ततः शूर्पणखावाक्यं तच्छ्रुत्वा रोमहर्षणम्।
सचिवानभ्यनुज्ञाय कार्यं बुध्वा जगाम सः ॥ 3.35.1 ॥
तत्कार्यमनुगम्याथ यथावदुपलभ्य च।
दोषाणां च गुणानां च सम्प्रधार्य बलाबलम् ॥ 3.35.2 ॥
इतिकर्तव्यमित्येव कृत्वा निश्चयमात्मनः।
स्थिरबुद्धिस्ततो रम्यां यानशालां जगाम ह ॥ 3.35.3 ॥
यानशालां ततो गत्वा प्रच्छन्नो राक्षसाधिपः।
सूतं सञ्चोदयामास रथः संयोज्यतामिति ॥ 3.35.4 ॥
एवमुक्तः क्षणेनैव सारथिर्लघुविक्रमः।
रथं संयोजयामास तस्याभिमतमुत्तमम् ॥ 3.35.5 ॥
काञ्चनं रथमास्थाय कामगं रत्नभूषितम्।
पिशाचवदनैर्युक्तं खरैः काञ्चनभूषणैः ॥ 3.35.6 ॥
मेघप्रतिमनादेन स तेन धनदामुजः।
राक्षसाधिपतिः श्रीमान् ययौ नदनदीपतिम् ॥ 3.35.7 ॥
स श्वेतवालव्यजनः श्वेतच्छत्त्रो दशाननः।
स्निग्धवैडूर्यसङ्काशस्तप्तकाञ्चनकुण्डलः ॥ 3.35.8 ॥
विंशद्भुजो दशग्रीवो दर्शनीयपरिच्छदः।
त्रिदशारिर्मुनीन्द्रघ्नो दशशीर्ष इवाद्रिराट् ॥ 3.35.9 ॥
कामगं रथमास्थाय शुशुभे राक्षसेश्वरः।
विद्युन्मण्डलवान् मेघः सबलाक इवाम्बरे ॥ 3.35.10 ॥
सशैलं सागरानूपं वीर्यवानवलोकयन्।
नानापुष्पफलैर्वृक्षैरनुकीर्णं सहस्रशः ॥ 3.35.11 ॥
शीतमङ्गलतोयाभिः पद्मिनीभिः समन्ततः।
विशालैराश्रमपदैर्वेदिमद्भिः समावृतम् ॥ 3.35.12 ॥
कदल्याढकिसम्बाधं नालिकेरोपशोभितम्।
सालैस्तालैस्तमालैश्च पुष्पितैस्तरुभिर्वृतम् ॥ 3.35.13 ॥
नागैः सुपर्णैर्गन्धर्वैः किन्नरैश्च सहस्रशः।
अजैर्वैखानसैर्माषैर्वालखिल्यैर्मरीचिपैः ॥ 3.35.14 ॥
अत्यन्तनियताहारैः शोभितं परमर्षिभिः।
जितकामैश्च सिद्धैश्च चारणैरुपशोभितम् ॥ 3.35.15 ॥
दिव्याभरणमाल्याभिर्दिव्यरूपाभिरावृतम्।
क्रीडारतिविधिज्ञाभिरप्सरोभिः सहस्रशः ॥ 3.35.16 ॥
सेवितं देवपत्नीभिः श्रीमतीभिः श्रिया वृतम्।
देवदानवसङ्घैश्च चरितं त्वमृताशिभिः ॥ 3.35.17 ॥
हंसक्रौञ्चप्लवाकीर्णं सारसैः सम्प्रणादितम्।
वैडूर्यप्रस्तरं रम्यं स्निग्धं सागरतेजसा ॥ 3.35.18 ॥
पाण्डराणि विशालानि दिव्यमाल्ययुतानि च।
तूर्यगीताभिजुष्टानि विमानानि समन्ततः ॥ 3.35.19 ॥
तपसा जितलोकानां कामगान्यभिसम्पतन्।
गन्धर्वाप्सरसश्चैव ददर्श धनदानुजः ॥ 3.35.20 ॥
निर्यासरसमूलानां चन्दनानां सहस्रशः।
वनानि पश्यन् सौम्यानि घ्राणतृप्तिकराणि च ॥ 3.35.21 ॥
अगरूणां च मुख्यानां वनान्युपवनानि च।
तक्कोलानां च जात्यनां फलानां च सुगन्धिनाम् ॥ 3.35.22 ॥
पुष्पणि च तमालस्य गुल्मानि मरिचस्य च।
मुक्तानां च समूहानि शुष्यमाणानि तीरतः ॥ 3.35.23 ॥
शङ्खानां प्रस्तरं चैव प्रवालनिचयं तथा।
काञ्चनानि च शैलानि राजतानि च सर्वशः ॥ 3.35.24 ॥
प्रस्रवाणि मनोज्ञानि प्रसन्नानि ह्रदानि च।
धनधान्योपपन्नानि स्त्रीरत्नैः शोभितानि च ॥ 3.35.25 ॥
तं समं सर्वतः स्निग्धं मृदुसंस्पर्शमारुतम्।
अनूपं सिन्धुराजस्य ददर्श त्रिदिवोपमम् ॥ 3.35.26 ॥
तत्रापश्यत्स मेघाभं न्यग्रोधमृषिभिर्वृतम्।
समन्ताद्यस्य ताः शाखाः शतयोजनमायताः ॥ 3.35.27 ॥
यस्य हस्तिनमादाय महाकायं च कच्छपम्।
भक्षार्थं गरुडः शाखामाजगाम महाबलः ॥ 3.35.28 ॥
तस्य तां सहसा शाखां भारेण पतगोत्तमः।
सुपर्णः पर्णबहुलां बभञ्ज च महाबलः ॥ 3.35.29 ॥
तत्र वैखानसा माषा वालखिल्या मरीचिपाः।
अजा बभूवुर्धूम्राश्च सङ्गताः परमर्षयः ॥ 3.35.30 ॥
तेषां दयार्थं गरुडस्तां शाखां शतयोजनाम्।
जगामादाय वेगेन तौ चौभौ गजकच्छपौ ॥ 3.35.31 ॥
एकपादेन धर्मात्मा भक्षयित्वा तदामिषम्।
निषादविषयं हत्वा शाखया पतगोत्तमः ॥ 3.35.32 ॥
प्रहर्षमतुलं लेभे मोक्षयित्वा महामुनीन् ॥ 3.35.33 ॥
स तेनैव प्रहर्षेण द्विगुणीकृतविक्रमः।
अमृतानयनार्थं वै चकार मतिमान् मतिम् ॥ 3.35.34 ॥
अयोजालानि निर्मथ्य भित्त्वा रत्नमयं गृहम्।
महेन्द्रभवनाद्गुप्तमाजहारामृतं ततः ॥ 3.35.35 ॥
तं महर्षिगणैर्जुष्टं सुपर्णकृतलक्षणम्।
नाम्ना सुभद्रं न्यग्रोधं ददर्श धनदानुजः ॥ 3.35.36 ॥
तं तु गत्वा परं पारं समुद्रस्य नदीपतेः।
ददर्शाश्रममेकान्ते रम्ये पुण्ये वनान्तरे ॥ 3.35.37 ॥
तत्र कृष्णाजिनधरं जटावल्कलधारिणम्।
ददर्श नियताहारं मारीचं नाम राक्षसम् ॥ 3.35.38 ॥
स रावणः समागम्य विधिवत्तेन रक्षसा।
मारीचेनार्चितो राजा सर्वकामैरमानुषैः ॥ 3.35.39 ॥
तं स्वयं पूजयित्वा तु भोजनेनोदकेन च।
अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत् ॥ 3.35.40 ॥
कच्चित् सुकुशलं राजन् लङ्कायां राक्षसेश्वर।
केनार्थेन पुनस्त्वं वै तूर्णमेवमिहागतः ॥ 3.35.41 ॥
एवमुक्तो महातेजा मारीचेन स रावणः।
तं तु पश्चादिदं वाक्यमब्रवीद्वाक्यकोविदः ॥ 3.35.42 ॥