वसतस्तस्य तु सुखं राघवस्य महात्मनः।
शरद्व्यपाये हेमन्त ऋतुरिष्टः प्रवर्तते ॥ 3.16.1 ॥
स कदाचित्प्रभातायां शर्वर्यां रघुनन्दनः।
प्रययावभिषेकार्थं रम्यां गोदावरीं नदीम् ॥ 3.16.2 ॥
प्रह्वः कलशहस्तस्तं सीतया सह वीर्यवान्।
पृष्ठतोऽनुव्रजन् भ्राता सौमित्रिरिदमब्रवीत् ॥ 3.16.3 ॥
अयं स कालः सम्प्राप्तः प्रियो यस्ते प्रियंवद।
अलङ्कृत इवाभाति येन संवत्सरः शुभः ॥ 3.16.4 ॥
नीहारपरुषो लोकः पृथिवी सस्यशालिनी।
जलान्यनुपभोग्यानि सुभगो हव्यवाहनः ॥ 3.16.5 ॥
नवाग्रयणपूजाभिरभ्यर्च्य पितृदेवताः।
कृताग्रयणकाः काले सन्तो विगतकल्मषाः ॥ 3.16.6 ॥
प्राज्यकामा जनपदाः सम्पन्नतरगोरसाः।
विचरन्ति महीपाला यात्रास्था विजिगीषवः ॥ 3.16.7 ॥
सेवमाने दृढं सूर्ये दिशमन्तकसेविताम्।
विहीनतिलकेव स्त्री नोत्तरा दिक्र प्रकाशते ॥ 3.16.8 ॥
प्रकृत्या हिमकोशाढ्यो दूरसूर्यश्च साम्प्रतम्।
यथार्थनामा सुव्यक्तं हिमवान् हिमवान् गिरिः ॥ 3.16.9 ॥
अत्यन्तसुखसञ्चारा मध्याह्ने स्पर्शतः सुखाः।
दिवसाः सुभगादित्याश्छायासलिलदुर्भगाः ॥ 3.16.10 ॥
मृदुसूर्याः सनीहाराः पटुशीताः समारूताः।
शून्यारण्या हिमध्वस्ता दिवसा भान्ति साम्प्रतम् ॥ 3.16.11 ॥
निवृत्ताकाशशयनाः पुष्यनीता हिमारूणाः।
शीता वृद्धतरायामास्त्रियामा यान्ति साम्प्रतम् ॥ 3.16.12 ॥
रविसङ्क्रान्तसौभाग्यस्तुषारारुणमण्डलः।
निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ॥ 3.16.13 ॥
ज्योत्स्नी तुषारमलिना पौर्णमास्यां न राजते।
सीतेव चातपश्यामा लक्ष्यते न तु शोभते ॥ 3.16.14 ॥
प्रकृत्या शीतलस्पर्शो हिमविद्धश्च साम्प्रतम्।
प्रवाति पश्चिमो वायुः काले द्विगुणशीतलः ॥ 3.16.15 ॥
बाष्पच्छन्नान्यरण्यानि यवगोधूमवन्ति च।
शोभन्तेऽभ्युदिते सूर्ये नदद्भिः क्रौञ्चसारसैः ॥ 3.16.16 ॥
खर्जूरपुष्पाकृतिभिः शिरोभिः पूर्णतण्डुलैः।
शोभन्ते किञ्चिदानम्राः शालयः कनकप्रभाः ॥ 3.16.17 ॥
मयूखैरुपसर्पद्भिर्हिमनीहारसंवृतैः।
दूरमभ्युदितः सूर्यः शशाङ्क इव लक्ष्यते ॥ 3.16.18 ॥
अग्राह्यवीर्यः पूर्वाह्णे मध्यह्ने स्पर्शतः सुखः।
संरक्तः किञ्चिदापाण्डुरातपः शोभते क्षितौ ॥ 3.16.19 ॥
अवश्यायनिपातेन किञ्चित्प्रक्लिन्नशाद्वला।
वनानां शोभते भूमिर्निविष्टतरुणातपा ॥ 3.16.20 ॥
स्पृशंस्तु विपुलं शीतमुदकं द्विरदः सुखम्।
अत्यन्ततृषितो वन्यः प्रतिसंहरते करम् ॥ 3.16.21 ॥
एते हि समुपासीना विहगा जलचारिणः।
न विगाहन्ति सलिलमप्रगल्भा इवाहवम् ॥ 3.16.22 ॥
अवश्यायतमोनद्धा नीहारतमसावृताः।
प्रसुप्ता इव लक्ष्यन्ते विपुष्पा वनराजयः ॥ 3.16.23 ॥
बाष्पसञ्छन्नसलिला रुतविज्ञेयसारसाः।
हिमार्द्रवालुकैस्तीरैः सरितो भान्ति साम्प्रतम् ॥ 3.16.24 ॥
तुषारपतनाच्चैव मृदुत्वाद्भास्करस्य च।
शैत्यादगाग्रस्थमपि प्रायेण रसवज्जलम् ॥ 3.16.25 ॥
जराजर्झरितैः पद्मैः शूर्णकेसरकर्णिकैः।
नालशेषैर्हिमध्वस्तैर्न भान्ति कमलाकराः ॥ 3.16.26 ॥
अस्मिंस्तु पुरुषव्याघ्रः काले दुःखसमन्वितः।
तपश्चरति धर्मात्मा त्वद्भक्त्या भरतः पुरे ॥ 3.16.27 ॥
त्यक्त्वा राज्यं च मानं च भोगांश्च विविधान् बहून्।
तपस्वी नियताहारः शेते शीते महीतले ॥ 3.16.28 ॥
सोऽपि वेलामिमां नूनमभिषेकार्थमुद्यतः।
वृतः प्रकृतिभिर्नित्यं प्रयाति सरयूनदीम् ॥ 3.16.29 ॥
अत्यन्तसुखसंवृद्धः सुकुमारः सुखोचितः।
कथं न्वपररात्रेषु सरयूमवगाहते ॥ 3.16.30 ॥
पद्मपत्त्रेक्षणो वीरः शयामो निरुदरो महान्।
धर्मज्ञः सत्यवादी च ह्रीनिषेधो जितेन्द्रियः ॥ 3.16.31 ॥
प्रियाभिभाषी मधुरो दीर्घबाहुररिन्दमः।
सन्त्यज्य विविधान् भोगानार्यं सर्वात्मना श्रितः ॥ 3.16.32 ॥
जितः स्वर्गस्तव भ्रात्रा भरतेन महात्मना।
वनस्थमपि तापस्ये यस्त्वामनुविधीयते ॥ 3.16.33 ॥
न पित्र्यमनुवर्तन्ते मातृकं द्विपदा इति।
ख्यातो लोकप्रवादोऽयं भरतेनान्यथा कृतः ॥ 3.16.34 ॥
भर्ता दशरथो यस्याः साधुश्च भरतः सुतः।
कथं नु साम्बा कैकेयी तादृशी क्रूरशीलिनी ॥ 3.16.35 ॥
इत्येवं लक्ष्मणे वाक्यं स्नेहाद् ब्रुवति धार्मिके।
परिवादं जनन्यास्तमसहन् राघवोऽब्रवीत् ॥ 3.16.36 ॥
न तेऽम्बा मध्यमा तात गर्हितव्या कथञ्चन।
तामेवेक्ष्वाकुनाथस्य भरतस्य कथां कुरु ॥ 3.16.37 ॥
निश्चितापि हि मे बुद्धिर्वनवासे दृढब्रता।
भरतस्नेहसन्तप्ता बालिशीक्रियते पुनः ॥ 3.16.38 ॥
संस्मराम्यस्य वाक्यानि प्रियाणि मधुराणि च।
हृद्यान्यमृतकल्पानि मनः प्रह्लादनानि च ॥ 3.16.39 ॥
कदान्वहं समेष्यामि भरतेन महात्मना।
शत्रुघ्नेन च वीरेण त्वाया च रघुनन्दन ॥ 3.16.40 ॥
इत्येवं विलपंस्तत्र प्राप्य गोदावरीं नदीम्।
चक्रेऽभिषेकं काकुत्स्थः सानुजः सह सीतया ॥ 3.16.41 ॥
तर्पयित्वाथ सलिलैस्ते पितॄन् दैवतानि च।
स्तुवन्ति स्मोदितं सूर्यं देवताश्च समाहिताः ॥ 3.16.42 ॥
कृताभिषेकः स रराज रामः सीताद्वितीयः सह लक्ष्मणेन।
कृताभिषेको गिरिराजपुत्र्या रुद्रः सनन्दी भगवानिवेशः ॥ 3.16.43 ॥