०२६ दूषणवधः

सन्दिदेश महाबाहुर्भीमवेगान् दुरासदान्।
राक्षसान् पञ्च साहस्रान् समरेष्वनिवर्तिनः ॥ 3.26.1 ॥
ते शूलैः पट्टिशै खङ्गैः शिलावर्षेर्द्रुमैरपि।
शरवर्षैरविच्छिन्नं ववृषुस्तं समन्ततः ॥ 3.26.2 ॥
स द्रुमाणां शिलानां च वर्षं प्राणहरं महत्।
प्रतिजग्राह धर्मात्मा राघवस्तीक्ष्णसायकैः ॥ 3.26.3 ॥
प्रतिगृह्य च तद्वर्षं निमीलित इवर्षभः।
रामः क्रोधं परं भेजे वधार्थं सर्वरक्षसाम् ॥ 3.26.4 ॥
ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसा।
शरैरवाकिरत्सैन्यं सर्वतः सहदूषणम् ॥ 3.26.5 ॥
ततः सेनापतिः क्रुद्धो दूषणः शत्रुदूषणः।
शरैरशनिकल्पैस्तं राघवं समवाकिरत् ॥ 3.26.6 ॥
ततो रामः सुसङ्क्रुद्धः क्षुरेणास्य महद्धनुः।
चिच्छेद समरे वीरश्चतुर्भिश्चतुरो हयान् ॥ 3.26.7 ॥
हत्वा चाश्वन् शरैस्तीक्ष्णैरर्धचन्द्रेण सारथेः।
शिरो जहार तद्रक्षस्रिभिर्विव्याध वक्षसि ॥ 3.26.8 ॥
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः।
जग्राह गिरिशृङ्गाभं परिघं रोमहर्षणम् ॥ 3.26.9 ॥
वेष्टितं काञ्चनैः पट्टैर्देवसैन्यप्रमर्दनम्।
आयसैः शङ्कुभिस्तीक्ष्णैः कीर्णं परवसोक्षितम् ॥ 3.26.10 ॥
वज्राशनिसमस्पर्शं परगोपुरदारणम् ॥ 3.26.11 ॥
तं महोरगसङ्काशं प्रगृह्य परिघं रणे।
दूषणोभ्यद्रवद्राम्मं क्रूरकर्मा निशाचरः ॥ 3.26.12 ॥
तस्याभिपतमानस्य दूषणस्य स राघवः।
द्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ ॥ 3.26.13 ॥
भ्रष्टस्तस्य महाकायः पपात रणमूर्द्धिनि।
परिघश्छिन्नहस्तस्य शक्रध्वज इवाग्रतः ॥ 3.26.14 ॥
स कराभ्यां विकीर्णाभ्यां पपात भुवि दूषणः।
विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागजः ॥ 3.26.15 ॥
तं दृष्ट्वा पतितं भूमौ दूषणं निहतं रणे।
साधुसाध्विति काकुत्स्थं सर्वभूतान्यपूजयन् ॥ 3.26.16 ॥
एतस्मिन्नन्तरे क्रुद्धास्त्रयः सेनाग्रयायिनः।
संहत्याभ्यद्रवन् रामं मृत्युपाशावपाशिताः ॥ 3.26.17 ॥
महाकपालो विपुलं शूलमुद्यम्य राक्षसः।
स्थूलाक्षः पट्टिशं गृह्य प्रमाथी च परश्वधम् ॥ 3.26.18 ॥
दृष्ट्वैवापततस्तूर्णं राघवः सायकैः शितैः।
तीक्ष्णाग्रैः प्रतिजग्राह सम्प्राप्तानतिथीनिव ॥ 3.26.19 ॥
महाकपालस्य शिरश्चिच्छेद परमेषुभिः।
असङ्ख्येयैस्तु बाणौघैः प्रममाथ प्रमाथिनम् ॥ 3.26.20 ॥
स पपात हतो भूमौ विटपीव महाद्रुमः।
स्थूलाक्षस्याक्षिणी तीक्ष्णैः पूरयामास सायकैः ॥ 3.26.21 ॥
दूषणस्यानुगान् पञ्चसाहस्रान् कुपितः क्षणात्।
बाणौघैः पञ्चसाहस्रैरनयद्यमसादनम् ॥ 3.26.22 ॥
दूषणं निहतं दृष्ट्वा तस्य चैव पदानुगान्।
व्यदिदेश खरः क्रुद्धः सेनाध्यक्षान् महाबलान् ॥ 3.26.23 ॥
अयं विनिहतः सङ्ख्ये दूषणः सपदानुगः।
महत्या सेनया सार्धं युध्वा रामं कुमानुषम् ॥ 3.26.24 ॥
शस्त्रैर्नानाविधाकारैर्हनध्वं सर्वराक्षसाः।
एवमुक्त्वा खरः क्रुद्धो राममेवाभिदुद्रुवे ॥ 3.26.25 ॥
श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहङ्गमः।
दुर्जयः करवीराक्षः परुषः कालकार्मुकः ॥ 3.26.26 ॥
मेघमाली महामाली सर्पास्यो रुधिराशनः।
द्वादशैते महावीर्या बलाध्यक्षाः ससैनिकाः ॥ 3.26.27 ॥
राममेवाभ्यवर्तन्त विसृजन्तः शरोत्तमान् ॥ 3.26.28 ॥
ततः पावक सङ्काशैर्हेमवज्रविभूषितैः।
जघान शेषं तेजस्वी तस्य सैन्यस्य सायकैः ॥ 3.26.29 ॥
ते रुक्मपुङ्खा विशिखाः सधूमा इव पावकाः।
निजध्नुस्तानि रक्षांसि वज्रा इव महाद्रुमान् ॥ 3.26.30 ॥
रक्षसां तु शतं रामः शतेनैकेन कर्णिना।
सहस्रं च सहस्रेण जघान रणमूर्धनि ॥ 3.26.31 ॥
तैर्भिन्नवर्माभरणाश्छिन्नभिन्नशरासनाः।
निपेतुः शोणितादिग्धा धरण्यां रजनीचराः ॥ 3.26.32 ॥
तैर्मुक्तकेशैः समरे पतितैः शोणितोक्षितैः।
आस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैरिव ॥ 3.26.33 ॥
क्षणेन तु महाघोरं वनं निहतराक्षसम्।
बभूव निरयप्रख्यं मांसशोणितकर्दमम् ॥ 3.26.34 ॥
चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम्।
हतान्येकेन रामेण मानुषेण पदातिना ॥ 3.26.35 ॥
तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः।
राक्षसस्त्रिशिराश्चैव रामश्च रिपुसूदनः ॥ 3.26.36 ॥
शेषा हता महासत्त्वा राक्षसा रणमूर्धनि।
घोरा दुर्विषहाः सर्वे लक्ष्मणस्याग्रजेन ते ॥ 3.26.37 ॥
ततस्तु तद्भीमबलं महाहवे समीक्ष्य रामेण हतं बलीयसा।
रथेन रामं महता खरस्तदा समाससादेन्द्र इवोद्यताशनिः ॥ 3.26.38 ॥