ततः शूर्पणखी दृष्ट्वा सहस्राणि चतुर्दश।
हतान्येकेन रामेण रक्षसां भीमकर्मणाम् ॥ 3.32.1 ॥
दूषणं च खरं चैव हतं त्रिशिरसा सह।
दृष्ट्वा पुनर्महानादं ननाद जलदो यथा ॥ 3.32.2 ॥
सा दृष्ट्वा कर्म रामस्य कृतमन्यै सुदुष्करम्।
जगाम परमोद्विग्ना लङ्कां रावणपालिताम् ॥ 3.32.3 ॥
सा ददर्श विमानाग्रे रावणं दीप्ततेजसम्।
उपोपविष्टं सचिवैर्मरुद्भिरिव वासवम् ॥ 3.32.4 ॥
आसीनं सूर्यसङ्काशे काञ्चने परमासने।
रूक्मवेदिगतं प्राज्यं ज्वलन्तमिव पावकम् ॥ 3.32.5 ॥
देवगन्धर्वभूतानामृषीणां च महात्मनाम्।
अजेयं समरे शूरं व्यात्ताननमिवान्तकम् ॥ 3.32.6 ॥
देवासुरविमर्देषु वज्राशनिकृतव्रणम्।
ऐरावतविषाणाग्रैरुद्घृष्टकिणवक्षसम् ॥ 3.32.7 ॥
विंशद्भुजं दशग्रीवं दर्शनीयपरिच्छदम्।
विशालवक्षसं वीरं राजलक्षणशोभितम् ॥ 3.32.8 ॥
स्निग्धवैडूर्यसङ्काशं तप्तकाञ्जनकुण्डलम्।
सुभुजं शुक्लदशनं महास्यं पर्वातोपमम् ॥ 3.32.9 ॥
विष्णुचक्रनिपातैश्च शतशो देवसंयुगे।
अन्यैः शस्त्रप्रहारैश्च महायुद्धेषु ताडितम् ॥ 3.32.10 ॥
आहताङ्गं समस्तैश्च देवप्रहरणैस्तथा।
अक्षोभ्याणां समुद्राणां क्षोभणं क्षिप्रकारिणम् ॥ 3.32.11 ॥
क्षेप्तारं पर्वतेन्द्राणां सुराणां च प्रमर्दनम्।
उच्छेत्तारं च धर्माणां परदाराभिमर्शनम् ॥ 3.32.12 ॥
सर्वदिव्यास्त्रयोक्तारं यज्ञविघ्नकरं सदा।
पुरीं भोगवतीं प्राप्य पराजित्य च वासुकिम् ॥ 3.32.13 ॥
तक्षकस्य प्रित्यां भार्यां पराजित्य जहार यः।
कैलासपर्वतं गत्वा विजित्य नरवाहनम् ॥ 3.32.14 ॥
विमानं पुष्पकं तस्य कामगं वै जहार यः।
वनं चैत्ररथं दिव्यं नलिनीं नन्दनं वनम् ॥ 3.32.15 ॥
विनाशयति यः क्रोधाद्देवोद्यानानि वीर्यावान्।
चन्द्रसूर्यौ महाभागावुत्तिष्ठन्तौ परन्तपौ ॥ 3.32.16 ॥
निवारयति बाहुभ्यां यः शैलशिखरोपमः।
दशवर्षसहस्राणि तपस्तप्त्वा महावने ॥ 3.32.17 ॥
पुरा स्वयम्भुवे धीरः शिरांस्युपजहार यः।
देवदानवगन्धर्वपिशाचपतगोरगैः ॥ 3.32.18 ॥
अभयं यस्य सङ्ग्रमे मृत्युतो मानुषादृते।
मन्त्रैरभिष्टुतं पुण्यमध्वरेषु द्विजातिभिः ॥ 3.32.19 ॥
हविर्धानेषु यः सोममुपहन्ति महाबलः।
आप्तयज्ञहरं क्रूरं ब्रह्मघ्नं दुष्टचारिणम् ॥ 3.32.20 ॥
रावणं सर्वभूतानां सर्वलोकभयावहम्।
राक्षसी भ्रातरं शूरं सा ददर्श महाबलम् ॥ 3.32.21 ॥
तं दिव्यवस्त्राभरणं दिव्यमाल्योपशोभितम्।
आसने सूपविष्टं च कालकालमिवोद्यतम् ॥ 3.32.22 ॥
राक्षसेन्द्रं महाभागं पौलस्त्यकुलनन्दनम्।
रावणं शत्रुहन्तारं मन्त्रिभिः परिवारितम् ॥ 3.32.23 ॥
अभिगम्याब्रवीद्वाक्यं राक्षसी भयविह्वला ॥ 3.32.24 ॥
तमब्रवीद्दीप्तविशाललोचनं प्रदर्शयित्वा भयमोहमूर्च्छिता।
सुदारुणं वाक्यमभीतचारिणी महात्मना शूर्पणखा विरूपिता ॥ 3.32.25 ॥