वाक्यमेतत्तु वैदेह्या व्याहृतं भर्तृभक्तया।
श्रुत्वा धर्मे स्थितो रामः प्रत्युवाचाथ मैथिलीम् ॥ 3.10.1 ॥
हितमुक्तं त्वया देवि स्निग्धया सदृशं वचः।
कुलं व्यपदिशन्त्या च धर्मज्ञे जनकात्मजे ॥ 3.10.2 ॥
किन्तु वक्ष्याम्यहं देवि त्वयैवोक्तमिदं वचः।
क्षत्त्रियैर्धार्यते चापो नार्तशब्दो भवेदिति ॥ 3.10.3 ॥
मां सीते स्वयमागम्य शरण्याः शरणं गताः।
ते चार्ता दण्डकारण्ये मुनयः संशितव्रताः ॥ 3.10.4 ॥
वसन्तो धर्मनिरता वने मूलफलाशनाः।
न लभन्ते सुखं भीता राक्षसैः क्रूरकर्मभिः ॥ 3.10.5 ॥
काले काले च निरता नियमैर्विविधैर्वने।
भक्ष्यन्ते राक्षसैर्भीमैर्नरमांसोपजीविभिः ॥ 3.10.6 ॥
ते भक्ष्यमाणा मुनयो दण्डकारण्यवासिनः।
अस्मानभ्यवपद्येति मामूचुर्द्विजसत्तमाः ॥ 3.10.7 ॥
मया तु वचनं श्रुत्वा तेषामेवं मुखाच्च्युतम्।
कृत्वा चरणशुश्रूषां वाक्यमेतदुदाहृतम् ॥ 3.10.8 ॥
यदीदृशैरहं विप्रैरुपस्थेयैरुपस्थितः।
किं करोमीति च मया व्याहृतं द्विजसन्निधौ ॥ 3.10.9 ॥
सर्वैरेतैः समागम्य वागियं समुदाहृता ॥ 3.10.10 ॥
राक्षसैर्दण्डकारण्ये बहुभिः कामरूपिभिः।
अर्दिताः स्म दृढं राम भवान्नस्तत्र रक्षतु ॥ 3.10.11 ॥
होमकालेषु सम्प्राप्ताः पूर्वकालेषु चानघ।
धर्षयन्ति सुदुर्धर्षा राक्षसाः पिशिताशनाः ॥ 3.10.12 ॥
राक्षसैर्धर्षितानां च तापसानां तपस्विनाम्।
गतिं मृगयमाणानां भवान्नः परमा गतिः ॥ 3.10.13 ॥
कामं तपः प्रभावेन शक्ता हन्तुं निशाचरान्।
चिरार्जितं तु नेच्छामस्तपः खण्डयितुं वयम् ॥ 3.10.14 ॥
बहुविघ्नं तपो नित्यं दुश्चरं चैव राघव।
तेन शापं न मुञ्चामो भक्ष्यमाणाश्च राक्षसैः ॥ 3.10.15 ॥
तदर्द्यमानान् रक्षोभिर्दण्डकारण्यवासिभिः।
रक्ष नस्त्वं सह भ्रात्रा त्वन्नाथा हि वयं वने ॥ 3.10.16 ॥
मया चैतद्वचः श्रुत्वा कार्त्स्न्त्यन परिपालनम्।
ऋषीणां दण्डकारण्ये संश्रुतं जनकात्मजे ॥ 3.10.17 ॥
संश्रुत्य च न शक्ष्यामि जीवमानः प्रतिश्रवम्।
मुनीनामन्यथा कर्तुं सत्यमिष्टं हि मे सदा ॥ 3.10.18 ॥
अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम्।
न तु प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः ॥ 3.10.19 ॥
तदवश्यं मया कार्यमृषीणां परिपालनम्।
अनुक्तेनापि वैदेहि प्रतिज्ञाय तु किं पुनः ॥ 3.10.20 ॥
मम स्नेहाच्च सौहार्दादिदमुक्तं त्वयाऽनधे।
परितुष्टोऽस्म्यिहं सीते न ह्यनिष्टोऽनुशिष्यते ॥ 3.10.21 ॥
सदृशं चानुरूपं च कुलस्य तव चात्मनः।
सधर्मचारिणी मे त्वं प्राणेभ्योऽपि गरीयसी ॥ 3.10.22 ॥
इत्येवमुक्त्वा वचनं महात्मा सीतां प्रियां मैथिलराजपुत्रीम्।
रामो धनुष्मान् सह लक्ष्मणेन जगाम रम्याणि तपोवनानि ॥ 3.10.23 ॥