०२४ रामस्य युद्धोद्योगः

आश्रमं प्रतियाते तु खरे खरपराक्रमे।
तानेवोत्पातिकान् रामः सह भ्रात्रा ददर्श ह ॥ 3.24.1 ॥
तानुत्पातान् महाघोरानुत्थितान् रोमहर्षणान्।
प्रजानामहितान् दृष्ट्वा वाक्यं लक्ष्मणमब्रवीत् ॥ 3.24.2 ॥
इमान् पश्य महाबाहो सर्वभूतापहारिणः।
समुत्थितान् महोत्पातान् संहर्तुं सर्वराक्षसान् ॥ 3.24.3 ॥
अमी रुधिरधारास्तु विसृजन्तः खरस्वनान्।
व्योम्निमेघा विवर्तन्ते परुषा गर्दभारुणाः ॥ 3.24.4 ॥
सधूमाश्च शराः सर्वे मम युद्धाभिनन्दिनः।
रुक्मपृष्ठानि चापानि विवेष्टन्ते च लक्ष्मण ॥ 3.24.5 ॥
यादृशा इह कूजन्ति पक्षिणो वनचारिणः।
अग्रतो नो भयं प्राप्तं संशयो जीवितस्य च ॥ 3.24.6 ॥
अयमाख्यानि मे बाहुः स्फुरमाणो मुहुर्मुहुः।
सन्निकर्षे तु नः शूर जयं शत्रोः पराजयम् ॥ 3.24.7 ॥
सप्रभं च प्रसन्नं च तव वक्त्रं हि लक्ष्यते।
उद्यतानां हि युद्धार्थं येषां भवति लक्ष्मण ॥ 3.24.8 ॥
निष्प्रभं वदनं तेषां भवत्यायुः परिक्षयः ॥ 3.24.9 ॥
रक्षसां नर्दतां घोरः श्रूयते च महाध्वनिः।
आहतानां च भेरीणां राक्षसैः क्रूरकर्मभिः ॥ 3.24.10 ॥
आनागतविधानं तु कर्तव्यं शुभमिच्छता।
आपदं शङ्कमानेन पुरुषेण विपश्चिता ॥ 3.24.11 ॥
तस्माद्गृहीत्वा वैदेहीं शरपाणिर्धनुर्धरः।
गुहामाश्रय शैलस्य दुर्गां पादपसङ्कुलाम् ॥ 3.24.12 ॥
प्रतिकूलितुमिच्छामि नहि वाक्यमिदं त्वया।
शापितो मम पादाभ्यां गम्यतां वत्स मा चिरम् ॥ 3.24.13 ॥
त्वं हि शूरश्च बलवान् हन्यां ह्येतान्न संशयः।
स्वयं तु हन्तुमिच्छामि सर्वानेव निशाचरान् ॥ 3.24.14 ॥
एवमुक्तस्तु रामेण लक्ष्मणः सह सीतया।
शरानादाय चापं च गुहां दुर्गां समाश्रयत् ॥ 3.24.15 ॥
तस्मिन् प्रविष्टे तु गुहां लक्ष्मणे सह सीतया।
हन्त निर्युक्तमित्युक्त्वा रामः कवचमाविशत् ॥ 3.24.16 ॥
स तेनाग्निनिकाशेन कवचेन विभूषितः।
बभूव रामस्तिमिरे विधूमोऽग्निरिवोत्थितः ॥ 3.24.17 ॥
स चापमुद्यम्य महच्छरानादाय वीर्यवान्।
बभूवावस्थितस्तत्रज्यास्वनैः पूरयन् दिशः ॥ 3.24.18 ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च सह चारणैः।
समेयुश्च महात्मानो युद्धदर्शनकाङ्क्षिणः ॥ 3.24.19 ॥
ऋषयश्च महात्मानो लोके ब्रह्मर्षिसत्तमाः।
समेत्य चोचुः सहिता अन्योन्यं पुण्यकर्मणः ॥ 3.24.20 ॥
स्वस्ति गोब्राह्मणेभ्योऽस्तु लोकानां येऽभिसङ्गताः।
जयतां राघवो युद्धे पौलस्त्यान् रजनीचरान् ॥ 3.24.21 ॥
चक्रहस्तो यथा युद्धे सर्वानसुरपुङ्गवान्।
एवमुक्त्वा पुनः प्रोचुरालोक्य च परस्परम् ॥ 3.24.22 ॥
चतुर्दश सहस्त्राणि रक्षसां भीमकर्मणाम्।
एकश्च रामो धर्मात्मा कथं युद्धं भविष्यति ॥ 3.24.23 ॥
इति राजर्षयः सिद्धाः सगणाश्च द्विजर्षभाः।
जातकौतूहलास्तस्थुर्विमानस्थाश्च देवताः ॥ 3.24.24 ॥
आविष्टं तेजसा रामं सङ्ग्रामशिरसि स्थितम्।
दृष्ट्वा सर्वाणि भूतानि भयाद्विव्यथिरे तदा ॥ 3.24.25 ॥
रूपमप्रतिमं तस्य रामस्याक्लिष्टकर्मणः।
बभूव रूपं क्रुद्धस्य रुद्रस्येव पिनाकिनः ॥ 3.24.26 ॥
ततो गम्भीरनिर्ह्रादं घोरवर्मायुधध्वजम्।
अनीकं यातुधानानां समन्तात्प्रत्यदृश्यत ॥ 3.24.27 ॥
सिंहनादं विसृजतामन्योन्यमभिगर्जताम्।
चापानि विस्फारयतां जृम्भतां चाप्यभीक्ष्णशः ॥ 3.24.28 ॥
विप्रघुष्टस्वनानां च दुन्दुभींश्चापि निघ्नताम्।
तेषां सुतुमुलः शब्दः पूरयामास तद्वनम् ॥ 3.24.29 ॥
तेन शब्देन वित्रस्ताः श्वापदा वनचारिणः।
दुद्रुवुर्यत्र निःशब्दं पृष्ठतो न व्यलोकयन् ॥ 3.24.30 ॥
तत्त्वनीकं महावेगं रामं समुपसर्पत।
धृतनानाप्रहरणं गम्भीरं सागरोपमम् ॥ 3.24.31 ॥
रामोऽपि चारयन् चक्षुः सर्वतो रणपण्डितः।
ददर्श खरसैन्यं तद्युद्धाभिमुखमुत्थितम् ॥ 3.24.32 ॥
वितत्य च धनुर्भीमं तूण्योश्चोद्धृत्य सायकान्।
क्रोधमाहारयत्तीव्रं वधार्थं सर्वरक्षसाम् ॥ 3.24.33 ॥
दुष्प्रेक्षः सोभवत् क्रुद्धो युगान्ताग्निरिव ज्वलन्।
तं दृष्ट्वा तेजसाविष्टं प्राद्रवन्वनदेवताः ॥ 3.24.34 ॥
तस्य क्रुद्धस्य रूपं तु रामस्य ददृशे तदा।
दक्षस्येव क्रतुं हन्तुमुद्यतस्य पिनाकिनः ॥ 3.24.35 ॥
आविष्टं तेजसा रामं सङ्ग्रामशिरसि स्थितम्।
दृष्ट्वा सर्वाणि भूतानि भयार्तानि प्रदुद्रुवुः ॥ 3.24.36 ॥
तत्कार्मुकैराभरणैर्ध्वजैश्च तैर्वर्मभिश्चाग्निसमानवर्णैः।
बभूव सैन्यं पिशिताशनानां सूर्योदये नीलमिवाभ्रवृन्दम् ॥ 3.24.37 ॥