खरं तु रामाभिमुखं प्रयान्तं वाहिनीपतिः।
राक्षसस्त्रिशिरा नाम सन्निपत्येदमब्रवीत् ॥ 3.27.1 ॥
मां नियोजय विक्रान्त सन्निवर्तस्व साहसात्।
पश्य रामं महाबाहुं संयुगे विनिपातितम् ॥ 3.27.2 ॥
प्रतिजानामि ते सत्यमायुधं चाहमालभे।
यथा रामं वधिष्यामि वधार्हं सर्वरक्षसाम् ॥ 3.27.3 ॥
अहं वास्य रणे मृत्युरेष वा समरे मम।
विनिवृत्य रणोत्साहान्मुहूर्तं प्राश्निको भव ॥ 3.27.4 ॥
प्रहृष्टे वा हते रामे जनस्थानं प्रयास्यसि।
मयि वा निहते रामं संयुगायोपयास्यसि ॥ 3.27.5 ॥
खरस्त्रिशिरसा तेन मृत्युलोभात्प्रसादितः।
गच्छ युद्ध्येत्यनुज्ञातो राघवाभिमुखो ययौ ॥ 3.27.6 ॥
त्रिशिराश्च रथेनैव वाजियुक्तेन भास्वता।
अभ्यद्रवद्रणे रामं त्रिशृङ्ग इव पवर्तः ॥ 3.27.7 ॥
शरधारासमूहान् स महामेघ इवोत्सृजन्।
व्यसृजत्सदृशं नादं जलार्द्रस्य तु दुन्दुभेः ॥ 3.27.8 ॥
आगच्छन्तं त्रिशिरसं राक्षसं प्रेक्ष्य राघवः।
धनुषा प्रतिजग्राह विधून्वन् सायकान् शितान् ॥ 3.27.9 ॥
स सम्प्रहारस्तुमुलो रामत्रिशिरसोर्महान्।
बभूवातीव बलिनोः सिंहकुञ्जरयोरिव ॥ 3.27.10 ॥
ततस्त्रिशिरसा बाणैर्ललाटे ताडितस्त्रिभिः।
अमर्षी कुपुतो रामः संरब्धमिदमब्रवीत् ॥ 3.27.11 ॥
अहो विक्रमशूरस्य राक्षसस्येदृशं बलम्।
पुष्पैरिव शरैर्यस्य ललाटेऽस्मि परिक्षतः ॥ 3.27.12 ॥
एवमुक्त्वा तु संरब्धः शरानाशीविषोपमान्।
त्रिशिरोवक्षसि क्रुद्धो निजघान चतुर्दश ॥ 3.27.13 ॥
चतुर्भिस्तुरगानस्य शरैः सन्नतपर्वभिः।
न्यपातयत तेजस्वी चतुरस्तस्य वाजिनः ॥ 3.27.14 ॥
अष्टभिः सायकैः सूतं रथोपस्थे न्यपातयत्।
रामश्चिच्छेद बाणेन ध्वजं चास्य समुच्छ्रितम् ॥ 3.27.15 ॥
ततो हतरथात्तस्मादुत्पतन्तं निशाचरम्।
बिभेद रामस्तं बाणैर्हृदये सोऽभवज्जडः ॥ 3.27.16 ॥
सायकैश्चाप्रमेयात्मा सामर्षस्तस्य रक्षसः।
शिरांस्यपातयद्रामो वेगवद्भिस्त्रिभिः शितैः ॥ 3.27.17 ॥
स भूमौ रुधिरोद्गारी रामबाणाभिपीडितः।
न्यपतत् पतितैः पूर्वं स्वशिरोभिर्निशाचरः ॥ 3.27.18 ॥
हतशेषास्ततो भग्ना राक्षसाः खरसंश्रयाः।
द्रवन्ति स्म न तिष्ठन्ति व्याघ्रत्रस्ता मृगा इव ॥ 3.27.19 ॥
तान् खरो द्रवतो दृष्ट्वा निवर्त्य रुषितः स्वयम्।
राममेवाभिदुद्राव राहुश्चन्द्रमसं यथा ॥ 3.27.20 ॥