०१३ अगस्त्य-रामसंवादः

राम प्रीतोऽस्मि भद्रं ते परितुष्टोऽस्मि लक्ष्मण।
अभिवादयितुं यन्मां प्राप्तौ स्थः सह सीतया ॥ 3.13.1 ॥
अध्वश्रमेण वां खेदो बाधते प्रचुरश्रमः।
व्यक्तमुत्कण्ठते चापि मैथिली जनकात्मजा ॥ 3.13.2 ॥
एषा हि सुकुमारी च दुःखैश्च न विमानता।
प्राज्यदोषं वनं प्राप्ता भर्तृस्नेहप्रचोदिता ॥ 3.13.3 ॥
यथैषा रमते राम इह सीता तथा कुरु।
दुष्करं कृतवत्येषा वने त्वामनुगच्छति ॥ 3.13.4 ॥
एषा हि प्रकृतिः स्त्रीणामासृष्टे रघुनन्दन।
समस्थमनुरञ्जन्ति विषमस्थं त्यज्यन्ति च ॥ 3.13.5 ॥
शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा।
गरुडानिलयोः शैघ्र्यमनुगच्छन्ति योषितः ॥ 3.13.6 ॥
इयं तु भवतो भार्या दोषैरेतैर्विवर्जिता।
श्लाध्या च व्यपदेश्या च यथा देवी ह्यरुन्धती ॥ 3.13.7 ॥
अलङ्कृतोऽयं देशश्च यत्र सौमित्रिणा सह।
वैदेह्या चानया राम वत्स्यसि त्वमरिन्दम ॥ 3.13.8 ॥
एवमुक्तः स मुनिना राघवः संयताञ्जलिः।
उवाच प्रश्रितं वाक्यमृषिं दीप्तमिवानलम् ॥ 3.13.9 ॥
धन्योस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गवः।
गुणैः सभ्रातृभार्यस्य वरदः परितुष्यति ॥ 3.13.10 ॥
किन्तु व्यादिश मे देशं सोदकं बहुकाननम्।
यत्राश्रमपदं कृत्वा वसेयं निरतः सुखम् ॥ 3.13.11 ॥
ततोऽब्रवीन्मुनिश्रेष्ठः श्रुत्वा रामस्य तद्वचः।
ध्यात्वा मुहूर्तं धर्मात्मा धीरो धीरतरं वचः ॥ 3.13.12 ॥
इतो द्वियोजने तात बहुमूलफलोदकः।
देशो बहुमृगः श्रीमान् पञ्चवट्यभिविश्रुतः ॥ 3.13.13 ॥
तत्र गत्वाश्रमपदं कृत्वा सौमित्रिणा सह।
रंस्यसे त्वं पितुर्वाक्यं यथोक्तमनुपालयन् ॥ 3.13.14 ॥
कालोऽयं गतभूयिष्ठो यः कालस्तव राघव।
समयो यो नरेन्द्रेण कृतो दशरथेन ते ॥ 3.13.15 ॥
धन्यस्ते जनको राम स राजा रघुनन्दन।
यस्त्वया ज्येष्ठपुत्रेण ययातिरिव तारितः ॥ 3.13.16 ॥
विदितो ह्येष वृत्तान्तो मम सर्वस्तवानघ।
तपसश्च प्रभावेन स्नेहाद्दशरथस्य च ॥ 3.13.17 ॥
हृदयस्थश्च ते छन्दो विज्ञातस्तपसा मया।
इह वासं प्रतिज्ञाय मया सह तपोवने ॥ 3.13.18 ॥
[वसन्तं त्वां जनाः सर्वे ज्ञास्यन्ति रघुनन्दन।] अतश्च त्वामहं ब्रूमि गच्छ पञ्चवटीमिति ॥ 3.13.19 ॥
स हि रम्यो वनोद्देशो मैथिली तत्र रंस्यते।
स देशः श्लाघनीयश्च नातिदूरे च राघव ॥ 3.13.20 ॥
प्राज्यमूलफलश्चैव नानाद्विजगणायुतः।
विविक्तश्च महाबाहो पुण्यो रम्यस्तथैव च ॥ 3.13.21 ॥
भवानपि सदारश्च शक्तश्च परिरक्षणे।
अपि चात्र वसन् राम तापसान् पालयिष्यसि ॥ 3.13.22 ॥
एतदालक्ष्यते वीर मधूकानां महद्वनम्।
उत्तरेणास्य गन्तव्यं न्यग्रोधमभिगच्छता ॥ 3.13.23 ॥
ततः स्थलमुपारुह्य पर्वतस्याविदूरतः।
ख्यातः पञ्चवटीत्येव नित्यपुष्पितकाननः ॥ 3.13.24 ॥
अगस्त्येनैवमुक्तस्तु रामः सौमित्रिणा सह।
सत्कृत्यामन्त्रयामास तमृषिं सत्यवादिनम् ॥ 3.13.25 ॥
तौ तु तेनाभ्यनुज्ञातौ कृतपादाभिवन्दनौ।
तदाश्रमात्पञ्चवटीं जग्मतुः सह सीतया ॥ 3.13.26 ॥
गृहीतचापौ तु नराधिपात्मजौ विषक्ततूणौ समरेष्वकातरौ।
यथोपदिष्टेन पथा महर्षिणा प्रजग्मतुः पञ्चवटीं समाहितौ ॥ 3.13.27 ॥