कृताभिषेको रामस्तु सीता सौमित्रिरेव च।
तस्माद्गोदावरीतीरात्ततो जग्मुः स्वामाश्रमम् ॥ 3.17.1 ॥
आश्रमं तमुपागम्य राघवः सह लक्ष्मणः।
कृत्वा पौर्वह्णिकं कर्म पर्णशालामुपागमत् ॥ 3.17.2 ॥
उवास सुखितस्तत्र पूज्यमानो महर्षिभिः।
लक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः ॥ 3.17.3 ॥
स रामः पर्णशालायामासीनः सह सीतया।
विरराज महाबाहुश्चित्रया चन्द्रमा इव ॥ 3.17.4 ॥
तथासीनस्य रामस्य कथासंसक्तचेतसः।
तं देशं राक्षसी काचिदाजगाम यदृच्छाया ॥ 3.17.5 ॥
सा तु शूर्मणखा नाम दशग्रीवस्य रक्षसः।
भगिनी राममासाद्य ददर्श त्रिदशोपमम् ॥ 3.17.6 ॥
सिंहोरस्कं महाबाहुं पद्मपत्त्रनिभेक्षणम्।
आजानुबाहुं दीप्तास्यमतीव प्रियदर्शनम् ॥ 3.17.7 ॥
गजविक्रान्तगमनं जटामण्डलधारिणम्।
सुकुमारं महासत्त्वं पार्थिवव्यञ्जनान्वितम् ॥ 3.17.8 ॥
राममिन्दीवरश्यामं कन्दर्पसदृशप्रभम्।
बभूवेन्द्रोपमं दृष्टवा राक्षसी काममोहिता ॥ 3.17.9 ॥
सुमुखं दुर्मुखी रामं वृत्तमध्यं महोदरी।
विशालाक्षं विरूपाक्षी सुकेशं ताम्रमूर्धजा ॥ 3.17.10 ॥
प्रीतिरूपं विरूपा सा सुस्वरं भैरवस्वरा।
तरुणं दारुणा वृद्धा दक्षिणं वामभाषिणी ॥ 3.17.11 ॥
न्यायवृत्तं सुदुर्वृत्ता प्रियमप्रियदर्शना।
शरीरजसमाविष्टा राक्षसी वाक्यमब्रवीत् ॥ 3.17.12 ॥
आगतस्त्वमिमं देशं कथं राक्षससेवितम्।
किमागमनकृत्यं ते तत्त्वमाख्यातुमर्हसि ॥ 3.17.13 ॥
एवमुक्तस्तु राक्षस्या शूर्पनख्या परन्तपः।
ऋजुबुद्धितया सर्वमाख्यातुमुपचक्रमे ॥ 3.17.14 ॥
अनृतं नहि रामस्य कदाचिदपि सम्मतम्।
विशेषेणाश्रमस्थस्य समीपे स्त्रीजनस्य च ॥ 3.17.15 ॥
आसीद्दशरथो नाम राजा त्रिदशविक्रमः।
तस्याहमग्रजः पुत्रो रामो नाम जनैःश्रुतः ॥ 3.17.16 ॥
भ्राताऽयं लक्ष्मणो नाम यमीयान् मामनुव्रतः ॥ 3.17.17 ॥
इयं भार्या च वैदेही मम सीतेति विश्रुता।
नियोगात्तु नरेन्द्रस्य पितुर्मातुश्च यन्त्रितः ॥ 3.17.18 ॥
घर्मार्थं धर्मकाङ्क्षी च वनं वस्तुमिहागतः।
त्वां तु वेदितुमिच्छामि कथ्यतां काऽसि कस्य वा ॥ 3.17.19 ॥
नहि तावन्मनोज्ञाङ्गी राक्षसी प्रतिभासि मे।
इह वा किन्निमित्तं त्वमागता ब्रूहि तत्त्वतः ॥ 3.17.20 ॥
साऽब्रवीद्वचनं श्रुत्वा राक्षसी मदनार्दिता।
श्रूयतां राम वक्ष्यामि तत्त्वार्थं वचनं मम ॥ 3.17.21 ॥
अहं शूर्पणखा नाम राक्षसी कामरूपिणी।
अरण्यं विचरामीदमेका सर्वभयङ्करा ॥ 3.17.22 ॥
रावणो नाम मे भ्राता बलीयान् राक्षसेश्वरः।
वीरो विश्रवसः पुत्रो यदि ते श्रोत्रमागतः ॥ 3.17.23 ॥
प्रवृद्धनिद्रश्च सदा कुम्भकर्णो महाबलः।
विभीषणस्तु धर्मात्मा न तु राक्षसचेष्टितः ॥ 3.17.24 ॥
तानहं समतिक्रान्ता राम त्वापूर्वदर्शनात्।
समुपेतास्मि भावेन भर्तारं पुरुषोत्तमम् ॥ 3.17.25 ॥
अहं प्रभावमम्पन्ना स्वच्छन्दबलगामिनी।
चिराय भव मे भर्ता सीतया किं करिष्यसि ॥ 3.17.26 ॥
विकृता च विरूपा च न चेयं सदृशी तव।
अहमेवानुरूपा ते भार्यारूपेण पश्य माम् ॥ 3.17.27 ॥
इमां विरूपामसतीं करालां निर्णतोदरीम्।
अनेन ते सह भ्रात्रा भक्षयिष्यामि मानुषीम् ॥ 3.17.28 ॥
ततः पर्वतशृङ्गाणि वनानि विविधानि च।
पश्यन् सह मया कान्त दण्डकान् विचरिष्यसि ॥ 3.17.29 ॥
इत्येवमुक्तः काकुत्स्थः प्रहस्य मदिरेक्षणाम्।
इदं वचनमारेभे वक्तुं वाक्यविशारदः ॥ 3.17.30 ॥