०१९ खराय अङ्गवैरूप्यकथनम्

तां यथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम्।
भगिनीं क्रोधसन्तप्तः खरः पप्रच्छ राक्षसः ॥ 3.19.1 ॥
उत्तिष्ठ तावदाख्याहि प्रमोहं जहि सम्भ्रमम्।
व्यक्तमाख्याहि केन त्वमेवंरूपा विरूपिता ॥ 3.19.2 ॥
कः कृष्णसर्पमासीनमाशीविषमनागसम्।
तुदत्यभिसमापन्नमङ्गुल्यग्रेण लीलया ॥ 3.19.3 ॥
कः कालपाशमासज्यं कण्ठे मोहान्न बुद्ध्यते।
यस्त्वामद्य समासाद्य पीतवान् विषमुत्तमम् ॥ 3.19.4 ॥
बलविक्रमसम्पन्ना कामगा काम रूपिणी।
इमामवस्थां नीता त्वं केनान्तकसमा गता ॥ 3.19.5 ॥
देवगन्धर्वभूतानामृषीणां च महात्मनाम्।
कोऽयमेवं विरूपां त्वां महावीर्यश्चकार ह ॥ 3.19.6 ॥
नहि पश्याम्यहं लोके यः कुर्यान्मम विप्रियम्।
अन्तरेण सहस्राक्षं महेन्द्रं पाकशासनम् ॥ 3.19.7 ॥
अद्याहं मार्गणैः प्राणानादास्ये जीवितान्तकैः।
सलिले क्षीरमासक्तं निष्पिबन्निव सारसः ॥ 3.19.8 ॥
निहतस्य मया सङ्ख्ये शरमङ्कृत्तमर्मणः।
सफेनं रुधिरं रक्तं मेदिनी कस्य पास्यति ॥ 3.19.9 ॥
कस्य पत्त्ररथाः कायान्मांसमुत्कृत्य सङ्गताः।
प्रहृष्टा भक्षयिष्यन्ति निहस्य मया रणे ॥ 3.19.10 ॥
तं न देवा न गन्धर्वा न पिशाचा न राक्षसाः।
मयापकृष्टं कृपणं शक्तास्त्रातुमिहाहवे ॥ 3.19.11 ॥
उपलभ्य शनैः सञ्ज्ञां तं मे शंसितुमर्हसि।
येन त्वं दुर्विनीतेन वने विक्रम्य निर्जिता ॥ 3.19.12 ॥
इति भ्रातुर्वचः श्रुत्वा क्रुद्धस्य च विशेषतः।
ततः शूर्पणखा वाक्यं सबाष्पमिदमब्रवीत् ॥ 3.19.13 ॥
तरुणौ रुपसम्पन्नौ सुकुमारौ महाबलौ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥ 3.19.14 ॥
फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ।
पुत्रौ दशरथस्यास्तां भ्रातारौ रामलक्ष्मणौ ॥ 3.19.15 ॥
गन्धर्वराजप्रतिमौ पार्थिवव्यञ्जनान्वितौ।
देवौ वा मानुषौ वा तौ न तर्कयितुमुत्सहे ॥ 3.19.16 ॥
तरुणी रूपम्पन्ना सर्वाभरणभृषिता।
दृष्टा तत्र मया नारी तयोर्मध्ये सुमध्यमा ॥ 3.19.17 ॥
ताभ्यामुभाभ्यां सम्भूय प्रमदामधिकृत्य ताम्।
इमामवस्थां नीताहं यथानाथासती तथा ॥ 3.19.18 ॥
तस्याश्चानृजुवृत्तायास्तयोश्च हतयोरहम्।
सफेनं पातुमिच्छामि रुधिरं रणमूर्धनि ॥ 3.19.19 ॥
एष मे प्रथमः कामः कृतस्तात त्वया भवेत्।
तस्यास्तयोश्च रुधिरं पिबेयमहमाहवे ॥ 3.19.20 ॥
इति तस्यां ब्रुवाणायां चतुर्दश महाबलान्।
व्यादिदेश खरः क्रुद्धो राक्षसानन्तकोपमान् ॥ 3.19.21 ॥
मानुषौ शस्त्रसम्पन्नौ चीरकृष्णाजिनाम्बरौ।
प्रविष्टौ दण्डकारण्यं घोरं प्रमदया सह ॥ 3.19.22 ॥
तौ हत्वा तां च दुर्वृत्तामपावर्तितुमर्हथ।
इयं च रुधिरं तेषां भगिनी मम पास्यति ॥ 3.19.23 ॥
मनोरथोऽयमिष्टोस्या भगिन्या मम राक्षसाः।
शीघ्रं सम्पाद्यतां तौ च प्रमथ्य स्वेन तेजसा ॥ 3.19.24 ॥
इति प्रतिसमादिष्टा राक्षसास्ते चतुर्दश।
तत्र जग्मुस्तया सार्धं घना वातेरिता यथा ॥ 3.19.25 ॥
ततस्तु ते तं समुदग्रतेजसं तथापि तीक्ष्णप्रदरा निशाचराः।
न शेकुरेनं सहसा प्रमर्दितुं वनद्विपा दीप्तमिवाग्निमुत्थितम् ॥ 3.19.26 ॥