निहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह।
खरस्याप्यभवत् त्रासो दृष्ट्वा रामस्य विक्रमम् ॥ 3.28.1 ॥
स दृष्ट्वा राक्षसं सैन्यमविषह्यं महाबलः।
हतमेकेन रामेण त्रिशिरोदूषणावपि ॥ 3.28.2 ॥
तद्बलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः।
आससाद खरो रामं नमुचिर्वासवं यथा ॥ 3.28.3 ॥
विकृष्य बलवच्चापं नाराचान् रक्तभोजनान्।
खरश्चिक्षेप रामाय क्रुद्धानाशीविषानिव ॥ 3.28.4 ॥
ज्यां विधून्वन् सुबहुशः शिक्षयास्त्राणि दर्शयन्।
चकार समरे मार्गान् शरै रथगतः खरः ॥ 3.28.5 ॥
स सर्वाश्च दिशो बाणैः प्रदिशश्च महारथः।
पूरयामास तं दृष्ट्वा रामोऽपि सुमहद्धनुः ॥ 3.28.6 ॥
स सायकैर्दुर्विषहैः सस्फुलिङ्गैरिवाग्निभिः।
नभश्चकाराविवरं पर्जन्य इव वृष्टिभिः ॥ 3.28.7 ॥
तद्बभूव शितैर्बाणैः खररामविसर्जितैः।
पर्याकाशमनाकाशं सर्वतः शरसङ्कुलम् ॥ 3.28.8 ॥
शरजालावृतः सूर्यो न तदा स्म प्रकाशते।
अन्योन्यवधसंरम्भादुभयोः सम्प्रयुद्ध्यतोः ॥ 3.28.9 ॥
ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः।
आजघान खरो रामं तौत्रैरिव महाद्विपम् ॥ 3.28.10 ॥
तं रथस्थं धनुष्पाणिं राक्षसं पर्यवस्थितम्।
ददृशुः सर्वभूतानि पाशहस्तमिवान्तकम् ॥ 3.28.11 ॥
हन्तारं सर्वसैन्यस्य पौरुषे पर्यवस्थितम्।
परिश्रान्तं महासत्त्वं मेने रामं खरस्तदा ॥ 3.28.12 ॥
तं सिंहमिव विक्रान्तं सिंहविक्रान्तगामिनम्।
दृष्टवा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा ॥ 3.28.13 ॥
ततः सूर्यनिकाशेन रथेन महता खरः।
आससाद रणे रामं पतङ्ग इव पावकम् ॥ 3.28.14 ॥
ततोऽस्य सशरं चापं मुष्टिदेशे महात्मनः।
खरश्चिच्छेद रामस्य दर्शयन् पाणिलाघवम् ॥ 3.28.15 ॥
स पुनस्त्वपरान् सप्त शरानादाय वर्मणि।
निजघान खरः क्रुद्धः शक्राशनिसमप्रभान् ॥ 3.28.16 ॥
ततस्तत्प्रहतं बाणैः खरमुक्तैः सुपर्वभिः।
पपात कवचं भूमौ रामस्यादित्यवर्चसः ॥ 3.28.17 ॥
ततः शरसहस्रेण राममप्रितमौजसम्।
अर्दयित्वा महानादं ननाद समरे खरः ॥ 3.28.18 ॥
स शरैरर्पितः क्रुद्धः सर्वगात्रेषु राघवः।
रराज समरे रामो विधूमोऽग्निरिव ज्वलन् ॥ 3.28.19 ॥
ततो गम्भीरनिर्ह्रादं रामः शत्रुनिबर्हणः।
चकारान्ताय स रिपोः सज्यमन्यन्महद्धनुः ॥ 3.28.20 ॥
सुमहद्वैष्णवं यत्तदतिसृष्टं महर्षिणा।
वरं तद्धनुरुद्यम्य खरं समभिधावत ॥ 3.28.21 ॥
ततः कनकपुङ्खैस्तु शरैः सन्नतपर्वभिः।
बिभेद रामः सङ्क्रुद्धः खरस्य समरे ध्वजम् ॥ 3.28.22 ॥
स दर्शनीयो बहुधा विकीर्णः काञ्चनध्वजः।
जगाम धरणीं सूर्यो देवतानामिवाज्ञया ॥ 3.28.23 ॥
तं चतुर्भिः खरः क्रद्धो रामं गात्रेषु मार्गणैः।
विव्याध युधि मर्मज्ञो मातङ्गमिव तोमरैः ॥ 3.28.24 ॥
स रामो बहुभिर्बाणैः खरकार्मुकनिस्सृतैः।
विद्धो रुधिरसिक्ताङ्गो बभूव रुषितो भृशम् ॥ 3.28.25 ॥
स धनुर्धन्विनां श्रेष्ठः प्रगृह्य परमाहवे।
मुमोच परमेष्वासः षट् शरानभिलक्षितान् ॥ 3.28.26 ॥
शिरस्येकेन बाणेन द्वाभ्यां बाह्वोरथार्दयत्।
त्रिभिश्चन्द्रार्धवक्त्रैश्च वक्ष्यस्यभिजघान ह ॥ 3.28.27 ॥
ततः पश्चान्महातेजा नाराचान् भास्करोपमान्।
जिघांसू राक्षसं क्रुद्धस्त्रयोदश समाददे ॥ 3.28.28 ॥
ततोऽस्य युगमेकेन चतुर्भिश्चतुरो हयान्।
षष्ठेन तु शिरः सङ्ख्ये खरस्य रथसारथेः ॥ 3.28.29 ॥
त्रिभिस्त्रिवेणुं बलवान् द्वाभ्यामक्षं महाबलः।
द्वादशेन तु बाणेन खरस्य सशरं धनुः ॥ 3.28.30 ॥
छित्त्वा वज्रनिकाशेन राघवः प्रहसन्निव।
त्रयोदशेनेन्द्रसमो बिभेद समरे खरम् ॥ 3.28.31 ॥
प्रभग्नधन्वा विरथो हताश्वो हतसारथिः।
गदापाणिरवप्लुत्य तस्थौ भूमौ खरस्तदा ॥ 3.28.32 ॥
तत्कर्म रामस्य महारथस्य समेत्य देवाश्च महर्षयश्च।
अपूजयन् प्राञ्जलयः प्रहृष्टास्तदा विमानाग्रगताः समेताः ॥ 3.28.33 ॥