स प्रविश्याश्रमपदं लक्ष्मणो राघवानुजः।
अगस्त्यशिष्यमासाद्य वाक्यमेतदुवाच ह ॥ 3.12.1 ॥
राजा दशरथो नाम ज्येष्ठस्तस्य सुतो बली।
रामः प्राप्तो मुनिं द्रष्टुं भार्यया सह सीतया ॥ 3.12.2 ॥
लक्ष्मणो नाम तस्याहं भ्राता त्ववरजो हितः।
अनुकूलश्च भक्तश्च यदि ते श्रोत्रमागतः ॥ 3.12.3 ॥
ते वयं वनमत्युग्रं प्रविष्टाः पितृशासनात्।
द्रष्टुमिच्छामहे सर्वे भगवन्तं निवेद्यताम् ॥ 3.12.4 ॥
तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य तपोधनः।
तथेत्युक्त्वाग्निशरणं प्रविवेश निवेदितुम् ॥ 3.12.5 ॥
कृताञ्जलिरुवाचेदं रामागमनमञ्जसा।
यथोक्तं लक्ष्मणेनैव शिष्योऽगस्त्यस्य सम्मतः ॥ 3.12.6 ॥
पुत्रौ दशरथस्येमौ रामो लक्ष्मण एव च।
प्रविष्टावाश्रमपदं सीतया सह भार्यया ॥ 3.12.7 ॥
द्रष्टुं भवन्तमायातौ शुश्रूषार्थमरिन्दमौ।
यदत्रानन्तरं तत्त्वमाज्ञापयितुमर्हसि ॥ 3.12.8 ॥
ततः शिष्यादुपश्रुत्य प्राप्तं रामं सलक्ष्मणम्।
वैदेहीं च महाभागामिदं वचनमब्रवीत् ॥ 3.12.9 ॥
दिष्ट्या रामश्चिरस्याद्य द्ष्टुं मां समुपागतः।
मनसा काङ्क्षितं ह्यस्य मयाप्यागमनं प्रति ॥ 3.12.10 ॥
गम्यतां सत्कृतो रामः सभार्यः सहलक्ष्मणः।
प्रवेश्यतां समीपं मे किञ्चासौ न प्रवेशितः ॥ 3.12.11 ॥
एवमुक्तस्तु मुनिना धर्मज्ञेन महात्मना।
अभिवाद्याब्रवीच्छिष्यस्तथेति नियताञ्जलिः ॥ 3.12.12 ॥
ततो निष्क्रम्य सम्भ्रान्तः शिष्यो लक्ष्मणमब्रवीत्।
क्वासौ रामो मुनिं द्रष्टुमेतु प्रविशतु स्वयम् ॥ 3.12.13 ॥
ततो गत्वाश्रमद्वारं शिष्येण सहलक्ष्मणः।
दर्शयामास काकुत्स्थं सीतां च जनकात्मजाम् ॥ 3.12.14 ॥
तं शिष्यः प्रश्रितो वाक्यमगस्त्यवचनं ब्रुवन्।
प्रावेशयद्यथान्यायं सत्कारार्हं सुसत्कृतम् ॥ 3.12.15 ॥
प्रविवेश ततो रामः सीतया सह लक्ष्मणः।
प्रशान्तहरिणाकीर्णमाश्रमं ह्यवलोकयन् ॥ 3.12.16 ॥
स तत्र ब्रह्मणः स्थानमग्नेः स्थानं तथैव च।
विष्णोः स्थानं महेन्द्रस्य स्थानं चैव विवस्वतः ॥ 3.12.17 ॥
सोमस्थानं भगस्थानं स्थानं कौबेरमेव च।
धातुर्विधातुः स्थाने च वायोः स्थानं तथैव च ॥ 3.12.18 ॥
नागराजस्य च स्थानमनन्तस्य महात्मनः।
स्थानं तथैव गायत्र्या वसूनां स्थानमेव च ॥ 3.12.19 ॥
स्थानं च पाशहस्तस्य वरुणस्य महात्मनः।
कार्तिकेयस्य च स्थानं धर्मस्थानं च पश्यति ॥ 3.12.20 ॥
ततः शिष्यैः परिवृतो मुनिरप्यभिनिष्पतत्।
तं ददर्शाग्रतो रामो मुनीनां दीप्ततेजसाम् ॥ 3.12.21 ॥
अब्रवीद्वचनं वीरो लक्ष्मणं लक्ष्मिवर्धनम्।
एष लक्ष्मण निष्क्रामत्यगस्त्यो भगवानृषिः ॥ 3.12.22 ॥
औदार्येणावगच्छामि निधानं तपसामिमम् ॥ 3.12.23 ॥
एवमुक्त्वा महाबाहुरगस्त्यं सूर्यवर्चसम्।
जग्राह परमप्रीतस्तस्य पादौ परन्तपः ॥ 3.12.24 ॥
अभिवाद्य तु धर्मात्मा तस्थौ रामः कृताञ्जलिः।
सीतया सह वैदेह्या तदा रामः सलक्ष्मणः ॥ 3.12.25 ॥
प्रतिजग्राह काकुत्स्थमर्चयित्वासनोदकैः।
कुशलवप्रश्नमुक्त्वा च ह्यास्यतामिति चाब्रवीत् ॥ 3.12.26 ॥
अग्निं हुत्वा प्रदायार्ध्यमतिथीन् प्रतिपूज्य च।
वानप्रस्थेन धर्मेण स तेषां भोजनं ददौ ॥ 3.12.27 ॥
प्रथमं चोपविश्याथ धर्मज्ञो मुनिपुङ्गवः।
उवाच राममासीनं प्राञ्जलिं धर्मकोविदम् ॥ 3.12.28 ॥
अन्यथा खलु काकुत्स्थ तपस्वी समुदाचरन्।
दुःसाक्षीव परे लोके स्वानि मांसानि भक्षयेत् ॥ 3.12.29 ॥
राजा सर्वस्य लोकस्य धर्मचारी महारथः।
पूजनीयश्च मान्यश्च भवान् प्राप्तः प्रियातिथिः ॥ 3.12.30 ॥
एवमुक्त्वा फलैर्मूलैः पुष्पैरन्येश्च राघवम्।
पूजयित्वा यथाकामं पुनरेव ततोऽब्रवीत् ॥ 3.12.31 ॥
इदं दिव्यं महच्चापं हेमरत्नविभूषितम् ॥ 3.12.32 ॥
वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा ॥ 3.12.33 ॥
अमोघः सूर्यसङ्काशो ब्रह्मदत्तः शरोत्तमः।
दत्तौ मम महेन्द्रेण तूणी चाक्षयसायकौ ॥ 3.12.34 ॥
सम्पूर्णौ निशितैर्बाणैर्ज्वलद्भिरिव पावकैः।
महारजत कोशोऽयमसिर्हेमविभूषितः ॥ 3.12.35 ॥
अनेन धनुषा राम हत्वा सङ्ख्ये महासुरान्।
आजहार श्रियं दीप्तां पुरा विष्णुर्दिवौकसाम् ॥ 3.12.36 ॥
तद्धनुस्तौ च तूणीरौ शरं खङ्गं च मानद।
जयाय प्रतिगृह्णीष्व वज्रं वज्रधरो यथा ॥ 3.12.37 ॥
एवमुक्त्वा महातेजाः समस्तं तद्वरायुधम्।
दत्त्वा रामाय भगवानगस्त्यः पुनरब्रवीत् ॥ 3.12.38 ॥