अथ पञ्चवटीं गच्छन्नन्तरा रघुनन्दनः।
आससाद महाकायं गृध्रं भीमपराक्रमम् ॥ 3.14.1 ॥
तं दृष्ट्वा तौ महाभागौ वटस्थं रामलक्ष्मणौ।
मेनाते राक्षसं पक्षिं ब्रुवाणौ को भवानिति ॥ 3.14.2 ॥
स तौ मधुरया वाचा सौम्यया प्रीणयन्निव।
उवाच वत्स मां विद्धि वयस्यं पितुरात्मनः ॥ 3.14.3 ॥
स तं पितृसखं बुद्ध्वा पूजयामास राघवः।
स तस्य कुलमव्यग्रमथ पप्रच्छ नाम च ॥ 3.14.4 ॥
रामस्य वचनं श्रुत्वा सर्वभूतसमुद्भवम्।
आचचक्षे द्विजस्तस्मै कुलमात्मानमेव च ॥ 3.14.5 ॥
पूर्वकाले महाबाहो ये प्रजापतयोऽभवन्।
तान्मे निगदतः सर्वानादितः शृणु राघव ॥ 3.14.6 ॥
कर्दमः प्रथमस्तेषां विश्रुतस्तदनन्तरः।
शेषश्च संश्रयश्चैव बहुपुत्रश्च वीर्यवान् ॥ 3.14.7 ॥
स्थाणुर्मरीचिरत्रिश्च क्रुतश्चैव महाबलः।
पुलस्त्यश्चाङ्गिराश्चैव प्रचेताः पुलहस्तथा ॥ 3.14.8 ॥
दक्षो विवस्वानपरोऽरिष्टनेमिश्च राघव।
कश्यपश्च महातेजास्तेषामासीच्च पश्चिमः ॥ 3.14.9 ॥
प्रजापतेस्तु दक्षस्य बभूवुरिति विश्रुतम्।
षष्टिर्दुहितरो राम यशस्विन्यो महायशः ॥ 3.14.10 ॥
अदितिं च दितिं चैव दनुमप्यथ कालिकाम्।
ताम्रां क्रोधवशां चैव मनुं चाप्यनलामपि ॥ 3.14.11 ॥
तास्तु कन्यास्ततः प्रीतः कश्यपः पुनरब्रवीत्।
पुत्रांस्रैलोक्यभर्तॄन् वै जनयिष्यथ मत्समान् ॥ 3.14.12 ॥
अदितिस्तन्मना राम दितिश्च मनुजर्षभ।
कालिका च महाबाहो शेषास्त्वमनसोऽभवन् ॥ 3.14.13 ॥
अदित्यां जज्ञिरे देवास्त्रयस्त्रिंशदरिन्दम।
आदित्या वसवो रुद्रा ह्यश्विनौ च परन्तप ॥ 3.14.14 ॥
दितिस्त्वजनयत्पुत्रान् दैत्यांस्तात यशस्विनः।
तेषामियं वसुमती पुरासीत् सवनार्णवा ॥ 3.14.15 ॥
दनुस्त्वजनयत् पुत्रमश्वग्रीवमरिन्दम।
नरकं कालकं चैव कालिकापि व्यजायत ॥ 3.14.16 ॥
क्रौञ्चीं भासीं तथा श्येनीं धृतराष्ट्रीं तथा शुकीम्।
ताम्रापि सुषुवे कन्याः पञ्चैता लोकविश्रुताः ॥ 3.14.17 ॥
उलूकान् जनयत् क्रौञ्ची भासी भासान् व्यजायत।
श्येनी श्येनांश्च गृध्रांश्च व्यजायत सुतेजसः ॥ 3.14.18 ॥
धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः।
चक्रवाकांश्च भद्रं ते विजज्ञे सापि भामिनी ॥ 3.14.19 ॥
शुकी नतां विजज्ञे तु नताया विनता सुता ॥ 3.14.20 ॥
दश क्रोधवशा राम विजज्ञे ह्यात्मसम्भवाः।
मृगीं च मगमन्दां च हरिं भद्रमदामपि ॥ 3.14.21 ॥
मातङ्गीमपि शार्दूलीं श्वोतां च सुरभिं तथा।
सर्वलक्षणसम्पन्नां सुरसां कद्रुकामपि ॥ 3.14.22 ॥
अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तम।
ऋक्षाश्च मृगमन्दायाः सृमराश्चमरास्तथा ॥ 3.14.23 ॥
हर्याश्च हरयोऽपत्यं वानराश्च तरस्विनः।
ततस्त्विरावतीं नाम जज्ञे भद्रमदा सुताम् ॥ 3.14.24 ॥
तस्यास्त्वैरावतः पुत्रो लोकनाथो महागजः।
मातङ्गास्त्वथ मातङ्ग्या अपत्यं मनुजर्षभ ॥ 3.14.25 ॥
गोलाङ्गूलांश्च शार्दूली व्याघ्रांश्चाजनयत् सुतान्।
दिशागजांश्च काकुत्स्थ श्वेताप्यजनयत् सुतान् ॥ 3.14.26 ॥
ततो दुहितरौ राम सुरभिर्द्वे व्यजायत।
रोहिणीं नाम भद्रं ते गन्धर्वीं च यशस्विनीम् ॥ 3.14.27 ॥
रोहिण्यजनयद्गा वै गन्धर्वी वाजिनः सुतान्।
सुरसाऽजनयन्नागान् राम कद्रूस्तु पन्नगान् ॥ 3.14.28 ॥
ब्राह्मणान् क्षत्त्रियान् वैश्यान् शूद्रांश्च मनजर्षभ।
सर्वान् पुण्यफलान् वृक्षाननलापि व्याजायत ॥ 3.14.29 ॥
विनता च शुकी पौत्री कद्रूश्च सुरसा स्वसा।
कद्रूर्नागं सहस्रस्यं विजज्ञे धरणीधरम् ॥ 3.14.30 ॥
द्वौ पुत्रौ विनतायास्तु गरुडोऽरुण एव च।
तस्माज्जातोऽहमरुणात् सम्पातिस्तु ममाग्रजः ॥ 3.14.31 ॥
जटायुरिति मां विद्धि श्येनीपुत्रमरिन्दम ॥ 3.14.32 ॥
इदं दुर्गं हि कान्तारं मृगराक्षससेवितम्।
सीतां च तात रक्षिष्ये त्वयि याते सलक्ष्मणे ॥ 3.14.33 ॥
जटायुषं तं प्रतिपूज्य राघवो मुदा पिरष्वज्य च सन्नतोऽभवत्।
पितुर्हि शुश्राव सखित्वमात्मवान् जटायुषा सङ्कथितं पुनः पुनः ॥ 3.14.34 ॥
स तत्र सीतां परिदाय मैथिलीं सहैव तेनातिबलेन पक्षिणा।
जगाम तां पञ्चवटीं सलक्ष्मणो रिपून् दिधक्षन् शलभानिवानलः ॥ 3.14.35 ॥