ततः शूर्पणखां क्रुद्धां ब्रुवन्तीं परुषं वचः।
अमात्यमध्ये सङ्क्रुद्धः परिपप्रच्छ रावणः ॥ 3.34.1 ॥
कश्च रामः कथंवीर्यः किंरूपः किम्पराक्रमः।
किमर्थं दण्डकारण्यं प्रविष्टः स दुरासदम् ॥ 3.34.2 ॥
आयुधं किञ्च रामस्य निहता येन राक्षसाः।
खरश्च निहतः सङ्ख्ये दूषणस्त्रिशिरास्तथा ॥ 3.34.3 ॥
इत्युक्ता राक्षसेन्द्रेण राक्षसी क्रोधमूर्च्छिता।
ततो रामं यथातत्त्वमाख्यातुमुपचक्रमे ॥ 3.34.4 ॥
दीर्घबाहुर्विशालाक्षश्चीरकृष्णाजिनाम्बरः।
कन्दर्पसमरूपश्च रामो दशरथात्मजः ॥ 3.34.5 ॥
शक्रचापनिभं चापं विकृष्य कनकाङ्गदम्।
दीप्तान् क्षिपति नाराचान् सर्पानिव महाविषान् ॥ 3.34.6 ॥
नाददानं शरान् घोरान्न मुञ्चन्तं शिलीमुखान्।
न कार्मुकं विकर्षन्तं रामं पश्यामि संयुगे ॥ 3.34.7 ॥
हन्यमानं तु तत्सैन्यं पश्यामि शरवृष्टिभिः।
इन्द्रेणोवोत्तमं सस्यमाहतं त्वश्मवृष्टिभिः ॥ 3.34.8 ॥
रक्षसां भीमरूपाणां सहस्राणि चतुर्दश।
निहतानि शरैस्तीक्ष्णैस्तेनैकेन पदातिना ॥ 3.34.9 ॥
अर्धाधिकमुहूर्तेन खरश्च सहदूषणः।
ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः ॥ 3.34.10 ॥
एका कथञ्चिन्मुक्ताहं परिभूय महात्मना।
स्त्रीवधं शङ्कमानेन रामेण विदितात्मना ॥ 3.34.11 ॥
भ्राता चास्य महातेजा गुणतस्तुल्यविक्रमः।
अनुरक्तश्च भक्तश्च लक्ष्मणो नाम वीर्यवान् ॥ 3.34.12 ॥
अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली।
रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः ॥ 3.34.13 ॥
राम्सय तु विशालाक्षी पूर्णेन्दुसदृशानना।
धर्मपत्नी प्रिया भर्तुर्नित्यं प्रियहिते रता ॥ 3.34.14 ॥
सा सुकेशी सुनासोरुः सुरूपा च यशस्विनी।
देवतेव वनस्यास्य राजते श्रीरिवापरा ॥ 3.34.15 ॥
तप्तकाञ्चनवर्णाभा रक्ततुङ्गनखी शुभा।
सीता नाम वरारोहा वैदेही तनुमध्यमा ॥ 3.34.16 ॥
नैव दैवी न गन्धर्वी न यक्षी न च किन्नरी।
नैवंरूपा मया नारी दृष्टपूर्वा महीतले ॥ 3.34.17 ॥
यस्य सीता भवेद्भार्या यं च हृष्टा परिष्वजेत्।
अतिजीवेत् स सर्वेषु लोकेष्वपि पुरन्दरात् ॥ 3.34.18 ॥
सा सुशीला वपुःश्लाध्या रूपेणाप्रतिमा भुवि।
तवानुरूपा भार्या स्यात्त्वं च तस्यास्तथा पतिः ॥ 3.34.19 ॥
भार्यार्थे च तवानेतुमुद्यताहं वराननाम्।
विरूपिताऽस्मि क्रूरेण लक्ष्मणेन महाभुज ॥ 3.34.20 ॥
तां तु दृष्ट्वाद्य वैदेहीं पूर्णचन्द्रनिभाननाम्।
मन्मथस्य शराणां वै त्वं विधेयो भविष्यसि ॥ 3.34.21 ॥
यदि तस्यामभिप्रायो भार्यार्थे तव जायते।
शीघ्रमुद्ध्रियतां पादो जयार्थमिह दक्षिणः ॥ 3.34.22 ॥
कुरु प्रियं तथा तेषां रक्षसां राक्षसेश्वर।
वधात्तस्य नृशंसस्य रामस्याश्रमवासिनः ॥ 3.34.23 ॥
तं शरैर्निशितैर्हत्वा लक्ष्मणं च महारथम्।
हतनाथां सुखं सीतां यथावदुपभोक्ष्यसि ॥ 3.34.24 ॥
रोचते यदि ते वाक्यं ममैतद्राक्षसेश्वर।
क्रियतां निर्विशङ्केन वचनं मम रावण ॥ 3.34.25 ॥
विज्ञायेहात्मशक्तिं च ह्रियतामबला बलात्।
सीता सर्वानवद्याङ्गी भार्यार्थे राक्षसेश्वर ॥ 3.34.26 ॥
निशम्य रामेण शरैरजिह्मगैर्हतान् जनस्थानगतान्निशाचरान्।
खरं च बुध्वा निहतं च दूषणं त्वमत्र कृत्यं प्रतिपत्तुमर्हसि ॥ 3.34.27 ॥