ततः पञ्चवटीं गत्वा नानाव्यालमृगायुताम्।
उवाच भ्रातरं रामः सौमित्रिं दीप्ततेजसम् ॥ 3.15.1 ॥
आगताः स्म यथोद्दिष्टममुं देशं महर्षिणा।
अयं पञ्चवटीदेशः सौम्य पुष्पितपादपः ॥ 3.15.2 ॥
सर्वतश्चार्यतां दृष्टिः कानने निपुणो ह्यसि।
आश्रमः कतरस्मिन्नो देशे भवति सम्मतः ॥ 3.15.3 ॥
रमते यत्र वैदेही त्वमहं चैव लक्ष्मण।
तादृशो दृश्यातां देशः सन्निकृष्टजलाशयः ॥ 3.15.4 ॥
वनरामण्यकं यत्र स्थलरामण्यकं तथा।
सन्निकृष्टं च यत्र स्यात् समित्पुष्पकुशोदकम् ॥ 3.15.5 ॥
एवमुक्तस्तु रामेण लक्ष्मणः संयताञ्जलिः।
सीतासमक्षं काकुत्स्थमिदं वचनमब्रवीत् ॥ 3.15.6 ॥
परवानस्मि काकुस्थ त्वयि वर्षशतं स्थिते।
स्वयं तु रुचिरे देशे क्रियातामिति मां वद ॥ 3.15.7 ॥
सुप्रीतस्तेन वाक्येन लक्ष्मणस्य महात्मनः।
विमृशन् रोचयामास देशं सर्वगुणान्वितम् ॥ 3.15.8 ॥
स तं रुचिरमाक्रम्य देशमाश्रमकर्मणि।
हस्तौ गृहीत्वा हस्तेन रामः सौमित्रिमब्रवीत् ॥ 3.15.9 ॥
अयं देशः समः श्रीमान् पुष्पितैस्तरुभिर्वृतः।
इहाश्रमपदं सौम्य यथावत्कर्तुमर्हसि ॥ 3.15.10 ॥
इयमादित्यसङ्काशैः पद्मैः सुरभिगन्धिभिः।
अदूरे दृश्यते रम्या पद्मिनी पद्मशोभिता ॥ 3.15.11 ॥
इयं गोदावरी रम्या पुष्पितैस्तरुभिर्वृता।
हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता ॥ 3.15.12 ॥
नातिदूरेण चासन्ने मृगयूथनिपीडिताः।
मयूरनादिता रम्याः प्रांशवो बहुकन्दराः ॥ 3.15.13 ॥
दृश्यन्ते गिरयः सौम्य फुल्लैस्तरुभिरावृताः ॥ 3.15.14 ॥
सौवर्णै राजतैस्ताम्रैर्देशे देशे च धातुभिः।
गवाक्षिता इवाभान्ति गजाः परमभक्तिभिः ॥ 3.15.15 ॥
सालैस्तालैस्तमालैश्च खर्जूरपनसाम्रकैः।
निवारैस्तिमिशैश्चैव पुन्नागैश्चोपशोभिताः ॥ 3.15.16 ॥
चूतैरशोकैस्तिलकैश्चम्पकैः केतकैरपि।
पुष्पगुल्मलतोपेतैस्तैस्तैस्तरुभिरावृताः ॥ 3.15.17 ॥
चन्दनैः स्पन्दनैर्नीपैः पर्णासैर्लिकुचैरपि।
धवाश्वकर्णखदिरैः शमीकिंशुकपाटलैः ॥ 3.15.18 ॥
इदं पुण्यमिदं मेध्यमिदं बहुमृगद्विजम्।
इह वत्स्यामि सौमित्रे सार्धमेतेन पक्षिणा ॥ 3.15.19 ॥
एवमुक्तस्तु रामेण लक्ष्मणः परवीरहा।
अचिरेणाश्रमं भ्रातुश्चकार सुमहाबलः ॥ 3.15.20 ॥
पर्णशालां सुविपुलां तत्र सङ्खातमृत्तिकाम्।
सुस्तम्भां मस्करैर्दीर्घैः कृतवंशां सुशोभनाम् ॥ 3.15.21 ॥
शमीशाखाभिरास्तीर्य दृढपाशावपाशिताम्।
कुशकाशशरैः पर्णैः सुपरिच्छादितां तथा ॥ 3.15.22 ॥
समीकृततलां रम्यां चकार लघुविक्रमः।
निवासं राघवस्यार्थे प्रेक्षणीयमनुत्तमम् ॥ 3.15.23 ॥
स गत्वा लक्ष्मणः श्रीमान् नदीं गोदावरीं तदा।
स्नात्वा पद्मानि चादाय सफलः पुनरागतः ॥ 3.15.24 ॥
ततः पुष्पबलिं कृत्वा शान्तिं च स यथाविधि।
दर्शयामास रामाय तदाश्रमपदं कृतम् ॥ 3.15.25 ॥
स तं दृष्ट्वा कृतं सौम्यमाश्रमं सह सीतया।
राघवः पर्णशालायां हर्षमाहारयद्भृशम् ॥ 3.15.26 ॥
सुसंहृष्टः परिष्वज्य बाहुभ्यां लक्ष्मणं तदा।
अतिस्निग्धं च गाढं च वचनं चेदमब्रवीत् ॥ 3.15.27 ॥
प्रीतोऽस्मि ते महत्कर्म त्वया कृतमिदं प्रभो।
प्रदेयो यन्निमित्तं ते परिष्वङ्गो मया कृतः ॥ 3.15.28 ॥
भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण।
त्वाया पुत्रेण धर्मात्मा न संवृत्तः पिता मम ॥ 3.15.29 ॥
एवं लक्ष्मणमुक्त्वा तु राघवो लक्ष्मिवर्धनः।
तस्मिन् देशे बहुफले न्यवसत् सुसुखं वशी ॥ 3.15.30 ॥
कञ्चित् कालं स धर्मात्मा सीतया लक्ष्मणेन च।
अन्वास्यमानो न्यवसत् स्वर्गलोके यथामरः ॥ 3.15.31 ॥