ततः शूर्पणखा घोरा राघवाश्रममागता।
रक्षसामाचचक्षे तौ भ्रातरौ सह सीतया ॥ 3.20.1 ॥
ते रामं पर्णशालायामुपविष्टं महाबलम्।
ददृशुः सीतया सार्धं वैदेह्या लक्ष्मणेन च ॥ 3.20.2 ॥
तान् दृष्ट्वा राघवः श्रीमानागतां तां च राक्षसीम्।
अब्रवीद् भ्रातरं रामो लक्ष्मणं दीप्ततेजसम् ॥ 3.20.3 ॥
मुहुर्तं भव सौमित्रे सीतायाः प्रत्यनन्तरः।
इमानस्या वधिष्यामि पदवीमागतानिह ॥ 3.20.4 ॥
वाक्यमेतत्ततः श्रुत्व रामस्य विदितात्मनः।
तथेति लक्ष्मणो वाक्यं रामस्य प्रत्यपूजयत् ॥ 3.20.5 ॥
राघवोऽपि महञ्चापं चामीकरविभूषितम्।
चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत् ॥ 3.20.6 ॥
पुत्रौ दशरथस्यावां भ्रातरौ रामलक्ष्मणौ।
प्रविष्टौ सीतया सार्धं दुश्चरं दण्डकावनम् ॥ 3.20.7 ॥
फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ।
वसन्तौ दण्डकारण्ये किमर्थमुपहिंसथ ॥ 3.20.8 ॥
युष्मान् पापात्मकान् हन्तुं विप्रकारान् महाहवे।
ऋषीणां तु नियोगेन प्राप्तोऽहं सशरायुधः ॥ 3.20.9 ॥
तिष्ठतैवात्र सन्तुष्टा नोपावर्तितुमर्हथ।
यदि प्राणैरिहार्थो वा निवर्तध्वं निशाचराः ॥ 3.20.10 ॥
तस्य तद्वचनं श्रुत्वा राक्षसास्ते चतुर्दश।
ऊचुर्वाचं सुसङ्क्रुद्धा ब्रह्मघ्नाः शूलपाणयः ॥ 3.20.11 ॥
क्रोधमुत्पाद्य नो भर्तुः खरस्य सुमहात्मनः।
त्वमेव हास्यसे प्राणानद्यास्माभिर्हतो युधि ॥ 3.20.12 ॥
का हि ते शक्तिरेकस्य बहूनां रणमूर्धनि।
अस्माकमग्रतः स्थातुं किं पुनर्योद्धुमाहव ॥ 3.20.13 ॥
एहि बाहुप्रयुक्तैर्नः परिघैः शूलपट्टिशैः।
प्राणांस्त्यक्षङसि वीर्यं च धनुश्च करपीडितम् ॥ 3.20.14 ॥
[उद्यतायुधनिस्त्रिंशा राममेवाभिदुद्रुवुः।] चिक्षिपुस्तानि शूलानि राघवं प्रति दुर्जयम् ॥ 3.20.15 ॥
तानि शूलानि काकुत्स्थः समस्तानि चतुर्दश।
तावद्भिरेव चिच्छेद शरैः काञ्चनभूषणैः ॥ 3.20.16 ॥
ततः पश्चान्महातेजा नाराचान् सूर्यसन्निभान्।
जग्राह परमक्रुद्धश्चतुर्दश शिलाशितान् ॥ 3.20.17 ॥
गृहीत्वा धनुरायम्य लक्ष्यानुद्दिश्य राक्षसान्।
मुमोच राघवो बाणान् वज्रानिव शतक्रतुः ॥ 3.20.18 ॥
ते भित्त्वा रक्षसां वेगाद्वक्षांसि रुधिराप्लुताः।
विनिष्पेतुस्तदा भूमौ न्यमज्जन्ताशनिस्वनाः ॥ 3.20.19 ॥
ते भिन्नहृदया भूमौ छिन्नमूला इव द्रुमाः।
निपेतुः शोणितार्द्राङ्गा विकृता विगतासवः ॥ 3.20.20 ॥
तान् दृष्ट्वा पतितान् भूमौ राक्षसी क्रोधमूर्च्छिता।
परित्रस्ता पुनस्तत्र व्यसृजद्भैरवस्वनान् ॥ 3.20.21 ॥
[जगाम तत्र सम्भ्रान्ता खरो यत्र महाबलः।] उपगम्य खरं सा तु किञ्चित्संशुष्कशोणिता ॥ 3.20.22 ॥
पपात पुनरेवार्ता सनिर्यासेव सल्लकी ॥ 3.20.23 ॥
[भूमौ शयाना दुःखार्ता लब्धसञ्ज्ञाचिरात्पुनः।] सस्वरं मुमुचे बाष्पं विषण्णवदना तदा ॥ 3.20.24 ॥
निपातितान् दृश्य रणे तु राक्षसान् प्रधाविता शूर्पणखा पुनस्ततः।
वधं च तेषां निखिलेन रक्षसां शशंस सर्वं भगीनी खरस्य सा ॥ 3.20.25 ॥