अवष्टब्धधनुं रामं क्रुद्धं च रिपुघातिनम्।
ददर्शाश्रममागम्य खरः सह पुरस्सरैः ॥ 3.25.1 ॥
तं दृष्ट्वा सशरं चापमुद्यम्य खरनिस्वनम्।
रामस्याभिमुखं सूतं चोद्यतामित्यचोदयत् ॥ 3.25.2 ॥
स खरस्याज्ञया सूतस्तुरगान् समचोदयत्।
यत्र रामो महाबाहुरेको धून्वन् स्थितो धनुः ॥ 3.25.3 ॥
तं तु निष्पतितं दृष्ट्वा सर्वे ते रजनीचराः।
नर्दमाना महानादं सचिवाः पर्यवारयन् ॥ 3.25.4 ॥
स तेषां यातुधानानां मध्ये रथगतः खरः।
बभूव मध्ये ताराणां लोहिताङ्ग इवोदितः ॥ 3.25.5 ॥
ततः शरसहस्रेण राममप्रतिमौजसम्।
अर्दयित्वा महानादं ननाद समरे खरः ॥ 3.25.6 ॥
ततस्तं भीमधन्वानं क्रुद्धा सर्वे निशाचारः।
रामं नानाविधैः शस्त्रैरभ्यवर्षन्त दुर्जयम् ॥ 3.25.7 ॥
मुद्गरैः पट्टिशैः शूलैः प्रासैः खड्गैः परश्वधैः।
राक्षासाः समरे रामं निजघ्नू रोषतत्पराः ॥ 3.25.8 ॥
अभ्यधावन्त काकुत्स्थं रथैर्वाजिभिरेव च।
गजैः पर्वतकूटाभै रामं युद्धे जिघासवः ॥ 3.25.9 ॥
ते रामे शरवर्षाणि व्यसृजन् रक्षासां गणाः।
शैलेन्द्रमिव धाराभिर्वर्षमाणा बलाहकाः ॥ 3.25.10 ॥
स तैः परिवृतो घोरै राघवो रक्षसां गणैः ॥ 3.25.11 ॥
तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः।
प्रतिजग्राह विशिखैर्नद्योघानिव सागरः ॥ 3.25.12 ॥
स तैः प्रहरणैर्घोरैर्भिन्नगात्रो न विव्यथे।
रामः प्रादीप्तैर्बहुभिर्वज्रैरिव महाचलः ॥ 3.25.13 ॥
स विद्धः क्षतजादिग्धः सर्वगात्रेषु राघवः।
बभूव रामः सन्ध्याभ्रैर्दिवाकर इवावृतः ॥ 3.25.14 ॥
विषेदुर्देगन्धर्वाः सिद्धाश्च परमर्षयः।
एकं सहस्रैर्बहुभिस्तदा दृष्ट्वा समावृतम् ॥ 3.25.15 ॥
ततो रामः सुसङ्क्रुद्धो मण्डलीकृतकार्मुकः।
ससर्ज विशिखान् बाणान् शतशोथ सहस्रशः ॥ 3.25.16 ॥
दुरावारान् दुर्विषहान् कालदण्डोपमान् रणे।
मुमोच लीलया रामः कङ्कपत्त्रानजिह्मगान् ॥ 3.25.17 ॥
ते शराः शत्रुसैन्येषु मुक्ता रामेण लीलया।
आददू रक्षसां प्राणान् पाशाः कालकृता इव ॥ 3.25.18 ॥
भित्त्वा राक्षसदेहांस्तांस्ते शरा रुधिराप्लुताः।
अन्तरिक्षगता रेजुर्दीप्ताग्निसमतेजसः ॥ 3.25.19 ॥
असङ्ख्येयास्तु रामस्य सायकाश्चापमण्डलात्।
विनिष्पेतुरतीवोग्रा रक्षःप्राणापहारिणः ॥ 3.25.20 ॥
बीहून् सहस्ताभरणानूरून् करिकरोपमामान्।
चिच्छेद रामः समरे शतशोथ सहस्रशः ॥ 3.25.21 ॥
हयान् काञ्चनसन्नाहान् रथयुक्तान् ससारथीन्।
गजांश्च सगजारोहान् सहयान् सादिनस्तथा ॥ 3.25.22 ॥
पदातीन् समरे हत्वा ह्यनयद्यमसादनम् ॥ 3.25.23 ॥
ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः।
भीममार्तस्वरं चक्रुर्भिद्यमाना निशाचराः ॥ 3.25.24 ॥
तत्सैन्यं निशितैर्बाणैरर्दितं मर्मभेदिभिः।
रामेण न सुखं लेभे शुष्कं वनमिवाग्निना ॥ 3.25.25 ॥
केचिद्भीमबलाः शूराः शूलान् खङ्गान् परश्वधान्।
रामस्याभिमुखं गत्वा चिक्षिपुः परमायुधान् ॥ 3.25.26 ॥
तानि बाणैर्महाबाहुः शस्त्राण्यावार्य राघवः।
जहार समरे प्राणांश्चिच्छेद च शिरोधरान् ॥ 3.25.27 ॥
ते छिन्नशिरसः पेतुश्छिन्नवर्मशरासनाः।
सुपर्णवातविक्षिप्ता जगत्यां पादपा यथा ॥ 3.25.28 ॥
अवशिष्टाश्च ये तत्र विषण्णाश्च निशाचराः।
खरमेवाभ्यधावन्त शरणार्थं शरार्दिताः ॥ 3.25.29 ॥
तान् सर्वान् पुनरादाय समाश्वास्य च दूषणः।
अभ्यधावत काकुत्स्थं क्रुद्धो रुद्रमिवान्तकः ॥ 3.25.30 ॥
निवृत्तास्तु पुनः सर्वे दूषणाश्रयनिर्भयाः।
राममेवाभ्यधावन्त सालतालशिलायुधाः ॥ 3.25.31 ॥
सृजन्तः शरवर्षाणि शस्त्रवर्षाणि संयुगे।
द्रुमवर्षाणि मुञ्चन्तः शिलावर्षाणि राक्षसाः ॥ 3.25.32 ॥
तद्बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम्।
रामस्य च महाघोरं पुनस्तेषां च रक्षसाम् ॥ 3.25.33 ॥
ते समन्तादभिक्रुद्धा राघवं पुनरभ्ययुः ॥ 3.25.34 ॥
तैश्च सर्वा दिशो दृष्ट्वा प्रदिशश्च समावृताः।
राक्षसैरुद्यतप्रासैः शरवर्षाभिवर्षिभिः ॥ 3.25.35 ॥
स कृत्वा भैरवं नादमस्रं परमभास्वरम्।
संयोजयत गान्धर्वं राक्षसेषु महाबलः ॥ 3.25.36 ॥
ततः शरसहस्राणि निर्ययुश्चापमण्डलात्।
सर्वा दश दिशो बाणैरावार्यन्त समागतैः ॥ 3.25.37 ॥
नाददानं शरान् घोरान्न मुञ्चन्तं शिलीमुखान्।
विकर्षमाणं पश्यन्ति राक्षसास्ते शरार्दिताः ॥ 3.25.38 ॥
शरान्धकारमाकाशमावृणोत्सदिवाकरम्।
बबूवावस्थितो रामः प्रवमन्निव तान् शरान् ॥ 3.25.39 ॥
युगपत्पतमानैश्च युगपच्च हतैर्भृशम्।
युगपत्पतितैश्चैव विकीर्णा वसुधाऽभवत् ॥ 3.25.40 ॥
निहताः पतिताः क्षीणाश्छिन्ना भिन्ना विदारिताः।
तत्र तत्र स्म दृश्यन्ते राक्षसास्ते सहस्रशः ॥ 3.25.41 ॥
सोष्णीषैरुत्तमाङ्गैश्च साङ्गदैर्बाहुभिस्तथा।
ऊरुभिर्जानुभिश्छिन्नैर्नानारूपविभूषणैः ॥ 3.25.42 ॥
हयैश्च द्विपमुख्यैश्च रथैर्भिन्नैरनेकशः।
चामरैर्व्यजनैश्छत्त्रैर्ध्वजैर्नानाविधैरपि ॥ 3.25.43 ॥
रामस्य बाणाभिहतैर्विचित्रैः शूलपट्टिशैः।
खङ्गैः खण्डीकृतैः प्रासैर्विकीर्णैश्च परश्वधैः ॥ 3.25.44 ॥
चूर्णिताभिः शिलाभिश्च शरैश्चित्रैरनेकशः।
विच्छिन्नैः समरे भूमिः विकीर्णाऽभूद्भयङ्करा ॥ 3.25.45 ॥