०३३ रावणनिर्भर्त्सनम्

ततः शूर्पणखा दीना रावणं लोकरावणम्।
आमात्यमध्ये सङ्क्रुद्धा परुषं वाक्यमब्रवीत् ॥ 3.33.1 ॥
प्रमत्तः कामभोगेषु स्वैरवृतो निरङ्कुशः।
समुत्पन्नं भयं घोरं बोद्धव्यं नावबुद्ध्यसे ॥ 3.33.2 ॥
सक्तं ग्राम्येषु भोगेषु कामवृत्तं महीपतिम्।
लुब्धं न बहुमन्यन्ते श्मशानाग्निमिव प्रजाः ॥ 3.33.3 ॥
स्वयं कार्याणि यः काले नानुतिष्ठति पार्थिवः।
स तु वै सह राज्येन तैश्च कार्यैर्विनश्यति ॥ 3.33.4 ॥
अयुक्तचारं दुर्दर्शमस्वाधीनं नराधिपम्।
वर्जयन्ति नरा दूरान्नदीपङ्कमिव द्विपाः ॥ 3.33.5 ॥
ये न रक्षन्ति विषयमस्वाधीना नराधिपाः।
ते न वृद्ध्या प्रकाशन्ते गिरयः सागरे यथा ॥ 3.33.6 ॥
आत्मवद्भिर्विगृह्य त्वं देवगन्धर्वदानवैः।
अयुक्तचारश्चपलः कथं राजा भविष्यसि ॥ 3.33.7 ॥
त्वं तु बालस्वभावश्च बुद्धिहीनश्च राक्षस।
ज्ञातव्यं तु न जानीषे कथं रजा भविष्यसि ॥ 3.33.8 ॥
येषां चारश्च कोशश्च नयश्च जयतां वर।
अस्वाधीना नरेन्द्राणां प्राकृतैस्ते जनैः समाः ॥ 3.33.9 ॥
यस्मात् पश्यन्ति दूरस्थान् सर्वानर्थान्नराधिपाः।
चारेण तस्मादुच्यन्ते राजानो दीर्घचक्षुषः ॥ 3.33.10 ॥
अयुक्तचारं मन्ये त्वां प्राकृतैः सचिवैर्वृतम्।
स्वजनं तु जनस्थानं हतं यो नावबिद्ध्यसे ॥ 3.33.11 ॥
चतुर्दश सहस्राणि रक्षसां क्रूरकर्मणाम्।
हतान्येकेन रामेण खरश्च सहदूषणः ॥ 3.33.12 ॥
ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः।
धर्षितं च जनस्थानं रामेणाक्लिष्टकर्मणा ॥ 3.33.13 ॥
त्वं तु लुब्धः प्रमत्तश्च पराधीनश्च रावण।
विषये स्वे समुत्पन्नं भयं यो नावबुद्ध्यसे ॥ 3.33.14 ॥
तीक्ष्णमल्पप्रदातारं प्रमत्तं गर्वितं शठम्।
व्यसने सर्वभूतानि नाभिधावन्ति पार्थिवम् ॥ 3.33.15 ॥
अतिमानिनमग्राह्यमात्मसम्भावितं नरम्।
क्रोधिनं व्यसने हन्ति स्वजनोऽपि महीपतिम् ॥ 3.33.16 ॥
नानुतिष्ठति कार्याणि भयेषु न बिभेति च।
क्षिप्रं राज्याच्च्युतो दीनस्तृणैस्तुल्यो भविष्यति ॥ 3.33.17 ॥
शुष्कैः काष्ठैर्भवेत् कार्यं लोष्ठैरपि च पांसुभिः।
न तु स्थानात् परिभ्रष्टैः कार्यं स्याद्वसुधाधिपैः ॥ 3.33.18 ॥
उपभुक्तं यथा वासस्स्रजो वा मृदिता यथा।
एवं राज्यात् परिभ्रष्टः समर्थोऽपि निरर्थकः ॥ 3.33.19 ॥
अप्रमत्तश्च यो राजा सर्वज्ञो विजितेन्द्रियः।
कृतज्ञो धर्मशीलश्च स राजा तिष्ठते चिरम् ॥ 3.33.20 ॥
नयनाभ्यां प्रसुप्तोपि जागर्ति नयचक्षुषा।
व्यक्तक्रोधप्रसादश्च स राजा पूज्यते जनैः ॥ 3.33.21 ॥
त्वं तु रावण दुर्बुद्धिर्गुणैरेतैर्विवर्जितः।
यस्य तेऽविदितश्चारै रक्षसां समुहान् वधः ॥ 3.33.22 ॥
परावमन्ता विषयेषु सङ्गतो नदेशकालप्रविभागतत्त्ववित्।
अयुक्तबुद्धिर्गुणदोषनिश्चये विपन्नराज्यो न चिराद्विपत्स्यसे ॥ 3.33.23 ॥
इति स्वदोषान् परिकीर्तितांस्तया समीक्ष्य बुद्ध्या क्षणदाचरेश्वरः।
धनेन दर्पेण बलेन चान्वितो विचिन्तयामास चिरं स रावणः ॥ 3.33.24 ॥