००९ सीतया आयुधन्यासप्रदानम्

सुतीक्ष्णेनाभ्यनुज्ञातं प्रस्थितं रघुनन्दनम्।
हृद्यया स्निग्धया वाचा भर्तारमिदमब्रवीत् ॥ 3.9.1 ॥
अयं धर्मस्सुसूक्ष्मेण विधिना प्राप्यते महान्।
निवृत्तेन तु शक्योऽयं व्यसनात् कामजादिह ॥ 3.9.2 ॥
मिथ्यावाक्यं परमकं तस्माद् गुरुतरावुभौ।
परदाराभिगमनं विना वैरं च रौद्रता ॥ 3.9.3 ॥
मिथ्यावाक्यं न ते भूतं न भविष्यति राघव।
कुतोऽभिलाषणं स्त्रीणां परेषां धर्मनाशनम् ॥ 3.9.4 ॥
तव नास्ति मनुष्येन्द्र न चाभूत्ते कदाचन।
मनस्यपि तथा राम न चैतद्विद्यते क्वचित् ॥ 3.9.5 ॥
स्वदारनिरतस्त्वं च नित्यमेव नृपात्मज।
धर्मिष्ठस्सत्यसन्धश्च पितुर्निर्देशकारकः ॥ 3.9.6 ॥
सत्यसन्ध महाभाग श्रीमँल्लक्ष्णपूर्वज।
त्वयि सत्यं च धर्मश्च त्वयि सर्वं प्रतिष्ठितम् ॥ 3.9.7 ॥
तच्च सर्वं महाबाहो शक्यं धर्तुं जितेन्द्रियैः।
तव वश्येन्द्रियत्वं च जानामि शुभदर्शन ॥ 3.9.8 ॥
तृतीयं यदिदं रौद्रं परप्राणाभिहिंसनम्।
निर्वैरं क्रियते मोहात्तच्च ते समुपस्थितम् ॥ 3.9.9 ॥
प्रतिज्ञातस्त्वया वीर दण्डकारण्यवासिनाम्।
ऋषीणां रक्षणार्थाय वधस्संयति रक्षसाम् ॥ 3.9.10 ॥
एतन्निमित्तं च वनं दण्डका इति विश्रुतम्।
प्रस्थितस्त्वं सह भ्रात्रा धृतबाणशरासनः ॥ 3.9.11 ॥
ततस्त्वां प्रस्थितं दृष्ट्वा मम चिन्ताकुलं मनः।
त्वद्वृत्तं चिन्तयन्त्या वै भवेन्निःश्रेयसं हितम् ॥ 3.9.12 ॥
नहि मे रोचते वीर गमनं दण्डकान्प्रति।
कारणं तत्र वक्ष्यामि वदन्त्याः श्रूयतां मम ॥ 3.9.13 ॥
त्वं हि बाणधनुष्पाणिर्भ्रात्रा सह वनं गतः।
दृष्ट्वा वनचरान् सर्वान् कच्चित् कुर्याश्शरव्ययम् ॥ 3.9.14 ॥
क्षत्त्रियाणां च हि धनुर्हुताशस्येन्धनानि च।
समीपतः स्थितं तेजोबलमुच्छ्रयते भृशम् ॥ 3.9.15 ॥
पुरा किल महाबाहो तपस्वी सत्यवाक् शुचिः।
कस्मिंश्चिदभवत्पुण्ये वने रतमृगद्विजे ॥ 3.9.16 ॥
तस्यैव तपसो विध्नं कर्तुमिन्द्रश्शचीपतिः।
खङ्गपाणिरथागच्छदाश्रमं भटरूपधृत् ॥ 3.9.17 ॥
तस्मिंस्तदाश्रमपदे निशितः खङ्ग उत्तमः।
स न्यासविधिना दत्तः पुण्ये तपसि तिष्ठतः ॥ 3.9.18 ॥
स तच्छस्त्रमनुप्राप्य न्यासरक्षणतत्परः।
वने तं विचरत्येव रक्षन् प्रत्ययमात्मनः ॥ 3.9.19 ॥
यत्र गच्छत्युपादातुं मूलानि च फलानि च।
न विना याति तं खङ्गं न्यासरक्षणतत्परः ॥ 3.9.20 ॥
नित्यं शस्त्रं परिवहन् क्रमेण स तपोधनः।
चकार रौद्रीं स्वां बुद्धिं त्यक्त्वा तपसि निश्चयम् ॥ 3.9.21 ॥
ततः स रौद्रेऽभिरतः प्रमत्तोऽधर्मकर्शितः।
तस्य शस्त्रस्य संवासाज्जगाम नरकं मुनिः ॥ 3.9.22 ॥
एवमेतत्पुरा वृत्तं शस्त्रसंयोगकारणम् ॥ 3.9.23 ॥
अग्निसंयोगवद्धेतुश्शस्त्रसंयोग उच्यते।
स्नेहाच्च बहुमानाच्च स्मारये त्वां न शिक्षये ॥ 3.9.24 ॥
बुद्धिर्वैरं विना हन्तुं राक्षसान् दण्डकाश्रितान्।
अपराधं विना हन्तुं लोकान् वीर न कामये ॥ 3.9.25 ॥
क्षत्त्रियाणां तु वीराणां वनेषु निरतात्मनाम्।
धनुषा कार्यमेतावदार्तानामभिरक्षणम् ॥ 3.9.26 ॥
क्व च शस्त्रं क्व च वनं क्व च क्षात्त्रं तःप क्व च।
व्याविद्धमिदमस्माभिर्देशधर्मस्तु पूज्यताम् ॥ 3.9.27 ॥
तदार्य कलुषा बुद्धिर्जायते शस्त्रसेवनात्।
पुनर्गत्वा त्वयोध्यायां क्षत्त्रधर्मं चरिष्यसि ॥ 3.9.28 ॥
अक्षया तु भवेत्प्रीतिः श्वश्रूश्वशुरयोर्मम।
यदि राज्यं परित्यज्य भवेस्त्वं निरतो मुनिः ॥ 3.9.29 ॥
धर्मादर्थः प्रभवति धर्मात्प्रभवते सुखम्।
धर्मेण लभते सर्वं धर्मसारमिदं जगत् ॥ 3.9.30 ॥
आत्मानं नियमैस्तैस्तैः कर्शयित्वा प्रयत्नतः।
प्राप्यते निपुणैर्धर्मो न सुखाल्लभ्यते सुखम् ॥ 3.9.31 ॥
नित्यं शुचिमतिः सौम्य चर धर्मं तपोवने।
सर्वं हि विदितं तुभ्यं त्रेलोक्यमपि तत्त्वतः ॥ 3.9.32 ॥
स्त्रीचापलादेतदुदाहृतं मे धर्मं च वक्तुं तव कस्समर्थः।
विचार्य बुद्ध्या तु सहानुजेन यद्रोचते तत्कुरु मा चिरेण ॥ 3.9.33 ॥