एवमाधर्षितः शूरः शूर्पणख्या खरस्तदा।
उवाच रक्षसां मध्ये खरः खरतरं वचः ॥ 3.22.1 ॥
तवावमानप्रभवः क्रोधोऽयमतुलो मम।
न श्क्यते धारयितुं लवणाम्भ इवोत्थितम् ॥ 3.22.2 ॥
न रामं गणये वीर्यान्मानुषं क्षीणजीवितम्।
आत्मदुश्चरितैः प्राणान् हतो योऽद्य विमोक्ष्यति ॥ 3.22.3 ॥
बाष्पः संह्रियतामेष सम्भ्रमश्च विमुच्यताम्।
अहं रामं सह भ्रात्रा नयामि यमसादनम् ॥ 3.22.4 ॥
परश्वधहतस्याद्य मन्दप्राणस्य संयुगे।
रामस्य रुधिरं रक्तमुष्णं पास्यसि राक्षसि ॥ 3.22.5 ॥
सा प्रहृष्टा वचः श्रुत्वा खरस्य वदनच्च्युतम्।
प्रशशंस पुनर्मौर्ख्याद् भ्रातरं रक्षसां वरम् ॥ 3.22.6 ॥
तया परुषितः पूर्वं पुनरेव प्रशंसितः।
अब्रवीद्दूषणं नाम खऱः सेनापतिं तदा ॥ 3.22.7 ॥
चतुर्दश सहस्राणि मम चित्तानुवर्तिनाम्।
रक्षसां भीमवेगानां समरेष्वनिवर्तिनाम् ॥ 3.22.8 ॥
नीलजीमूतवर्णानां घोराणां क्रूरकर्मणाम्।
लोकहिंसाविहाराणां बलिनामुग्रतेजसाम् ॥ 3.22.9 ॥
तेषां शार्दूलदर्पाणां महास्यानां महौजसाम्।
सर्वोद्योगमुदीर्णानां रक्षसां सौम्य कारय ॥ 3.22.10 ॥
उपस्थापय मे क्षिप्रं रथं सौम्य धनूंषि च।
शरांश्चित्रांश्च खङ्गांश्च शक्तीश्च विविधाः शिताः ॥ 3.22.11 ॥
अग्रे निर्यातुमिच्छामि पौलस्त्यानां महात्मनाम्।
वधार्थं दुर्विनीतस्य रामस्य रणकोविदः ॥ 3.22.12 ॥
इति तस्य ब्रुवाणस्य सूर्यवर्णं महारथम्।
सदश्वैः शबलैर्युक्तमाचचक्षेऽथ दूषणः ॥ 3.22.13 ॥
तं मेरुशिखराकारं तप्तकाञ्चनभूषणम्।
हेमचक्रमसम्बाधं वैडूर्यमयकूबरम् ॥ 3.22.14 ॥
मत्स्यैः पुष्पैर्द्रुमैः शैलैश्चन्द्रसूर्यैश्च काञ्चनैः।
मङ्गलैः पक्षिसङ्घैश्च ताराभिरभिसंवृतम् ॥ 3.22.15 ॥
ध्वजनिस्त्रिंशसम्पन्नं किङ्किणीकविराजितम्।
सदश्वयुक्तं सोमर्षादारुरोह खरो रथम् ॥ 3.22.16 ॥
निशाम्य तु रथस्थं तं राक्षसा भीमविक्रमाः।
तस्थुः सम्परिवार्यैनं दूषणं च महाबलम् ॥ 3.22.17 ॥
खरस्तु तान् महेष्वासान् घोरवर्मायुधध्वजान्।
निर्यातेत्यब्रमीद्धृष्टो रथस्थः सर्वराक्षसान् ॥ 3.22.18 ॥
ततस्तद्राक्षसं सैन्यं घोरवर्मायुधध्वजम्।
निर्जगाम जनस्थानान्महानादं महाजवम् ॥ 3.22.19 ॥
मुद्गरैः पट्टिशैः शूलैः सुतीक्ष्णैश्च परश्वधैः।
खङ्गैश्चक्रैश्च हस्तस्थैर्भ्राजमानैश्च तोमरैः ॥ 3.22.20 ॥
शक्तिभिः परिघैर्घोरैरतिमात्रैश्च कार्मुकैः।
गदासिमुसलैर्वज्रैर्घृहीतैर्भीमदर्शनैः ॥ 3.22.21 ॥
राक्षसानां सुघोराणां सहस्राणि चतुर्दश।
निर्यातानि जनस्थानात् खरचित्तानुवर्त्तिनाम् ॥ 3.22.22 ॥
तांस्त्वभिद्रवतो दृष्ट्वा राक्षसान् भीमविक्रमान्।
खरस्यापि रथः किञ्चिज्जगाम तदनन्तरम् ॥ 3.22.23 ॥
ततस्तान् शबलानश्वांस्तप्तकञ्चनबूषितान्।
खरस्य मतिमाज्ञाय सारथिः समचोदयत् ॥ 3.22.24 ॥
स चोदितो रथः शीघ्रं खरस्य रिपुघातिनः।
शब्देनापूरयामास दिशश्च प्रदिशस्तदा ॥ 3.22.25 ॥
प्रवृद्धमन्युस्तु खरः खरस्वनो रिपोर्वधार्थं त्वरितो यथान्तकः।
अचूचुदत्सारथिमुन्नदन् घनं महाबलो मेघ इवाश्म वर्षवान् ॥ 3.22.26 ॥