०११ अगस्त्यमाहात्म्यम्

अग्रतः प्रययौ रामः सीता मध्ये सुमध्यमा।
पृष्ठतस्तु धनुष्पाणिर्लक्ष्मणोऽनुजगाम ह ॥ 3.11.1 ॥
तौ पश्यमानौ विविधान् शैलप्रस्थान् वनानि च।
नदीश्च विविधा रम्या जग्मतुः सीतया सह ॥ 3.11.2 ॥
सारसांश्चक्रवाकांश्च नदीपुलिनचारिणः।
सरांसि च सपद्मानि युक्तानि जलजैः खगैः ॥ 3.11.3 ॥
यूथबद्धांश्च पृषतान् मदोन्मत्तान्विषाणिनः।
महिषांश्च वराहांश्च नागांश्च द्रुमवैरिणः ॥ 3.11.4 ॥
ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे।
ददृशुः सहिता रम्यं तटाकं योजनायतम् ॥ 3.11.5 ॥
पद्मपुष्करसम्बाधं गजयूथैरलङ्कृतम्।
सारसैर्हंसकादम्बैः सङ्कुलं जलचारिभिः ॥ 3.11.6 ॥
प्रसन्नसलिले रम्ये तस्मिन् सरसि शुश्रुवे।
गीतवादित्रनिर्घोषो न तु कश्चन दृश्यते ॥ 3.11.7 ॥
ततः कौतूहलाद्रामो लक्ष्मणश्च महाबलः।
मुनिं धर्मभृतं नाम प्रष्टुं समुपचक्रमे ॥ 3.11.8 ॥
इदमत्यद्भुतं श्रुत्वा सर्वेषां नो महामुने।
कौतूहलं महज्जातं किमिदं साधु कथ्यताम् ॥ 3.11.9 ॥
वक्तव्यं यदि चेद्विप्र नातिगुह्यमपि प्रभो ॥ 3.11.10 ॥
तेनैवमुक्तो धर्मात्मा राघवेण मुनिस्तदा।
प्रभवं सरसः कृत्स्नमाख्यातुमुपचक्रमे ॥ 3.11.11 ॥
इदं पञ्चाप्सरो नाम तटाकं सार्वकालिकम्।
निर्मितं तपसा राम मुनिना माण्डकर्णिना ॥ 3.11.12 ॥
स हि तेपे तपस्तीव्रं माण्डकर्णिर्महामुनिः।
दशवर्षसहस्राणि वायुभक्षो जलाश्रयः ॥ 3.11.13 ॥
ततः प्रव्यथिताः सर्वे देवाः साग्निपुरो गमाः।
अब्रुवन्वचनं सर्वे परस्परसमागताः ॥ 3.11.14 ॥
अस्माकं कस्यचित्स्थानमेष प्रार्थयते मुनिः।
इति संविग्नमनसः सर्वे ते त्रिदिवौकसः ॥ 3.11.15 ॥
तत्र कर्तुं तपोविघ्नं देवैः सर्वैर्नियोजिताः।
प्रधानाप्सरसः पञ्च विद्युच्चलितवर्चसः ॥ 3.11.16 ॥
अप्सरोभिस्ततस्ताभिर्मुनिर्दृष्टपरावरः।
नीतो मदनवश्यत्वं सुराणां कार्यसिद्धये ॥ 3.11.17 ॥
ताश्चैवाप्सरसः पञ्च मुनेः पत्नीत्वमागताः।
तटाके निर्मितं तासामस्मिन्नन्तर्हितं गृहम् ॥ 3.11.18 ॥
तथैवाप्सरसः पञ्च निवसन्त्यो यथासुखम्।
रमयन्ति तपोयोगान्मुनिं यौवनमास्थितम् ॥ 3.11.19 ॥
तासां सङ्क्रीडमानानामेष वादित्रनिस्वनः।
श्रूयते भूषणोन्मिश्रो गीतशब्दो मनोहरः ॥ 3.11.20 ॥
आश्चर्यमिति तस्यैतद्ववचनं भावितात्मनः।
राघवः प्रतिजग्राह सह भ्रात्रा महायशाः ॥ 3.11.21 ॥
एवं कथयमानस्य ददर्शाश्रममण्डलम्।
कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम् ॥ 3.11.22 ॥
प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः।
उवास मिनिभिः सर्वैः पूज्यमानो महायशाः ॥ 3.11.23 ॥
तथा तस्मिन् स काकुत्स्थः श्रीमत्याश्रममण्डले।
उषित्वा तु सुखं तत्र पूज्यमानो महर्षिभिः ॥ 3.11.24 ॥
जगाम चाश्रमांस्तेषां पर्यायेण तपस्विनाम्।
येषामुषितवान् पूर्वं सकाशे स महास्त्रवित् ॥ 3.11.25 ॥
क्वचित् परिदशान् मासानेकं संवत्सरं क्वचित्।
क्वचिच्च चतुरो मासान् पञ्च षट् चापरान् क्वचित् ॥ 3.11.26 ॥
अपरत्राधिकं मासादप्यर्धमधिकं क्वचित्।
त्रीन् मासानष्टमासांश्च राघवो न्यवसत् सुखम् ॥ 3.11.27 ॥
तथा संवसतस्तस्य मुनीनामाश्रमेषु वै।
रमतश्चानुकूल्येन ययुः संवसरा दश ॥ 3.11.28 ॥
परिवृत्त्य च धर्मज्ञो राघवः सह सीतया।
सुतीक्ष्णस्याश्रमं श्रीमान् पुनरेवाजगाम ह ॥ 3.11.29 ॥
स तमाश्रममासाद्य मुनिभिः प्रतिपूजितः।
तत्रापि न्यवसद्रामः किञ्चित्कालमरिन्दमः ॥ 3.11.30 ॥
अथाश्रमस्थो विनयात् कदाचित्तं महामुनिम्।
उपसीनः स काकुत्स्थः सुतीक्ष्णमिदमब्रवीत् ॥ 3.11.31 ॥
अस्मिन्नरण्ये भगवन्नगस्त्यो मुनि सत्तमः।
वसतीति मया नित्यं कथाः कथयतां श्रुतम् ॥ 3.11.32 ॥
नतु जानामि तं देशं वनस्यास्य महत्तया।
कुत्राश्रममिदं पुण्यं महर्षेस्तस्य धीमतः ॥ 3.11.33 ॥
प्रसादात्तत्रभवतः सानुजः सह सीतया।
अगस्त्यमभिगच्छेयमभिवादयितुं मुनिम् ॥ 3.11.34 ॥
मनोरथो महानेष हृदि मे परिवर्तते।
यदहं तं मुनिवरं शुश्रूषेयमपि स्वयम् ॥ 3.11.35 ॥
इति रामस्य स मुनिः श्रुत्वा धर्मात्मनो वचः।
सुतीक्ष्णः प्रत्युवाचेदं प्रीतो दशरथात्मजम् ॥ 3.11.36 ॥
अहमप्येतदेव त्वां वक्तुकामः सलक्ष्मणम्।
अगस्त्यमभिगच्छेति सीतया सह राघव ॥ 3.11.37 ॥
दिष्ट्या त्विदानीमर्थेऽस्मिन् स्वयमेव ब्रवीषि माम्।
अहमाख्यामि ते वत्स यत्रागस्त्यो महामुनिः ॥ 3.11.38 ॥
योजनान्याश्रमादस्मात्तथा चत्वारि वै ततः।
दक्षिणेन महाञ्छ्रीमानगस्त्यभ्रातुराश्रमः ॥ 3.11.39 ॥
स्थलीप्राये वनोद्देशे पिप्पलीवनशोभिते।
बहुपुष्पफले रम्ये नानाशकुनिनादिते ॥ 3.11.40 ॥
पद्मिन्यो विविधास्तत्र प्रसन्नसलिलाः शिवाः।
हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः ॥ 3.11.41 ॥
तत्रैकां रजनीं व्युष्य प्रभाते राम गम्यताम्।
दक्षिणां दिशमास्थाय वनषण्डस्य पार्श्वतः ॥ 3.11.42 ॥
तत्रागस्त्याश्रमपदं गत्वा योजनमन्तरम्।
रमणीये वनोद्देशे बहुपादपसंवृते ॥ 3.11.43 ॥
रंस्यते तत्र वैदेही लक्ष्मणश्च सह त्वया।
स हि रम्यो वनोद्देशो बहुपादपसङ्कुलः ॥ 3.11.44 ॥
यदि बुद्धिः कृता द्रष्टुमगस्त्यं तं महामुनिम्।
अद्यैव गमने बुद्धिं रोचयस्व महायशः ॥ 3.11.45 ॥
इति रामो मुनेः श्रुत्वा सह भ्रात्राभिवाद्य च।
प्रतस्थेऽगस्त्यमुद्दिश्य सानुजः सीतया सह ॥ 3.11.46 ॥
पश्यन् वनानि रम्याणि पर्वतांश्चाभ्रसन्निभान्।
सरांसि सरितश्चैव पथि मार्गवशानुगाः ॥ 3.11.47 ॥
सुतीक्ष्णेनोपदिष्टेन गत्वा तेन पथा सुखम्।
इदं परमसंहृष्टो वाक्यं लक्ष्मणमब्रवीत् ॥ 3.11.48 ॥
एतदेवाश्रमपदं नीनं तस्य महात्मनः।
अगस्त्यस्य मुनेर्भ्रातुर्द्दश्यते पुण्यकर्मणः ॥ 3.11.49 ॥
यथा हीमे वनस्यास्य ज्ञाताः पथि सहस्रशः।
सन्नताः फलभारेण पुष्पभारेण च द्रुमाः ॥ 3.11.50 ॥
पिप्पलीनां च पक्वानां वनादस्मादुपागतः।
गन्धोऽयं पवनोत्क्षिप्तः सहसा कटुकोदयः ॥ 3.11.51 ॥
तत्र तत्र च दृश्यन्ते सङ्क्षिप्ताः काष्ठसञ्चयाः।
लूनाश्च पथि दृश्न्यते दर्भा वैडूर्यवर्चसः ॥ 3.11.52 ॥
एतच्च वनमध्यस्थं कृष्णाभ्रशिखरोपमम्।
पावकस्याश्रमस्थस्य धूमाग्रं सम्प्रदृश्यते ॥ 3.11.53 ॥
विविक्तेषु च तीरेषु कृतस्नाना द्विजातयः।
पुष्पोपहारं कुर्वन्ति कुसुमैः स्वयमार्जितैः ॥ 3.11.54 ॥
तत्सुतीक्ष्णस्य वचनं यथा सौम्य मया श्रुतम्।
अगस्त्यस्याश्रमो भ्रातुर्नूनमेष भविष्यति ॥ 3.11.55 ॥
निगृह्य तरसा मृत्युं लोकानां हितकाम्यया।
यस्य भ्रात्रा कृतेयं दिक्छरण्या पुण्यकर्मणा ॥ 3.11.56 ॥
इहैकदा किल क्रूरो वातापिरपि चेल्वलः।
भ्रातरौ सहितावास्तां ब्राह्मणघ्नौ महासुरौ ॥ 3.11.57 ॥
धारयन् ब्राह्मणं रूपमिल्वलः संस्कृतं वदन्।
आमन्त्रयति विप्रान् स्म श्राद्धमुद्दिश्य निर्घृणः ॥ 3.11.58 ॥
भ्रातरं संस्कृतं कृत्वा ततस्तं मेषरूपिणम्।
तान् द्विजान् भोजयामास श्राद्धदृष्टेन कर्मणा ॥ 3.11.59 ॥
ततो भुक्तवतां तेषां विप्राणामिल्वलोऽब्रवीत्।
वातापे निष्क्रमस्वेति स्वरेण महता वदन् ॥ 3.11.60 ॥
ततो भ्रातुर्वचः श्रुत्वा वातापिर्मेषवन्नदन्।
भित्त्वा भित्त्वा शरीराणि ब्राह्मणानां विनिष्पतत् ॥ 3.11.61 ॥
ब्रह्मणानां सहस्राणि तैरेवं कामरूपिभिः।
विनाशितानि संहत्य नित्यशः पिशिताशनैः ॥ 3.11.62 ॥
अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा।
अनुभूय किल श्राद्धे भक्षितः स महासुरः ॥ 3.11.63 ॥
ततः सम्पन्नमित्युक्त्वा दत्त्वा हस्तोदकं ततः।
भ्रातरं निष्क्रमस्वेति चेल्वलः सोऽभ्यभाषत ॥ 3.11.64 ॥
स तं तथा भाषमाणं भ्रातरं विप्रघातिनम्।
अब्रवीत् प्रहसन् धीमानगस्त्यो मुनिसत्तमः ॥ 3.11.65 ॥
कुतो निष्क्रमितुं शक्तिर्मया जीर्णस्य रक्षसः।
भ्रातुस्ते मेषरूपस्य गतस्य यमसादनम् ॥ 3.11.66 ॥
अथ तस्य वचः श्रुत्वा भ्रातुर्निधनसंश्रयम्।
प्रधर्षयितुमारेभे मुनिं क्रोधान्निशाचरः ॥ 3.11.67 ॥
सोऽभिद्रवन्मुनिश्रेष्ठं मुनिना दीप्ततेजसा।
चक्षुषानलकल्पेन निर्दग्धो निधनं गतः ॥ 3.11.68 ॥
तस्यायमाश्रमो भ्रातुस्तटाकवनशोभितः।
विप्रानुकम्पया येन कर्मेदं दुष्करं कृतम् ॥ 3.11.69 ॥
एवं कथयमानस्य तस्य सौमित्रिणा सह।
रमस्यास्तं गतः सूर्यः सन्ध्याकालोऽभ्यवर्तत ॥ 3.11.70 ॥
उपास्य पश्चिमां सन्ध्यां सह भ्रात्रा यथाविधि।
प्रविवेशाश्रमपदं तमृषिं सोऽभ्यवादयत् ॥ 3.11.71 ॥
सम्यक् प्रतिगृहीतश्च मुनिना तेन राघवः।
न्यवसत्तां निशामेकां प्राश्य मूलफलानि च ॥ 3.11.72 ॥
तस्यां रात्र्यां व्यतीतायां विमले सूर्यमण्डले।
भ्रातरं तमगस्त्यस्य ह्यामन्त्रयत राघवः ॥ 3.11.73 ॥
अभिवादये त्वां भगवन् सुखमध्युषितो निशाम्।
आमन्त्रये त्वां गच्छामि गुरुं ते द्रष्टुमग्रजम् ॥ 3.11.74 ॥
गम्यतामिति तेनोक्तो जगाम रघुनन्दनः।
यथोद्दिष्टेन मार्गेण वनं तच्चावलोकयन् ॥ 3.11.75 ॥
निवारान् पनसांस्तालांस्तिमिशान्वञ्जुलान् धवान्।
चिरिबिल्वान् मधूकांश्च बिल्वानपि च तिन्दुकान् ॥ 3.11.76 ॥
पुष्पितान् पुष्पिताग्राभिर्लताभिरनुवेष्टितान्।
ददर्श रामः शतशस्तत्र कान्तारपादपान् ॥ 3.11.77 ॥
हस्तिहस्तैर्विमृदितान्वानरैरुपशोभितान्।
मत्तैः शकुनिसङ्घैश्च शतशश्च प्रणादितान् ॥ 3.11.78 ॥
ततोऽब्रवीत्समीपस्थं रामो राजीवलोचनः।
पृष्ठतोऽनुगतं वीरं लक्ष्मणं लक्ष्मिवर्धनम् ॥ 3.11.79 ॥
स्निग्धपत्त्रा यथा वृक्षा यथा क्षान्ता मृगद्विजाः।
आश्रमो नातिदूरस्थो महर्षेर्भावितात्मनः ॥ 3.11.80 ॥
अगस्त्य इति विख्यातो लोके स्वेनैव कर्मणा।
आश्रमो दृश्यते तस्य परिश्रान्तश्रमापहः ॥ 3.11.81 ॥
प्राज्यधूमाकुलवनश्चीरमालापरिष्कृतः।
प्रशान्तमृगयूथश्च नानाशकुनिनादितः ॥ 3.11.82 ॥
तस्येदमाश्रमपदं प्रभावाद्यस्य राक्षसैः।
दिगियं दक्षिणा त्रासाद्दृश्यते नोपभुज्यते ॥ 3.11.83 ॥
यदाप्रभृति चाक्रान्ता दिगियं पुण्यकर्मणा।
तदाप्रभृति निर्वैराः प्रशान्ता रजनीचराः ॥ 3.11.84 ॥
नाम्ना चेयं भगवतो दक्षिणा दिक् प्रदक्षिणा।
प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूरकर्मभिः ॥ 3.11.85 ॥
मार्गं निरोद्धुं निरतो भास्करस्याचलोत्तमः।
निदेशं पालयन् यस्य विन्ध्यः शैलो न वर्द्धते ॥ 3.11.86 ॥
अयं दीर्घायुषस्तस्य लोके विश्रुतकर्मणः।
अगस्त्यस्याश्रमः श्रीमान् विनीतजनसेवितः ॥ 3.11.87 ॥
एष लोकार्चितः साधुर्हिते नित्यरतः सताम्।
अस्मानभिगतानेष श्रेयसा योजयिष्यति ॥ 3.11.88 ॥
आराधयिष्याम्यत्राहमगस्त्यं तं महामुनिम्।
शेषं च वनवासस्य सौम्य वत्स्याम्यहं प्रभो ॥ 3.11.89 ॥
अत्र देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः।
अगस्त्यं नियताहारं सततं पुर्यपासते ॥ 3.11.90 ॥
नात्र जीवेन्मृषावादी क्रूरो वा यदि वा शठः।
नृशंसः कामवृत्तो वा मुनिरेष तथाविधः ॥ 3.11.91 ॥
अत्र देवाश्च यक्षाश्च नागाश्च पतगैः सह।
वसन्ति नियताहारा धर्ममाराधयिष्णवः ॥ 3.11.92 ॥
अत्र सिद्धा महात्मानो विमानैः सूर्यसन्निभैः।
त्यक्तदेहा नवैर्देहैः स्वर्याता परमर्षयः ॥ 3.11.93 ॥
यक्षत्वममरत्वं च राज्यानि विविधानि च।
अत्र देवाः प्रयच्छन्ति भूतैराराधिताः शुभैः ॥ 3.11.94 ॥
आगताः स्माश्रमपदं सौमित्रे प्रविशाग्रतः।
निवेदयेह मां प्राप्तमृषये सीतया सह ॥ 3.11.95 ॥