम्।
आनयिष्यामि विक्रम्य सहायस्तत्र मे भव ॥ 3.36.13 ॥
त्वया ह्यहं सहायेन पार्श्वस्थेन महाबल।
भ्रातृभिश्च सुरान् युद्धे समग्रान्नाभिचिन्तये ॥ 3.36.14 ॥
तत्सहायो भव त्वं मे समर्थो ह्यसि राक्षम।
वीर्ये युद्धे च दर्पे च न ह्यस्ति सदृशस्तव ॥ 3.36.15 ॥
उपायज्ञो महान् शूरः सर्वमायाविशारदः।
एतदर्थमहं प्राप्तस्त्वत्समीपं निशाचर ॥ 3.36.16 ॥
शृणु तत् कर्म साहाय्ये यत्कार्यं वचनान्मम ॥ 3.36.17 ॥
सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः।
आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर ॥ 3.36.18 ॥
त्वां तु निस्संशयं सीता दृष्ट्वा तु मृगरूपिणम्।
गृह्यतामिति भर्तारं लक्ष्मणं चाभिधास्यति ॥ 3.36.19 ॥
ततस्तयोरपाये तु शून्ये सीतां यथासुखम्।
निराबाधो हरिष्यामि राहुश्चन्द्रप्रभामिव ॥ 3.36.20 ॥
ततः पश्चात्सुखं रामे भार्याहरणकर्शिते।
विश्रब्धः प्रहरिष्यामि कृतार्थेनान्तरात्मना ॥ 3.36.21 ॥
तस्य रामकथां श्रुत्वा मारीचस्य महात्मनः।
शष्कं समभवद्वक्त्रं परित्रस्तो बभूव सः ॥ 3.36.22 ॥
ओष्ठौ परिलिहन् शुष्कौ नेत्रैरनिमिषैरिव।
मृतभूत इवार्तस्तु रावणं समुदैक्षत ॥ 3.36.23 ॥
स रावणं त्रस्तविषण्णचेता महावने रामपराक्रमज्ञः।
कृताञ्जलिस्तत्त्वमुवाच वाक्यं हितं च तस्मै हितमात्मनश्च ॥ 3.36.24 ॥