खरं तु विरथं रामो गदापाणिमवस्थितम्।
मृदुपूर्वं महातेजाः परुषं वाक्यमब्रवीत् ॥ 3.29.1 ॥
गजाश्वरथसम्बाधे बले महति तिष्ठता।
कृतं सुदारुणं कर्म सर्वलोकजुगुप्सितम् ॥ 3.29.2 ॥
उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत्।
त्रयाणामपि लोकानामीश्वरोऽपि न तिष्ठति ॥ 3.29.3 ॥
कर्म लोकविरुद्धं तु कुर्वाणं क्षणदाचर।
तीक्ष्णं सर्वजनो हन्ति सर्पं दुष्टमिवागतम् ॥ 3.29.4 ॥
लोभात् पापानि कुर्वाणः कामाद्वा यो न बुध्यते।
भ्रष्टः पश्यति तस्यान्तं ब्राह्मणी करकादिव ॥ 3.29.5 ॥
वसतो दण्डकारण्ये तापसान् धर्मचारिणः।
किन्नु हत्वा महाभागान् फलं प्राप्स्यसि राक्षस ॥ 3.29.6 ॥
न चिरं पापकर्माणः क्रूरा लोकजुगुप्सिताः।
ऐश्वर्यं प्राप्य तिष्ठन्ति शीर्णमूला इव द्रुमाः ॥ 3.29.7 ॥
अवश्यं लभते जन्तुः फलं पापस्य कर्मणः।
घोरं पर्यागते काले द्रुमाः पुष्पमिवार्तवम् ॥ 3.29.8 ॥
नचिरात् प्राप्यते लोके पापानां कर्मणां फलम्।
सविषाणामिवान्नानां भुक्तानां क्षणदाचर ॥ 3.29.9 ॥
पापमाचरतां घोरं लोकस्याप्रियमिच्छताम्।
अहमासादितो राज्ञा प्राणान् हन्तु निशाचर ॥ 3.29.10 ॥
अद्य हि त्वां मया मुक्ताः शराः काञ्चनभूषणाः।
विदार्य निपतिष्यन्ति वल्मीकमिव पन्नगाः ॥ 3.29.11 ॥
ये त्वया दण्डकारण्ये भक्षिता धर्मचारिणः।
तानद्य निहतः सङ्ख्ये ससैन्योऽनुगमिष्यसि ॥ 3.29.12 ॥
अद्य त्वां पतितं बाणैः पश्यन्तु परमर्षयः।
निरयस्थं विमानस्था ये त्वया हिंसिताः पुरा ॥ 3.29.13 ॥
प्रहर त्वं यथाकामं कुरु यत्नं कुलाधम।
अद्य ते पातयिष्यामि शिरस्तालफलं यथा ॥ 3.29.14 ॥
एवमुक्तस्तु रामेण क्रुद्धः संरक्तलोचनः।
प्रत्युवाच खरो रामं प्रहसन् क्रोधमूर्च्छितः ॥ 3.29.15 ॥
प्राकृतान् राक्षसान् हत्वा युद्धे दशरथात्मज।
आत्मना कथमात्मानमप्रशस्यं प्रशंससि ॥ 3.29.16 ॥
विक्रान्ता बलवन्तो वा ये भवन्ति नरर्षभाः।
कथयन्ति न ते किञ्चित्तेजसा स्वेन गर्विताः ॥ 3.29.17 ॥
प्राकृतास्त्वकृतात्मानो लोके क्षत्त्रियपांसनाः।
निरर्थकं विकत्थन्ते यथा राम विकत्थसे ॥ 3.29.18 ॥
कुलं व्यपदिशन् वीरः समरे कोऽभिधास्यति।
मृत्युकाले हि सम्प्राप्ते स्वयमप्रस्तवे स्तवम् ॥ 3.29.19 ॥
सर्वथैव लघुत्वं ते कत्थनेन विदर्शितम्।
सुवर्णप्रतिरूपेण तप्तेनेव कुशाग्निना ॥ 3.29.20 ॥
न तु मामिह तिष्ठन्तं पश्यसि त्वं गदाधरम्।
धराधरमिवाकम्प्यं पर्वतं धातुभिश्चितम् ॥ 3.29.21 ॥
पर्याप्तोऽहं गदापाणिर्हन्तुं प्राणान् रणे तव।
त्रयाणामपि लोकानां पाशहस्त इवान्तकः ॥ 3.29.22 ॥
कामं बह्वपि वक्तव्यं त्वयि वक्ष्यामि न त्वहम्।
अस्तं गच्छेद्धि सविता युद्धविघ्नस्ततो भवेत् ॥ 3.29.23 ॥
चतुर्दश सहस्त्राणि राक्षसानां हतानि ते।
त्वद्विनाशात् करोम्येष तेषामश्रुप्रमार्जनम् ॥ 3.29.24 ॥
इत्युक्त्वा परमक्रुद्धस्तां गदां परमाङ्गदः।
खरश्चिक्षेप रामाय प्रदीप्तामशनिं यथा ॥ 3.29.25 ॥
खरबाहुप्रमुक्ता सा प्रदीप्ता महती गदा।
भस्म वृक्षांश्च गुल्मांश्च कृत्वागात्तत्समीपतः ॥ 3.29.26 ॥
तामापतन्तीं ज्वलितां मृत्युपाशोपमां गदाम्।
अन्तरिक्षगतां रामश्चिच्छेद बहुधा शरैः ॥ 3.29.27 ॥
सा विकीर्णा शरैर्भग्ना पपात धरणीतले।
गदा मन्त्रौषधबलैर्व्यालीव विनिपातिता ॥ 3.29.28 ॥