०१८ शूर्पणखाशासनम्

ततः शूर्पणखां रामः कामपाशावपाशिताम्।
स्वच्छया श्लक्ष्णया वाचा स्मितपूर्वमथाब्रवीत् ॥ 3.18.1 ॥
कृतदारोऽस्मि भवति भार्येयं दयिता मम।
त्वद्विधानां तु नारीणां सुदुःखा ससपत्नता ॥ 3.18.2 ॥
अनुजस्त्वेष मे भ्राता शीलवान् प्रियदर्शनः।
श्रीमानाकृतदारश्च लक्ष्मणो नाम वीर्यवान् ॥ 3.18.3 ॥
अपूर्वी भार्यया चार्थी तरुणः प्रियदर्शनः।
अनुरूपश्च तेभर्ता रूपस्यास्य भविष्यति ॥ 3.18.4 ॥
एनं भज विशालाक्षि भर्तारं भ्रातरं मम।
असपत्ना वरारोहे मेरुमर्कप्रभा यथा ॥ 3.18.5 ॥
इति रामेण सा प्रोक्ता राक्षसी काममोहिता।
विसृज्य रामं सहसा ततो लक्ष्मणमब्रवीत् ॥ 3.18.6 ॥
अस्य रूपस्य ते युक्ता भार्याहं वरवर्णिनी।
मया सह सुखं सर्वान् दण्डकान् विचरिष्यसि ॥ 3.18.7 ॥
एवमुक्तस्तु सौमित्री राक्षस्या वाक्यकोविदः।
ततः शूर्पनखीं स्मित्वा लक्ष्मणो युक्तमब्रवीत् ॥ 3.18.8 ॥
कथं दासस्य मे दासी भार्या भवितुमिच्छसि।
सोऽहमार्येण परवान् भ्रात्राकमलवर्णिनि ॥ 3.18.9 ॥
समृद्धार्थस्य सिद्धार्थामुदितामलवर्णिनी।
आर्यस्य त्वं विशालाक्षि भार्या भव यवीयसी ॥ 3.18.10 ॥
एनां विरूपामसतीं करालां निर्णतोदरीम्।
भार्यां वृद्धां परित्यज्य त्वामेवैष भजिष्यति ॥ 3.18.11 ॥
को हि रूपमिदं श्रेष्ठं सन्त्यज्य वरवर्णिनि।
मानुषीषु वरारोहे कुर्याद्भावं विचक्षणः ॥ 3.18.12 ॥
इति सा लक्ष्मणेनोक्ता कराला निर्णतोदरी।
मन्यते तद्वचस्तथ्यं परिहासाविचक्षणा ॥ 3.18.13 ॥
सा रामं पर्णशालायामुपविष्टं परन्तपम्।
सीतया सह दुर्धर्षमब्रवीत् काममोहिता ॥ 3.18.14 ॥
एनां विरूपामसतीं करालां निर्णतोदरीम्।
वृद्धां भार्यामवष्टभ्य मां न त्वं बहुमन्यसे ॥ 3.18.15 ॥
अद्येमां भक्षयिष्यामि पश्यतस्तव मानुषीम्।
त्वया सह चरिष्यामि निस्सपत्ना यथासुखम् ॥ 3.18.16 ॥
इत्युक्त्वा मृगशावाक्षीमलातसदृशेक्षणा।
अभ्यधावत् सुसङ्क्रुद्धा महोल्का रोहिणीमिव ॥ 3.18.17 ॥
तां मृत्युपाशप्रतिमामापतन्तीं महाबलः।
निगृह्य रामः कुपितस्ततो लक्ष्मणमब्रवीत् ॥ 3.18.18 ॥
क्रूरैरनार्यैः सौमित्रे परिहासः कथञ्चन।
न कार्यः पश्य वैदेहीं कथञ्चित् सौम्य जीवतीम् ॥ 3.18.19 ॥
इमां विरूपामसतीमतिमत्तां महोदरीम्।
राक्षसीं पुरुषव्याघ्र विरूपयितुमर्हसि ॥ 3.18.20 ॥
इत्युक्तो लक्ष्मणस्तस्याः क्रुद्धो रामस्य पार्श्वतः।
उद्धत्य खङ्गं चिच्छेद कर्णनासं महाबलः ॥ 3.18.21 ॥
निकृत्तकर्णनासा तु विस्वरं सा विनद्य च।
यथागतं प्रदुद्राव घोरा शूर्पणखा वनम् ॥ 3.18.22 ॥
सा विरूपा महाघोरा राक्षसी शोणितोक्षिता।
ननाद विविधान्नादान् यथा प्रावृषि तोयदः ॥ 3.18.23 ॥
सा विक्षरन्ती रुधिरं बहुधा घोरदर्शना।
प्रगृह्य बाहू गर्जन्ती प्रविवेश महावनम् ॥ 3.18.24 ॥
ततस्तु सा राक्षससङ्घसंवृतं खरं जनस्थानगतं विरूपिता।
उपेत्य तं भ्रातरमुग्रदर्शनं पपात भूमौ गगनाद्यथाऽशनिः ॥ 3.18.25 ॥
ततः सभार्यं भयमोहमूर्च्छिता सलक्ष्मणं राघवमागतं वनम्।
विरूपणं चात्मनि शोणितोक्षिता शशंस सर्वं भगिनी खरस्य सा ॥ 3.18.26 ॥