०३० खरवधः

भित्त्वा तु तां गदां बाणै राघवो धर्मवत्सलः।
स्मयमानः खरं वाक्यं संरब्धमिदमब्रवीत् ॥ 3.30.1 ॥
एतत्ते बलसर्वस्वं दर्शितं राक्षसाधम।
शक्तिहीनतरो मत्तो वृथा त्वमवगर्जसि ॥ 3.30.2 ॥
एषा बाणविनिर्भिन्ना गदा भूमितलं गता।
अभिधानप्रगल्भस्य तव प्रत्यरिघातिनी ॥ 3.30.3 ॥
यत्त्वयोक्तं विनष्टानामहमश्रुप्रमार्जनम्।
राक्षसानां करोमीति मिथ्या तदपि ते वचः ॥ 3.30.4 ॥
नीचस्य क्षुद्रशीलस्य मिथ्यावृत्तस्य रक्षसः।
प्राणानपहरिष्यामि गरुत्मानमृतं यथा ॥ 3.30.5 ॥
अद्य ते छिन्नकण्ठस्य फेनबुद्बुदभूषितम्।
विदारितस्य मद्बाणैर्मही पास्यति शोणितम् ॥ 3.30.6 ॥
पांसुरूषितसर्वाङ्गः स्रस्तन्यस्तभुजद्वयः।
स्वप्स्यसे गां समालिङ्ग्य दुर्लभां प्रमदामिव ॥ 3.30.7 ॥
प्रवृद्धनिद्रे शयिते त्वयि राशक्षसपांसने।
भविष्यन्त्यशरण्यानां शरण्या दण्डका इमे ॥ 3.30.8 ॥
जनस्थाने हतस्थाने तव राक्षस मच्छरैः।
निर्भया विचरिष्यन्ति सर्वतो मुनयो वने ॥ 3.30.9 ॥
अद्य विप्रसरिष्यन्ति राक्षस्यो हतबान्धवाः।
बाष्पार्द्रवदना दीना भयादन्यभयावहाः ॥ 3.30.10 ॥
अद्य शोकरसज्ञास्ता भविष्यन्ति निरर्थकाः।
अनुरूपकुलाः पत्न्यो यासां त्वं पतिरीदृशः ॥ 3.30.11 ॥
नृशंस नीच क्षुद्रात्मन्नित्यं ब्राह्मणकण्टक।
यत्कृते शङ्कितैरर्ग्नौ मुनिभिः पात्यते हविः ॥ 3.30.12 ॥
तमेवमभिसंरब्धं ब्रुवाणं राघवं रणे।
खरो निर्भर्त्सयामास रोषात्खरतरस्वनः ॥ 3.30.13 ॥
दृढं खल्ववलिप्तोऽसि भयेष्वपि च निर्भयः।
वाच्यावाच्यं ततो हि त्वं मृत्युवश्यो न बुद्ध्यसे ॥ 3.30.14 ॥
कालपाशपरिक्षिप्ता भवन्ति पुरुषा हि ये।
कार्याकार्यं न जानन्ति ते निरस्तषडिन्द्रियाः ॥ 3.30.15 ॥
स ददर्श महासालमविदूरे निशाचरः।
रणे प्रहरणस्यार्थे सर्वतो ह्यवलोकयन् ॥ 3.30.16 ॥
स तमुत्पाटयामास सन्दश्य दशनच्छदम्।
तं समुत्क्षिप्य बाहुभ्यां विनद्य च महाबलः ॥ 3.30.17 ॥
राममुद्दिश्य चिक्षेप हतस्त्वमिति चाब्रवीत् ॥ 3.30.18 ॥
तमापतन्तं बाणौघैश्छित्त्वा रामः प्रतापवान्।
रोषमाहारयत्तीव्रं निहन्तुं समरे खरम् ॥ 3.30.19 ॥
जातस्वेदस्ततो रामो रोषाद्रक्तान्तलोचनः।
निर्बिभेद सहस्रेण बाणानां समरे खरम् ॥ 3.30.20 ॥
तस्य बाणान्तराद्रक्तं बहु सुस्राव फेनिलम्।
गिरेः प्रस्रवणस्येव तोयधारावरिस्रवः ॥ 3.30.21 ॥
विह्वलः स कृतो बाणैः खरो रामेण संयुगे।
मत्तो रुधिरगन्धेन तमेवाभ्यद्रवद्द्रुतम् ॥ 3.30.22 ॥
तमापतन्तं संरब्धं कृतास्त्रो रुधिराप्लुतम्।
अपासर्पत् प्रतिपदं किञ्चित्त्वरितविक्रमः ॥ 3.30.23 ॥
ततः पावकसङ्काशं वधाय समरे शरम्।
खरस्य रामो जग्राह ब्रह्मदण्डमिवापरम् ॥ 3.30.24 ॥
स तं दत्तं मघवता सुरराजेन धीमता।
सन्दधे चापि धर्मात्मा मुमोच च खरं प्रति ॥ 3.30.25 ॥
स विमुक्तो महाबाणो निर्घातसमनिस्वनः।
रामेण धनुरायम्य खरस्योरसि चापतत् ॥ 3.30.26 ॥
स पपात खऱो भूमौ दह्यमानः शराग्निना।
रुद्रेणेव विनिर्दग्धः श्वेतारण्ये यथान्तकः ॥ 3.30.27 ॥
स वृत्र इव वज्रेण फेनेन नमुचिर्यथा।
बलो वेन्द्राशनिहतो निपपात हतः खरः ॥ 3.30.28 ॥
ततो राजर्षयः सर्वे सङ्गताः परमर्षयः।
सभाज्य मुदिता राममिदं वचनमब्रुवन् ॥ 3.30.29 ॥
एतदर्थं महातेजा महेन्द्रः पाकशासनः।
शरभङ्गाश्रमं पुण्यमाजगाम पुरन्दरः ॥ 3.30.30 ॥
आनीतस्त्वमिमं देशमुपायेन महर्षिभिः।
एषां वधार्थं क्रूराणां रक्षसां पापकर्मणाम् ॥ 3.30.31 ॥
तदिदं नः कृतं कार्यं त्वया दशरथात्मज।
सुखं धर्मं चरिष्यन्ति दण्डकेषु महर्षयः ॥ 3.30.32 ॥
दुन्दुभींश्चाभिनिघ्नन्तः पुष्पवर्षं समन्ततः।
रामस्योपरि संहृष्टा ववृषुर्विस्मितास्तदा ॥ 3.30.33 ॥
अर्धाधिकमुहूर्तेन रामेण निशितैः शरैः।
चतुर्दशसहस्राणिरक्षसां भीमकर्मणाम् ॥ 3.30.34 ॥
खरदूषणमुख्यानां निहतानि महाहवे।
अहो बत महत् कर्म रामस्य विदितात्मनः ॥ 3.30.35 ॥
अहो वीर्यमहो दाक्ष्यं विष्णोरिव हि दृश्यते।
इत्येवमुक्त्वा ते सर्वे ययुर्देवा यथागतम् ॥ 3.30.36 ॥
एतस्मिन्नन्तरे वीरो लक्ष्मणः सह सीतया।
गिरिदुर्गाद्विनिष्क्रम्य संविवेशाश्रमं सुखी ॥ 3.30.37 ॥
ततो रामस्तु विजयीपूज्यमानो महर्षिभिः।
प्रविवेशाश्रमं वीरो लक्ष्मणेनाभिपूजितः ॥ 3.30.38 ॥
तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम्।
बभूव हृष्टा वैदेही भर्तारं परिषस्वजे ॥ 3.30.39 ॥
मुदा परमया युक्ता दृष्ट्वा रक्षोगणान् हतान्।
रामं चैवाव्यथं दृष्ट्वा तुतोष जनकात्मजा ॥ 3.30.40 ॥
ततस्तु तं राक्षससङ्घमर्दनं सभाज्यमानं मुदितैर्महर्षिभिः।
पुनः परिष्वज्य शशिप्रभानना बभूव हृष्टा जनकात्मजा तदा ॥ 3.30.41 ॥