०२१ खरान्तिके शूर्पणखाशोकः

स पुनः पतितां दृष्ट्वा क्रोधाच्छूर्पणखां खरः।
उवाच व्यक्तया वाचा तामनर्थार्थमागताम् ॥ 3.21.1 ॥
मया त्विदानीं शूरास्ते राक्षसा रुधिराशनाः।
त्वत्प्रियार्थं विनिर्दिष्टाः किमर्थं रुद्यते पुनः ॥ 3.21.2 ॥
भक्ताश्चैवानुरक्ताश्च हिताश्च मम नित्यशः।
घ्नन्तोऽपि न निहन्तव्या न न कुर्युर्वचो मम ॥ 3.21.3 ॥
किमेतच्छ्रोतुमिच्छामि कारणं युत्कृते पुनः।
हा नाथेति विनर्दन्ती सर्पवल्लुठसि क्षितौ ॥ 3.21.4 ॥
अनाथवद्विलपसि नाथे तु मयि संस्थिते।
उत्तिष्ठोत्तिष्ठ मा भैषीर्वैक्लव्यं त्यज्यतामिह ॥ 3.21.5 ॥
इत्येवमुक्ता दुर्धर्षा खरेण परिसान्त्विता।
विमृज्य नयने सास्त्रे खरं भ्रातरमब्रवीत् ॥ 3.21.6 ॥
अस्मीदानीमहं प्राप्ता हृतश्रवणनासिका।
शोणितौघपरिक्लिन्ना त्वया च परिसान्त्विता ॥ 3.21.7 ॥
प्रेषिताश्च त्वया वीर राक्षसास्ते चुतुर्धश।
निहन्तुं राघवं क्रोधान्मत्प्रियार्थं सलक्ष्मणम् ॥ 3.21.8 ॥
ते तु रामेण सामर्षाः शूलपट्टिशपाणयः।
समरे निहताः सर्वे सायकैर्मर्मभेदिभिः ॥ 3.21.9 ॥
तान् दृष्ट्वा पतितान् भूमौ क्षणेनैव महाबलान्।
रामस्य च महत् कर्म महांस्त्रासोभवन्मम ॥ 3.21.10 ॥
अहमस्मि समुद्विग्ना विषण्णा च निशाचर।
शरणं त्वां पुनः प्राप्ता सर्वतो भयदर्शिनी ॥ 3.21.11 ॥
विषादनक्राध्युषिते परित्रासोर्मिमालिनि।
किं मां न त्रायसे मग्नां विपुले शोकसागरे ॥ 3.21.12 ॥
एते च निहता भूमौ रामेण निशितैः शरैः।
येऽपि मे पदवीं प्राप्ता राक्षसाः पिशिताशनाः ॥ 3.21.13 ॥
रामेण यदि ते शक्तिस्तेजो वास्ति निशाचर।
दण्डकारण्यनिलयं जहि राक्षसकण्टकम् ॥ 3.21.14 ॥
यदि रामं ममामित्रं न त्वमद्य वधिष्यसि।
तव चैवाग्रतः प्राणांसत्यक्ष्यामि निरपत्रपा ॥ 3.21.15 ॥
बुद्ध्याहमनुपश्यामि न त्वं रामस्य संयुगे।
स्थातुं प्रतिमुखे शक्तः सबलश्च महात्मनः ॥ 3.21.16 ॥
शूरमानी न शूरस्त्वं मिथ्यारोपितविक्रमः।
मानुषौ यौ न शक्नोषि हन्तुं तौ रामलक्ष्मणौ ॥ 3.21.17 ॥
रामेण यदि ते शक्तिस्तेजो वास्ति निशाचर।
दण्डकारण्यनिलयं जहि तं कुलपांसन ॥ 3.21.18 ॥
निस्सत्त्वस्याल्पवीर्यस्य वासस्ते कीदृशस्त्विह।
अपयाहि जनस्थानात्त्वरितः सहबान्धवः ॥ 3.21.19 ॥
रामतेजोभिभूतो हि त्वं क्षिप्रं विनशिष्यसि।
स हि तेजस्समायुक्तो रामो दशरथात्मजः ॥ 3.21.20 ॥
भ्राता चास्य महावीर्यो येन चास्मि विरूपिता ॥ 3.21.21 ॥
भ्रातुः समीपे दुःखार्ता नष्टसञ्ज्ञा बभूव ह।
कराभ्यामुदरं हत्वा रुरोद भृशदुःखिता ॥ 3.21.22 ॥