त्वरमाणस्ततो गत्वा जनस्थानादकम्पनः।
प्रविश्य लङ्कां वेगेने रावणं वाक्यमब्रवीत् ॥ 3.31.1 ॥
जनस्थानस्थिता राजन् राक्षसा बहवो हताः।
खरश्च निहतः सङ्ख्ये कथञ्चिदहमागतः ॥ 3.31.2 ॥
एवमुक्तो दशग्रीवः क्रुद्धः संरक्तलोचनः।
अकम्पनमुवाचेदं निर्दहन्निव चक्षुषा ॥ 3.31.3 ॥
केन रम्यं जनस्थानं हतं मम परासुना।
को हि सर्वेषु लोकेषु गतिं चाधिगमिष्यति ॥ 3.31.4 ॥
न हि मे विप्रियं कृत्वा शक्यं मघवता सुखम्।
प्राप्तुं वैश्रवणेनाऽपि न यमेन न विष्णुना ॥ 3.31.5 ॥
कालस्य चाप्यहं कालो दहेयमपि पावकम्।
मृत्युं मरणधर्मेण संयोजयितुमुत्सहे ॥ 3.31.6 ॥
दहेयमपि सङ्क्रुद्धस्तेजसादित्यपावकौ।
वातस्य तरसा वेगं निहन्तुमहमुत्सहे ॥ 3.31.7 ॥
तथा क्रुद्धं दशग्रीवं कृताञ्जलिरकम्पनः।
भयात् सन्दिग्धया वाचा रावणं याचतेऽभयम् ॥ 3.31.8 ॥
दशग्रीवोऽभयं तस्मै प्रददौ रक्षसां वरः।
स विश्रब्धोऽब्रवीद्वाक्यमसन्दिग्धमकम्पनः ॥ 3.31.9 ॥
पुत्रो दशरथस्याऽस्ति सिंहसंहननो युवा।
रामो नाम वृषस्कन्धो वृत्तायतमहाभुजः ॥ 3.31.10 ॥
वीरः पृथुयशाः श्रीमानतुल्यबलविक्रमः।
हतं तेन जनस्थानं खरश्च सहदूषणः ॥ 3.31.11 ॥
अकम्पनवचः श्रुत्वा रावणो राक्षसाधिपः।
नागेन्द्र इव निःश्वस्य वचनं चेदमब्रवीत् ॥ 3.31.12 ॥
स सुरेन्द्रेण सुंयुक्तो रामः सर्वामरैः सह।
उपयातो जनस्थानं ब्रूहि कच्चिदकम्पन ॥ 3.31.13 ॥
रावणस्य पुनर्वाक्यं निशम्य तदकम्पनः।
आचचक्षे बलं तस्य विक्रमं च महात्मनः ॥ 3.31.14 ॥
रामो नाम महातेजाः श्रेष्ठः सर्वधनुष्मताम्।
दिव्यास्त्रगुणसम्पन्नः पुरन्दरसमो युधि ॥ 3.31.15 ॥
तस्यानुरूपो बलवान् रक्ताक्षो दुन्दुभिस्वनः।
कनीयान् लक्ष्मणो नाम भ्राता शशिनिभाननः ॥ 3.31.16 ॥
स तेन सह संयुक्तः पावकेनानिलो यथा।
श्रीमान् राजवरस्तेन जनस्थानं निपातितम् ॥ 3.31.17 ॥
नैव देवा महात्मानो नात्र कार्या विचारणा ॥ 3.31.18 ॥
शरा रामेण तूत्सृष्टा रुक्मपुङ्खाः पतत्त्रिणः।
सर्पाः पञ्चानना भूत्वा भक्षयन्ति स्म राक्षसान् ॥ 3.31.19 ॥
तेन तेन स्म पश्यन्ति राममेवाग्रतः स्थितम्।
इत्थं विनाशितं तेन जनस्थानं तवानघ ॥ 3.31.20 ॥
अकम्पनवचः श्रुत्वा रावणो वाक्यमब्रवीत्।
जनस्थानं गमिष्यामि हन्तुं रामं सलक्ष्मणम् ॥ 3.31.21 ॥
अथैवमुक्ते वचने प्रोवाचेदमकम्पनः।
शृणु राजन् यथावृत्तं रामस्य बलपौरुषम् ॥ 3.31.22 ॥
असाध्यः कुपितो रामो विक्रमेण महायशाः।
आपगायाः सुपूर्णाया वेगं परिहरेच्छरैः ॥ 3.31.23 ॥
सताराग्रहनक्षत्रं नभश्चाप्यवसादयेत्।
असौ रामस्तु मज्जन्तीं श्रीमानभ्युद्धरेन्महीम् ॥ 3.31.24 ॥
भित्त्वा वेलां समुद्रस्य लोकानाप्लावयेद्विभुः।
वेगं वापि समुद्रस्य वायुं वा विधमेच्छरैः ॥ 3.31.25 ॥
संहृत्य वा पुनर्लोकान् विक्रमेण महायशाः।
शक्तः स पुरुषव्याघ्रः स्रष्टुं पुनरपि प्रजाः ॥ 3.31.26 ॥
न हि रामो दशग्रीव शक्यो चेतुं त्वया युधि।
रक्षसां वापि लोकेन स्वर्गः पापजनैरिव ॥ 3.31.27 ॥
न तं वध्यमहं मन्ये सर्वैर्देवासुरैरपि।
अयं तस्य वधोपायस्तं ममैकमनाः शृणु ॥ 3.31.28 ॥
भार्या तस्योत्तमा लोके सीता नाम सुमध्यमा।
श्यामा समविभक्ताङ्गी स्त्रीरत्नं रत्नभूषिता ॥ 3.31.29 ॥
नैव देवी न गन्धर्वी नाप्सरा नापि दानवी।
तुल्या सीमन्तिनी तस्या मानुषीषु कुतो भवेत् ॥ 3.31.30 ॥
तस्यापहर भार्यां त्वं प्रमथ्य तु महावने।
सीतया रहितः कामी रामो हास्यति जीवितम् ॥ 3.31.31 ॥
अरोचयत तद्वाक्यं रावणो राक्षसाधिपः।
चिन्तयित्वा महाबाहुरकम्पनमुवाच ह ॥ 3.31.32 ॥
बाढं काल्यं गमिष्यामि ह्येकः सारथिना सह।
आनयिष्यामि वैदेहीमिमां हृष्टो महापुरीम् ॥ 3.31.33 ॥
अथैवमुक्त्वा प्रययौ खरयुक्तेन रावणः।
रथेनादित्यवर्णेन दिशः सर्वाः प्रकाशयन् ॥ 3.31.34 ॥
स रथो राक्षसेन्द्रस्य नक्षत्रपथगो महान्।
सञ्चार्यमाणः शुशुभे जलदे चन्द्रमा इव ॥ 3.31.35 ॥
स मारीचाश्रमं प्राप्य ताटकेयमुपागमत्।
मारीचेनार्चितो राजा भक्ष्यभोज्यैरमानुषैः ॥ 3.31.36 ॥
तं स्वयं पूजयित्वा तु आसनेनोदकेन च।
अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत् ॥ 3.31.37 ॥
कच्चित् सुकुशलं राजन् लोकानां राक्षसेश्वर।
आशङ्के नाथ जाने त्वं यतस्तूर्णमिहागतः ॥ 3.31.38 ॥
एवमुक्तो महातेजा मारीचेन स रावणः।
ततः पश्चादिदं वाक्यमब्रवीद्वाक्यकोविदः ॥ 3.31.39 ॥
जनस्थानमवध्यं तत् सर्वं युधि निपातितम्।
तस्य मे कुरु साचिव्यं तस्य भार्यापहारणे ॥ 3.31.40 ॥
राक्षसेन्द्रवचः श्रुत्वा मारीचो वाक्यमब्रवीत् ॥ 3.31.41 ॥
त्वया राक्षसशार्दूल को न नन्दति निन्दितः।
सीतामिहानयस्वेति को ब्रवीति ब्रवीहि मे ॥ 3.31.42 ॥
रक्षोलोकस्य सर्वस्य कः शृङ्गं छेत्तुमिच्छति।
प्रोत्साहयति कश्चित्त्वां स हि शत्रुरसंशयः ॥ 3.31.43 ॥
आशीविषमुखाद्दंष्ट्रामुद्धुर्तुं चेच्छति त्वया।
कर्मणा तेन केनाऽसि कापथं प्रतिपादितः ॥ 3.31.44 ॥
सुखसुप्तस्य ते राजन् प्रहृतं केन मूर्धनि ॥ 3.31.45 ॥
विशुद्धवंशाभिजनाग्रहस्तस्तेजोमदः संस्थितदोर्विषाणः।
उदीक्षितुं रावण नेह युक्तः स संयुगे राघवगन्धहस्ती ॥ 3.31.46 ॥
असौ रणान्तस्थितिसन्धिवालो विदग्धरक्षोमृगहा नृसिंहः।
सुप्तस्त्वया बोधयितुं न युक्तः शराङ्गपूर्णो निशितासिदंष्ट्रः ॥ 3.31.47 ॥
चापावहारे भुजवेगपङ्के शरोर्मिमाले सुमहाहवौघे।
न रामपातालमुखेऽतिघोरे प्रस्कन्दितुं राक्षसराज युक्तम् ॥ 3.31.48 ॥
प्रसीद लङ्केश्वर राक्षसेन्द्र लङ्कां प्रसन्नो भव साधु गच्छ।
त्वं स्वेषु दारेषु रमस्व नित्यं रामः सभार्यो रमतां वनेषु ॥ 3.31.49 ॥
एवमुक्तो दशग्रीवो मारीचेन स रावणः।
न्यवर्तत पुरीं लङ्कां विवेश च गृहोत्तमम् ॥ 3.31.50 ॥