०२३ खरेणोत्पातदर्शनम्

तस्मिन् याते जनस्थानादशिवं शोणितोदकम्।
अभ्यवर्षन्महामेघस्तुमुलो गर्दभारुणः ॥ 3.23.1 ॥
निपेतुस्तुरगास्तस्य रथयुक्ता महाजवाः।
समे पुष्पचिते देशे राजमार्गे यदृच्छया ॥ 3.23.2 ॥
श्यामं रुधिरपर्यन्तं बभूव परिवेषणम्।
अलातचक्रप्रतिमं परिगृह्य दिवाकरम् ॥ 3.23.3 ॥
ततो ध्वजमुपागम्य हेमदण्डं समुच्छ्रितम्।
समाक्रम्य महाकायस्तस्थौ गृध्रः सुदारुणः ॥ 3.23.4 ॥
जनस्थानसमीपे तु समागम्य खरस्वनाः।
विस्वरान्विविधांश्चक्रुर्मांसादा मृगपक्षिणः ॥ 3.23.5 ॥
व्याजह्रुश्च प्रदीप्तायां दिशि वै भैरवस्वनम्।
अशिवं यातुधानानां शिवा घोरा महास्वनाः ॥ 3.23.6 ॥
प्रभिन्नगिरि सङ्काशास्तोयशोणितधारिणः।
आकाशं तदनाकाशं चक्रुर्मीमा बलाहकाः ॥ 3.23.7 ॥
बभूव तिमिरं घोरमुद्धतं रोमहर्षणम्।
दिशो वा विदिशो वापि न च व्यक्तं चकाशिरे ॥ 3.23.8 ॥
खरस्याभिमुखा नेदुस्तदा घोरमृगाः खगाः।
कङ्कगोमायुगृध्राश्च चुक्रुशुर्भयशंसिनः ॥ 3.23.9 ॥
नित्याशुभकरा युद्धे शिवा घोरनिदर्शनाः।
नेदुर्बलस्याभिमुखं ज्वालोद्गारिभिराननैः ॥ 3.23.10 ॥
कबन्धः परिघाभासो दृश्यते भास्करान्तिके।
जग्राह सूर्यं स्वर्भानुरपर्वणि महाग्रहः ॥ 3.23.11 ॥
प्रवाति मारुतः शीघ्रं निष्प्रभोऽभूद्दिवाकरः।
उत्पेतुश्च विना रात्रिं ताराः खद्योतसप्रभाः ॥ 3.23.12 ॥
संलीनमीनविहगा नलिन्यः शुष्कपङ्कजाः।
तस्मिन् क्षणे बभूवुश्च विना पुष्पफलैर्द्रुमाः ॥ 3.23.13 ॥
उद्धूतश्च विना वातं रेणुर्जलधरारुणः।
वीचीकूचिति वाश्यन्त्यो बभूवुस्तत्र शारिकाः ॥ 3.23.14 ॥
उल्काश्चापि सनिर्घाता निपेतुर्घोरदर्शनाः।
प्रचचाल मही सर्वा सशैलवनकानना ॥ 3.23.15 ॥
खरस्य च रथस्थस्य नर्दमानस्य धीमतः।
प्राकम्पत भुजः सव्यः स्वरश्चास्यावसज्जत ॥ 3.23.16 ॥
सास्रा समपद्यते दृष्टिः पश्यमानस्य सर्वतः।
ललाटेः च रुजा जाता न च मोहान्न्यवर्तत ॥ 3.23.17 ॥
तान् समीक्ष्य महोत्पातानुत्थितान् रोमहर्षणान्।
अब्रवीद्राक्षसान् सर्वान् प्रहसन् स खरस्तदा ॥ 3.23.18 ॥
महोत्पातानिमान् सर्वानुत्थितान् घोरदर्शनान्।
न चिन्तयाम्यहं वीर्याद्बलवान् दुर्बलानिव ॥ 3.23.19 ॥
तारा अपि शरैस्थीक्ष्णैः पातयामि नभःस्थलात्।
मृत्युं मरणधर्मेण सङ्क्रुद्धो योजयाम्यहम् ॥ 3.23.20 ॥
राघवं तं बलोत्सिक्तं भ्रातरं चास्य लक्ष्मणम्।
अहत्वा सायकैस्तीक्ष्णैर्नोपावर्तितुमुत्सहे ॥ 3.23.21 ॥
सकामा भगिनी मेऽस्तु पीत्वा तु रुधिरं तयोः।
यन्निमित्तस्तु रामस्य लक्ष्मणस्य विपर्ययः ॥ 3.23.22 ॥
न क्वचित्प्राप्तपूर्वो मे संयुगेषु पराजयः।
युष्माकमेतत्प्रत्यक्षं नानृतं कथयाम्यहम् ॥ 3.23.23 ॥
देवराजमपि क्रुद्धो मत्तैरावतयायिनम्।
वज्रहस्तं रणे हन्यां किं पुनस्तौ कुमानुषौ ॥ 3.23.24 ॥
सा तस्य गर्जितं श्रुत्वा राक्षसस्य महाचमूः।
प्रहर्षमतुलं लेभे मृत्युपाशावपाशिता ॥ 3.23.25 ॥
समीयुश्च महात्मानो युद्धदर्शनकाङ्क्षिणः।
ऋषयो देवगन्धर्वाः सिद्धाश्च सह चारणैः ॥ 3.23.26 ॥
समेत्य चोचुः सहितास्तेऽन्योन्यं पुम्यकर्मणः ॥ 3.23.27 ॥
स्वस्ति गोब्राह्मणेभ्योऽस्तु लोकानां येऽभिसङ्गताः।
जयतां राघवः सङ्ख्ये पौलस्त्यान् रजनीचरान् ॥ 3.23.28 ॥
चक्रहस्तो यथा युद्धे सर्वानसुरपुङ्गवान्।
एतच्चन्यच्च बहुशो ब्रुवाणाः परमर्षयः ॥ 3.23.29 ॥
जातकौतूहलास्तत्र विमानस्थाश्च देवताः।
ददृशुर्वाहिनीं तेषां राक्षसानां गतायुषाम् ॥ 3.23.30 ॥
रथेन तु खरो वेगादुग्रसैन्यो विनिस्सृतः।
तं दृष्ट्वा राक्षसं भूयो राक्षसाश्च विनिस्सृताः ॥ 3.23.31 ॥
श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहङ्गमः।
दुर्जयः करवीराक्षः परुषः कालकार्मुकः ॥ 3.23.32 ॥
मेघमाली महामाली सर्पास्यो रुधिराशनः।
द्वादशैते महावीर्याः प्रतस्थुरभितः खरम् ॥ 3.23.33 ॥
महाकपालः स्थूलाक्षः प्रमाथी त्रिशिरास्तथा।
चत्वार एते सेनान्यो दूषणं पृष्ठतो ययुः ॥ 3.23.34 ॥
सा भीमवेगा समराभिकामा महाबला राक्षसवीरसेना।
तौ राजपुत्रौ सहसाभ्युपेता माला ग्रहाणामिव चन्द्रसूर्यौ ॥ 3.23.35 ॥